14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 13:
|}
__TOC__
 
 
<big>तिङन्तपदस्य निर्माणे मातॄणां पद्धति: वैज्ञानिकी, तर्कपूर्णा इति तु वयं जानीमः एव, किन्तु समासपाठ्यक्रमे अपि मातुः पद्धत्यां वैलक्ष्ण्यं वर्तते एव  | माता समासपाठस्य विज्ञानं, समग्रहचिन्तनं च पाठयति यत् न वैयाकरणसिद्धान्तकौमुद्यां न वा लघुसिद्धान्तकौमुद्यां न वा अन्यत्र कुत्रापि लभ्यते  | समासप्रकरणस्य अध्यापनार्थं, छात्राणां सुखबोधनार्थं च मातृभिः समासप्रक्रियायां पञ्च उपाङ्गानि कृतानि | एतादृशक्रमेण समासप्रसङ्गे कीदृशकार्याणि भवितुम् अर्हन्ति; तत्सम्बद्धसूत्राणि च अष्टाध्यायां कुत्र वर्तन्ते इत्यपि ज्ञायते  |</big>
 
<big>समासप्रकरणस्य अध्ययने मातुः पाठ्यक्रमः न केवलं विलक्षणः, सरलः अपि अस्ति येन सुलभतया अर्थबोधः जायते  | बहूनां विद्यार्थीनां भ्रमः जायते वैयाकरणसिद्धान्तकौमुदीं पठित्वा परन्तु  मातुः पाठ्यक्रमे समासपाठः पठ्यते चेत् निश्चयेन बोधः भवत्येव  | मातुः पाठे समासप्रक्रियायां पञ्च उपाङ्गानि सन्ति  | एतस्य विवरणम् अग्रे दीयते  |</big>
 
=== <big>'''पञ्च उपाङ्गानि'''</big> ===
 
<big>समासप्रक्रियायां समस्तपदस्य निर्माणार्थं पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति |  इमानि पञ्च उपाङ्गनि सन्ति—</big>
 
==== <big>१) '''प्रातिपदिकसंज्ञा'''</big> ====
<big>समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | सामान्यतया प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण | सर्वत्र विभक्तेः लुक् भवति इति नास्ति, तस्य अपवादाः सन्ति | अष्टाध्यायां (६.३.१) इत्यस्मात् सूत्रात् आरभ्य (६.३.२४) इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति  | उत्तरपदे इति अधिकारे सुब्-अलुक् इति एकं कार्यम् अस्ति |</big>
 
 
<big>२) '''पूर्वनिपातः'''</big>
 
 
 
 
----
----
----
-----
 
 
<big>तिङन्तपदस्य निर्माणे मातॄणां पद्धति: वैज्ञानिकी, तर्कपूर्णा इति तु वयं जानीमः एव, किन्तु समासपाठ्यक्रमे अपि मातुः पद्धत्यां वैलक्ष्ण्यं वर्तते एव  | माता समासपाठस्य विज्ञानं, समग्रहचिन्तनं च पाठयति यत् न वैयाकरणसिद्धान्तकौमुद्यां न वा लघुसिद्धान्तकौमुद्यां न वा अन्यत्र कुत्रापि लभ्यते  | समासप्रकरणस्य अध्यापनार्थं, छात्राणां सुखबोधनार्थं च मातृभिः समासप्रक्रियायां पञ्च उपाङ्गानि कृतानि | एतादृशक्रमेण समासप्रसङ्गे कीदृशकार्याणि भवितुम् अर्हन्ति; तत्सम्बद्धसूत्राणि च अष्टाध्यायां कुत्र वर्तन्ते इत्यपि ज्ञायते ।</big>