14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 2,054:
क्रिडायां, जीविकायां च षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः नित्यः, तत्पुरुषश्च समासो भवति।</big>
 
====== <big>'''नित्यं क्रीडा जीविकयोः''' (२.२.१७)</big> ======
 
<big>'''नित्यं क्रीडा जीविकयोः''' (२.२.१७) = क्रिडायां, जीविकायां च षष्ठ्यन्तस्य सुबन्तस्य, अकप्रत्ययान्तेन सुबन्तेन सह नित्यं समासः, तत्पुरुषश्च समासो भवति |नित्यम् इति पदस्य ग्रहणेन आगम्यमाना विभाषा इति अधिकारस्य निवृत्तिः भवति |समासस्य नित्यता इति कारणेन पक्षे विग्रहवाक्यं न भवति | क्रीडा च जीविका च तयोरितरेतरयोगद्वन्द्वः क्रीडाजीविके, तयोः क्रीडाजीविकयोः |नित्यमिति क्रिया विशेषणं द्वितीयान्तं, क्रीडाजीविकयोः सप्तम्यन्तम्  |'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् अकेन सुपा सह नित्यं तत्पुरुषः समासः ।'''</big>
 
<big>क्रीडा इत्यस्य उदाहरणम् –</big>
Line 2,072:
<big>ओदनस्य भोजकः इत्यत्र समासः नास्ति यतोहि क्रीडा अथवा जीविका इत्यस्मिन् अर्थे नास्ति षष्ठ्यन्तं पदम्  |</big>
 
====== <big> '''तत्पुरुषोऽनञ् कर्मधारयः''' (२.४.१९)</big> ======
<big><br />
'''तत्पुरुषोऽनञ् कर्मधारयः''' (२.४.१९) =<big> अधिकारसूत्रम् अयम् उत्तरसूत्रेषु उपतिष्ठते |यद्यपि इदं सूत्रम् अधिकारसूत्रम् अस्ति तथापि यदि एतस्य सूत्रस्य अर्थस्य अपेक्षा वर्तते तदा सूत्रार्थः एवं भवति - नञ्समासं कर्मधारयं च वर्जयित्वा अन्ये तत्पुरुषसमासाः नपुंसकलिङ्गे भवन्ति |अस्य सूत्रस्य अधिकारः '''विभाषा सेनासुराच्छायाशालानिशानाम्''' ( २.४.२५) इति सूत्रं पर्यन्तम् अस्ति | नञ् च कर्मधार्यश्च तयोः समाहारद्वन्द्वः नञ्कर्मधारयः, सौत्रं पुंस्त्वम् |न नञ्कर्मधार्यः अनञ्कर्मधारयः |तत्पुरुषः प्रथमान्तम्, अनञ्कर्मधारयः प्रथमान्तम् |'''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति |अनुवृत्ति-सहित-सूत्रं— '''तत्पुरुषोऽनञ् कर्मधारयः नपुंसकम्।'''</big>
 
<big> </big>