14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 682:
 
<big>प्रकृतसूत्रे श्रित इति शब्दस्य आदिप्रकृतिः स्वीक्रियते; अर्थात् श्रित इति शब्दस्य तदन्तविधिः न स्वीक्रियते  | यथा कष्टं परमश्रितः इत्यत्र कष्टपरमश्रितः इति समासः न भवति यतोहि परमश्रितः इति पदे श्रितः इति पदं तदन्तविधिः न तु तदादिविधिः | अत्र कष्टं परमश्रितः इति व्यस्तप्रयोगः एव शक्यः |</big>
 
 
 
<big>प्रश्नः उदेति यत् कृष्णाश्रितः, कष्टाश्रितः इत्यादिषु स्थलेषु द्वितीयातत्पुरुषसमासः कथं सिद्ध्यति यतोहि अत्र श्रितः इति पदात् पूर्वम् आ इति उपसर्गः विद्यते ?</big>
 
<big>अत्र एका परिभाषा वर्तते – '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्'''  | परिभाषायाः अर्थः अस्ति यत् समासवृतौ कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति | अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्तेन सह समासः क्रियते | गतिः इति काचित् संज्ञा वर्तते व्याकरणे | गतिः इत्युक्ते उपसर्गः इत्यर्थः | '''गतिश्च''' ( १.४.६०) इत्यनेन प्रादयः क्रियायोगे गतिसज्ञाः स्युः | प्रादिगणे एते द्वाविंशतिः शब्दाः सन्ति – प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति-परि-उप | एते एव प्रादयः इत्युच्यन्ते | प्रादयः क्रियायोगे गतिसज्ञाः उपसर्गाः च स्युः  |</big> <big>गतिपूर्वकस्य उदाहरणम् – '''कृष्णम् आश्रितः''' इति विग्रहे सति '''कृष्णाश्रितः''' इति द्वितीयातत्पुरुषसमासः सिद्ध्यति | कारकस्य उदाहरणम् अग्रे दीयते |</big>
 
 
page_and_link_managers, Administrators
5,097

edits