14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 594:
 
 
===== <big>'''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४)</big> =====
 
<big>द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न इत्येतैः सुबन्तैः सह विकल्पेन समस्यते | द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति | श्रितादिषु गत्यर्थत्वात्कर्तरि क्तप्रत्ययः भवति | श्रितश्च, अतीतश्च, पतितश्च, गतश्च, अत्यस्तश्च, प्राप्तश्च आपन्नश्च तेषामितरेतरद्वन्द्वः, श्रितातीतपतितगतात्यस्त्प्राप्तापन्नास्तैः | '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति; तेन बलेन तदन्तविधिः भूत्वा द्वितीयान्तः इति अर्थः लभ्यते | द्वितीया प्रथमान्तं, श्रित-अतीत-पतित- गत-अत्यस्त -प्राप्त-आपन्नैः तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.२२) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीया सुप् श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः सुब्भिः सह विभाषा तत्पुरुषः समासः'''  |</big>
 
 
Line 616:
!प्रक्रिया
|-
|<big>अलौकिकविग्रहवाक्यं '''→''' कृष्ण + अम् + श्रित + सु '''→''' समाससंज्ञा भवति '''प्राक्कडारात्समासः'''<nowiki> (२.१.३) इति सूत्रेण | पुनः अत्र </nowiki>'''तत्पुरुषः'''<nowiki> (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति | </nowiki>'''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः'''<nowiki> (२.१.२४) इति सूत्रेण कृष्णं इति द्वितीयान्तं सुबन्तं पदं समर्थेन श्रितः इति सुबन्तेन सह समस्यते |</nowiki></big>
 
 
Line 625:
 
 
<big>कृष्ण + श्रित '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमविभक्तौ यत् पदं निर्दिष्टं  समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४)  | अस्मिन् सूत्रे द्वितीया इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र कृष्ण इति पदं द्वितीयान्तपदस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
 
Line 735:
 
 
<big>'''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रस्य अपवादः इदं सूत्रम् —</big>
 
 
Line 743:
 
 
<big>प्राप्त-आपन्न इत्येते पदे द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति | प्राप्तं च आपन्नं च तयोरितरेतरद्वन्द्वः प्राप्तापन्ने | प्राप्तापन्ने प्रथमान्तं, द्वितीयया तृतीयान्तं, च अव्ययं, त्रिपदं सूत्रम् | एतत् सूत्रं '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रस्य अपवादः अस्ति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''द्वितीया-तृतीया-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इत्यस्मात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— '''प्राप्तापन्ने सुपौ द्वितीयया सुपा सह विभाषा तत्पुरुषः समासः, अन्यतरस्याम् |'''</big>
 
 
Line 749:
 
 
<big>'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रं '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः'''(२.१.२४) इति सूत्रस्य अपवादः अस्ति | यदि '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण समासः भवति तर्हि प्राप्तः, आपन्नः चेत्यनयोः पदयोः पूर्वनिपातः न सम्भवति | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण जीविकाप्राप्तः इति समासः भवति यतो हि द्वितीयान्तं पदं पूर्वपदे अस्ति, प्राप्तः इति पदम् उत्तरपदे भवति |</big> <big>यदि प्राप्तः, आपन्नः च इत्यनयोः पदयोः पूर्वनिपातः इष्यते तर्हि '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रस्य आवश्यकता भवति | प्राप्तजीविका इति समासः सिद्ध्यति अनेन सूत्रेण |</big>
 
 
Line 781:
 
===== <big>'''स्वयं क्तेन''' (२.१.२५)</big> =====
<big>‘स्वयम्’ इति अव्ययं क्तप्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति | स्वयम् आत्मना इत्यस्मिन् अर्थे वर्तते  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति परन्तु ‘द्वितीया’ इति न सम्बद्ध्यते अयोग्यत्वात् | अर्थात् '''स्वयम्''' इति पदम् अव्ययम् अस्ति, अतः तस्य विभक्तेः लुक् भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रं वदति अव्ययात् परस्य आप्-प्रत्ययानाम् सुप्-प्रत्ययानाम् च लुक्-भवति इति | अत्र स्वयम् अव्ययम् इति कृत्वा द्वितीयान्तं पदं भवितुं न अर्हति | एतस्मात् कारणात्, द्वितीया इति अनुवृत्तस्य पदस्य अन्वयः न भवति अस्मिन् सूत्रे | यद्यपि द्वितीया इति पदस्य अन्वयः नास्ति तथापि तस्य अनुवृत्तिः भवति यतोहि उत्तरार्थं द्वितीयाग्रहणम् अनुवर्तते  | स्वयम् अव्ययम्, क्तेन तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— '''द्वितीया''' '''स्वयम् सुप् क्तेन सुपा सह विभाषा  तत्पुरुषः समासः''' |</big>
 
Line 808:
 
 
<big>खट्वा (cot )  इति द्वितीयान्त-शब्दः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति | क्षेपो निन्दा, स: च समासार्थ: एव, तेन विभाषा अधिकारेऽपि '''नित्यसमासः''' एव अयम्  | अयं समासः नित्यसमासः यतोहि वाक्येन निन्दा न अवगम्यते | खट्वा प्रथमान्तं, क्षेपे सप्तम्यन्तं खट्वाशब्दो द्वितीयान्तः | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः यद्यपि अस्ति तथापि अस्मिन् सूत्रे विधीयमानः समासः नित्यः यतोहि वाक्ये निन्दा न अवगम्यते  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''द्वितीया खट्वा सुप् क्तेन सुपा सह क्षेपे तत्पुरुषः समासः''' |</big>
 
 
Line 826:
 
===== <big>'''सामि''' (२.१.२७)</big> =====
<big>सामि इति अव्ययशब्दस्य क्तप्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति  | सामि इत्यव्ययमेकपदमिदं सूत्रम् | सामि इत्येतदव्ययम् अर्धशब्दपर्यायः अस्ति, तस्य अव्ययसंज्ञा इति कारणेन तस्य द्वितीयया सह सम्बन्धः नास्ति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति |  '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः'''(२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीया सामि सुप् क्तेन सुपा सह विभाषा तत्पुरुषः समासः''' |</big>
 
 
Line 847:
 
===== <big> '''कालाः''' (२.१.२८)</big> =====
<big>कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह विकल्पेन समस्यन्ते , तत्पुरुषश्च समासो भवति | कालाः इति बहुवचननिर्देशः स्वरूपनिरासार्थः | कालाः प्रथमाबहुवचनान्तमेकपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | '''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीयाः कालाः सुपः क्तेन सुपा सह विभाषा  तत्परुषाः समासाः''' |</big>
 
 
Line 942:
 
 
<big>कालवाचिनः द्वितीयान्ताः शब्दाः अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति | कालाः इत्येव | '''<u>अक्तान्तार्थं वचनम्</u>''' | अर्थात् उत्तरपदं सुबन्तं स्यात् परन्तु क्तप्रत्ययान्तं विहाय | अत्यन्तश्चासौ संयोगोऽत्यन्तसंयोगः, तस्मिन् अत्यन्तसंयोगे कर्मधारयः | अत्यन्तसंयोगे सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रं— '''अत्यन्तसंयोगे द्वितीयाः कालाः सुपः सुपा सह विभाषा तत्पुरुषः समासः |'''</big>
 
<big>अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति |</big>
Line 2,443:
 
 
<big>परन्तु केचन वैयाकरणाः वदन्ति यत् एतेषां समासानां समर्थनं विधायकसूत्रे एव योगविभागं कृत्वा समर्थनीयम् इति | अतः एव केषुचित् ग्रन्थेषु तत्पुरुषसमासविधायकसूत्रेषु नाम द्वितीया आरभ्य सप्तमी पर्यन्तं ये मुख्यतत्पुरुषसमासाः सन्ति तेषां योगविभागः क्रियते | अस्य कारणम् इदं यत् शिष्टैः बहवः तत्पुरुषसमासाः प्रयुक्ताः तेषां समर्थनं '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०), '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.२६), '''पञ्चमी भयने''' (२.१.३७), '''सप्तमी शौण्डैः''' (२.१.४०) इति एतैः सूत्रैः न सम्भवति यतो हि एतेषु सूत्रेषु श्रित, बलि, भय इत्यादाभिः शब्दैः सह एव समासस्य विधानं क्रियते | अतः एतेषां सूत्राणां विभजनं कृत्वा  विविधानां तत्पुरुषसमासप्रयोगाणां समर्थनं भवति | एतादृशविभजनस्य नाम योगविभागः इति कथ्यते |</big>
 
 
<big>यथा '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रे द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते, अन्यैः पदैः सह न समस्यते | अतः एव अस्य सूत्रस्य योगविभागं कृत्वा एवं रीत्या सूत्रद्वयं कुर्मः |</big> <big>प्रथमसूत्रेण  द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते |</big> <big>द्वितीयसूत्रेण द्वितीयान्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते | अत्र कस्यापि शब्दविशेषस्य अपेक्षा नास्ति इत्यतः अनेकेषु स्थलेषु समासः सम्भवति | एतादृशः योगविभागः '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०), '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.२६), '''पञ्चमी भयने''' (२.१.३७), '''सप्तमी शौण्डैः''' (२.१.४०) इति एतेषां सूत्राणां विषये अपि क्रियते |</big>
 
 
page_and_link_managers, Administrators
5,097

edits