14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 866:
 
 
<big>प्रमितः इति शब्दः कथं निष्पन्नः इति अस्माभिः ज्ञातव्यं भवति | प्र + मा + क्तः = प्रमितः | प्रमितः इति पदे '''आदिकर्मणि क्तः कर्तरि च''' ( ३.४.७१) इति सूत्रेण क्तप्रत्ययः विहितः अस्ति।अस्ति | अनेन सूत्रेण क्तप्रत्ययः कर्त्रार्थे, कर्मार्थे, भावार्थे, च विधीयते | आदिकर्मणि यः क्तप्रत्ययः विहितः, सः कर्तरि भवति | चकाराद् यथाप्राप्तं भावकर्मणोः | आदिभूतः क्रियाक्षणः एव आदिकर्म | तस्मिन् आदिकर्मणि भूतत्वेन विवक्षिते यः क्तप्रत्ययः विहितः, तस्य अयम् अर्थनिर्देशः | यथा १) प्रकृतः कटं देवदत्तः ( कर्त्रार्थे) ( Devadutta just began to make the mat ) | २) प्रकृतः कटो देवदत्तेन ( कर्मार्थे) | ३) प्रकृतं देवदत्तेन ( भावार्थे) | ४) प्रभुक्तः ओदनं देवदत्तः ( कर्त्रार्थे) | ५) प्रभुक्तः ओदनो देवदत्तेन ( कर्मार्थे) | ६) प्रभुक्तं देवदत्तेन ( भावार्थे) |</big>
 
 
<big>अस्माकम् उदाहरणे प्रतिपच्चन्द्रः मासं प्रमितः इत्यत्र प्रमितः इति शब्दः कर्त्रार्थे विहितः अस्ति | अतः मासम् इति पदं कर्म अस्ति माधातोः | अतः '''कर्मणि द्वितीया''' ( २.३.२) इत्यनेन सूत्रेण द्वितीया |</big>
 
 
page_and_link_managers, Administrators
5,097

edits