14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 3,934:
 
 
<big>कर्त्रर्थे विहितेन तृच् -प्रत्ययान्तेन शब्देन अथवा ण्वुल्-प्रत्ययान्तेन शब्देन सह एव षष्ठीतत्पुरुषसमासः निषिध्यते  | भावार्थे विहितेन तृच्प्रत्ययान्तेन शब्देन अथवा ण्वुल्प्रत्ययान्तेन शब्देन सह यः षष्ठीसमासः भवति तस्य निषेधः न क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | इक्षुभक्षिका इति षष्ठीसमासः भवति यतः भक्षिका इति ण्वुल्ण्वुच्-प्रत्ययान्तः शब्दः भावार्थे विहितः अस्ति | '''पर्यायार्हर्णोत्पत्तिषु ण्वुच्''' (३.३.१११) इति सूत्रेण ण्वुच्-प्रत्ययः विधीयते उत्पत्तिः इत्यस्मिन् अर्थे । अस्मिन् सूत्रे बहवः अर्थाः उक्ताः परन्तु अत्र अस्माकं प्रसङ्गे उत्पत्तिः इति अर्थः एव आवश्यकः भक्षिका इति पदं प्राप्तम् | भक्ष् इति धातुतः धात्वर्थनिर्देशार्थं भावार्थे ण्वुल्ण्वुच् इति प्रत्ययः क्रियते चेत् भक्षिका इति रूपं निष्पन्नम् | इक्षूणां भक्षिका इत्यत्र कर्त्रर्थे ण्वुल्प्रत्ययःण्वुच्प्रत्ययः नास्ति, अपि तु भावार्थे अस्ति इत्यतः षष्ठीसमासः सम्भवति | अतः इक्षुभक्षिका इति षष्ठीसमासः जायते | भक्षिका इति पदं ण्वुलन्तमपि भवितुम् अर्हति भावार्थे | ण्वुल्,ण्वुच इति प्रत्यययोः प्रयोगेण यत् रूपं लभ्यते तत्तु समानमेव परन्तु स्वरभेदः भवति |</big>
 
<big>एवमेव अन्यानि उदाहरणानि - ओदनभोजिका, पयःपायिका, अग्रगामिका इत्यादीनि |</big>
 
 
 
page_and_link_managers, Administrators
5,097

edits