14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 3,213:
 
 
<big>इध्मस्य प्रव्रश्चनः = इध्मप्रव्रश्चनः  | काष्ठस्य छेदनं कर्तुं मुद्गरः ( hammer) इत्यर्थः | इध्म नाम काष्ठम् इत्यर्थः | प्रव्रश्चन नाम मुद्गरः इत्यर्थः | प्रव्रश्चन इत्यत्र ल्युट्प्रत्ययः अस्ति करणार्थे | अतः वाक्यं भवति रामः मुद्गरेण इध्मं प्रवृश्चिति | मुद्गरः इध्मस्य प्रव्रश्चनः | अलौकिकविग्रहः = इध्म + ङस् + प्रव्रश्चन +सु  | अस्मिन् उदाहरणे '''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण षष्ठी विहिता अस्ति, अतः इयं षष्ठी प्रतिपदविधाना इत्युच्यते  | '''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन | '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन यः निषेधः प्राप्तः , तं निषेधं बाधित्वा पुनः '''कृद्योगा च षष्ठी समस्यत इति वाच्यम्''' इति वार्तिकेन विकल्पेन षष्ठीसमासः क्रियते  | समासप्रक्रियां कृत्वा इध्मप्रव्रश्चनः इति समासः सिद्धः भवति  |</big>
 
 
page_and_link_managers, Administrators
5,097

edits