14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 3,302:
 
 
<big>तर्हि पञ्चमः इति पदं तु संख्यावाचकः अस्ति | संख्या तु गुणः अस्ति इत्यतः गुणम् आश्रित्य एकदेशस्य पृथक्करणं इति मत्त्वा निर्धारणार्थे षष्ठी स्यात् इति चेत् तदपि न भवति यतोहि भाष्यकारःभाष्यकारेण गुणवचनसंज्ञाविषये उच्यते यत् '''समास-कृदन्त-तद्धितान्त-अव्यय-सर्वनाम-जाति-संख्या-संज्ञाशब्द-व्यतिरिक्तम्''' अर्थवद् शब्दस्वरूपं गुणवचनसंज्ञं भवति इति | अतः संख्यावाचकशब्दाः गुणवचनसंज्ञकाः इति स्वीकर्तुं न शक्यते | तर्हि पञ्चमः इत्यत्र निर्धारणार्थे षष्ठी नास्ति अपि तु '''षष्ठी शेषे''' ( २.३.५०) इत्यनेन सूत्रेण शेषार्थे एव षष्ठी जायते |</big>
 
 
page_and_link_managers, Administrators
5,159

edits