14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 3,611:
 
 
<big>समाधानमेवं यत् कृदव्ययस्य योगे षष्ठीसमासनिषेधार्थं तोसुन्प्रत्ययान्तं, कोसुन्प्रत्ययान्तंकसुन्प्रत्ययान्तं च स्वीकृत्यैव उदाहरणं सम्भवति --</big>
 
 
<big>'''१) पुरा सूर्यस्योदेतोराधेयः''' | पुरा सूर्यस्य उदेतोः आराधेयःआधेयः | अर्थात् सूर्योदयात् प्राक् एव अग्न्याधानं कर्तव्यम् इति | उद इति उपसर्गपूर्वकात् इण् -धातुतः तोसुन्प्रत्यये कृते '''उदेतोः''' इति रूपं निष्पन्नं भवति | उद + इ + तोसुन् | तोसुन् इत्यत्र नकारस्य, उकारस्य च इत्संज्ञा, लोपश्च भवति , अतः तोस् इति अवशिष्यते | उदेतोस् इति जायते, तत्पश्चात् उदेतोः इति रूपं सिद्धयति | इदम् उदाहरणं वेदे उक्तम् अस्ति |</big>
 
 
Line 3,635:
 
 
<big>अस्य समाधानमेवं यत् - '''कृत्यानां कर्तरि वा''' ( २.३.७१) इति सूत्रेण '''कर्तृकर्मणोः कृति''' २.३.६५ इति नित्यं षष्ठी प्राप्ता कर्तरि विकल्प्यते | कृत्यानां प्रयोगे कर्तरि वा षष्ठी विभक्तिर्भवति, न कर्मणि | अर्थात् कृत्यप्रत्ययानां योगे कर्तुः विकल्पेन षष्ठी स्यात् | यथा भवता कटः कर्तव्यः अथवा भवतः कटः कर्तव्यः | भवतः इति कर्तुः विकल्पेन षष्ठी प्राप्ता अस्ति '''कृत्यानां कर्तरि वा''' ( २.३.७१) इति सूत्रेण | तव्य, तव्यत्, अनीयर्, ण्यत्, यत्, क्यप्, केलिमर् इति आहत्य सप्त कृत्यप्रत्ययाः सन्ति | एतेषां योगे कर्तुः विकल्पेन षष्ठी स्यात् |</big>
 
 
Line 3,666:
 
 
<big>काशिका, सिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु समानाधिकरणम् इत्यस्य ''पाणिनेः सूत्रकारस्य'' इत्यादीनि दीयन्ते परन्तु भाष्यकारेण उक्तं यत् एतानि उदाहरणानि समानाधिकरणम् इत्यस्य उदाहरणानि न भवितुम् अर्हन्ति | किमर्थम् इति चेत् - '''षष्ठी''' (२.२.८) इति सूत्रे षष्ठी इति पदमेव प्रथमानिर्दिष्टम् अस्ति इति कृत्वा तस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति  | किन्तु पाणिनेः सूत्रकारस्य इत्यादिषु उदाहरणेषु द्वयोः पदयोः अपि षष्ठीविभक्तिः अस्ति , अतः द्वयोः अपि उपसर्जनसंज्ञा प्राप्ता अस्ति, अपि च द्वयोः अपि पूर्वनिपातः प्राप्तः अस्ति  | एतत् तु अनिष्टम् इत्यतः असामर्थ्यात् षष्ठीसमासः न जायते एव  | एतानि उदाहरणानि षष्ठीसमासार्थम् अयोग्यम्अयोग्यानि इत्यतः षष्ठीसमासस्य निषेधार्थम् अपि योग्यंयोग्यानि न नास्तिसन्ति  | किन्तु '''विशेषणं विशेष्येण बहुलम्''' ( २.१.५७) इति सूत्रेण विशेषणविशेष्ययोः समासः भवितुम् अर्हति यतोहि अनेन सूत्रेण विशेषणस्य एव पूर्वनिपातः भवति | एवं पाणिनिसूत्रकारः इति कर्मधारयसमासः भवत्येव |</big>
 
Line 3,673:
 
 
<big>समाधानम् = समानाधिकरणः इत्यस्य उदाहरणं तदेव भवति यत् '''अधात्वभिहितमसमर्थम्''' '''न''' भवति  | उपर्युक्तेषु उदाहरणेषु किमपि उदाहरणं धातुतः अभिहितः नास्ति इत्यतः ते सर्वे असमर्थाः सन्ति | भाष्यकारेण उच्यते यत् समानाधिकरणः असमर्थः भवति यः धातुतः अभिहितः नास्ति | '''अधात्वभिहितमसमर्थम्''' इत्युक्ते यः धातुतः अभिहितः न भवति सः असमर्थः भवति | यः धातुतः अभिहितः भवति तस्य एव षष्ठीसमासस्य निषेधः भवति समानाधिकरणम् इति विषये | यथा- '''सर्पिषः पीयमानस्य''' ( सर्पिः पीयमानम् इत्यर्थः) | पीयमानम् इति कर्मार्थे शानज्प्रत्ययान्तः शब्दः  | पा इति धातुतः कर्मार्थे यक्प्रत्ययः विधीयते शानज्प्रत्ययं निमित्तीकृत्य  | अन्यत् उदाहरणम् अस्ति '''यजुषः क्रियमाणस्य''' ( यजुर्वदेस्य पाठः क्रियमाणः इत्यर्थः) | अत्र उदाहरणद्वये अपि पा,कृ च धातुद्वारा सर्पिः, यजुः च उक्तं भवति  | अतः धातुतः अभिहितः इति कारणेन सर्पिः, यजुः च समर्थः भवति समासार्थम्  | अतः '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः समानाधिकरणः इति पदस्य उदाहरणं लब्धम् इदानीम् |</big>
 
 
page_and_link_managers, Administrators
5,097

edits