14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 3,673:
 
 
<big>समाधानम् = समानाधिकरणम् इत्यस्य उदाहरणं तदेव भवति यत् '''अधात्वभिहितम् असमर्थं''' भवति  | अत्र धातुशब्देन धातुसहचरितः प्रत्ययः उक्तः | समानाधिकरणम् इत्युक्ते धातुसहचरितेन प्रत्ययेन यत् उक्तं तत् | तत्रैव सामर्थ्यं भवति | उपर्युक्तेषु उदाहरणेषु किमपि उदाहरणं प्रत्ययेन अभिहितं नास्ति इत्यतः एतानि सर्वाणि असमर्थानि सन्ति | भाष्यकारेण उच्यते यत् समानाधिकरणं प्रत्ययेन ((धातुसहचरितेन प्रत्ययेन)) अभिहितं नास्ति तत् असमर्थं भवति | '''अधात्वभिहितमसमर्थम्''' इत्युक्ते यत् प्रत्ययेन (धातुसहचरितेन प्रत्ययेन) अभिहितं नास्ति, तत् असमर्थं भवति | प्रकृतसूत्रे समानाधिकरणदलस्य विषये षष्ठीसमासप्रतिषेधस्य उदाहरणं तदेव भवति यत् प्रत्ययेन (धातुसहचरितेन प्रत्ययेन) अभिहितमस्ति | यथा- '''सर्पिषः पीयमानस्य''' ( सर्पिः पीयमानम् इत्यर्थः) | पीयमानम् इति कर्मार्थे शानज्प्रत्ययान्तः शब्दः  | पा इति धातुतः कर्मार्थे यक्प्रत्ययः विधीयते शानज्प्रत्ययं निमित्तीकृत्य  | अन्यत् उदाहरणम् अस्ति '''यजुषः क्रियमाणस्य''' ( यजुर्वदेस्य पाठः क्रियमाणः इत्यर्थः) | अत्र उदाहरणद्वये अपि पा,कृ च धातुद्वारा सर्पिः, यजुः च उक्तं भवति  | अतः धातुतः अभिहितः इति कारणेन सर्पिः, यजुः च समर्थः भवति समासार्थम्  | अतः '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः समानाधिकरणम् इति दलस्य उदाहरणं लब्धम् इदानीम् |</big>
 
 
page_and_link_managers, Administrators
5,097

edits