14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 3,676:
 
 
<big>काशिका, सिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु समानाधिकरणम् इत्यस्य ''पाणिनेः सूत्रकारस्य'' इत्यादीनि दीयन्ते परन्तु भाष्यकारेण उक्तं यत् एतानि उदाहरणानि समानाधिकरणम् इत्यस्य उदाहरणानि न भवितुम् अर्हन्ति | किमर्थम्भाष्यकारस्य इतिमते द्रव्यं पदार्थः चेत् -समानाधिकरणं न भवति भेदाभावात् | पाणिनेः सूत्रकारस्य इत्यादिषु स्थलेषु द्वयोः पदयोः भेदाभावात् असमर्थं भवति | '''षष्ठी''' (२.२.८) इति सूत्रे षष्ठी इति पदमेव प्रथमानिर्दिष्टम् अस्ति इति कृत्वा तस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति  | किन्तु पाणिनेः सूत्रकारस्य इत्यादिषु उदाहरणेषु द्वयोः पदयोः अपि षष्ठीविभक्तिः अस्ति , अतः द्वयोः अपि उपसर्जनसंज्ञा प्राप्ता अस्ति, अपि च द्वयोः अपि पूर्वनिपातः प्राप्तः अस्ति  | एतत् तु अनिष्टम् इत्यतः असामर्थ्यात् षष्ठीसमासः न जायते एव  | एतानि उदाहरणानि षष्ठीसमासार्थम् अयोग्यानि इत्यतः षष्ठीसमासस्य निषेधार्थम् अपि योग्यानि न सन्ति  | किन्तु '''विशेषणं विशेष्येण बहुलम्''' ( २.१.५७) इति सूत्रेण विशेषणविशेष्ययोः समासः भवितुम् अर्हति यतोहि अनेन सूत्रेण विशेषणस्य एव पूर्वनिपातः भवति | एवं पाणिनिसूत्रकारः इति कर्मधारयसमासः भवत्येव |</big>
 
Line 3,696:
 
 
<big>इच्छार्थे, पूजार्थे (सत्कारार्थे), बुद्ध्यर्थे च यः क्तप्रत्ययः विधीयते, तदन्तेन सुबन्तेन सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते | कृदन्तप्रकरणे पूजाद्यर्थे क्तप्रत्ययः विधीयते वर्तमानार्थे '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण | प्रकृतसूत्रे पूजायाम् इति पदं क्तप्रत्ययस्य उपलक्षणम् अस्ति | अर्थात् '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण यः क्तप्रत्ययः विधीयते इच्छार्थे, पूजार्थे, बुद्ध्यर्थे च तस्य सङ्केतः अस्ति प्रकृतसूत्रे | '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इति सूत्रेण क्तप्रत्ययः विधीयते कर्मार्थे अथवा भावार्थे क ्तेनक्तेन तृतीयान्तं, चाव्ययं, पूजायां सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''पूजायां''' '''षष्ठी सुप् क्तेन सुपा सह न तत्पुरुषः समासः च |'''</big>
 
<big>यथा—</big>
page_and_link_managers, Administrators
5,097

edits