14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 3,790:
 
 
<big>यदि '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण अधिकरणार्थे क्तप्रत्ययः विहितः तर्हि एकस्मिन्नेव वाक्ये कर्तृकर्मणी द्वे अपि अनुक्ते भवितुम् अर्हतः | एवं चेत् '''अधिकरणवाचिनश्च''' ( २.३. ६८) इति सूत्रेण अधिकरणवाचिनः क्तस्य प्रयोगे अनुक्तकर्तुः षष्ठी विभक्तिर्भवति वा नो चेत् अनुक्तकर्मणः भवति वा नो चेत् द्वयोः अपि भवति वा ?</big>
 
 
Line 3,861:
 
<big>सामान्यशास्त्रम् अस्ति '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति सूत्रं, विशेषशास्त्रम् अस्ति '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति | '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति विशेषसूत्रं '''कर्तृकर्मणोः कृति''' ( २.३.६५)''',''' '''क्तस्य च वर्तमाने''' ( २.३. ६७), '''अधिकरणवाचिनश्च''' (२.३.६८), '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इति सूत्राणां मध्ये पठितं वर्तते इति कारणात् इदं सूत्रं केवलं '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति अव्यवहितं पूर्वसूत्रम् एव बाधते न तु पराणि सूत्राणि | अनया परिभाषया '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रं केवलं '''कर्तृकर्मणोः कृति (''' २.३.६५''')''' इति पूर्वसूत्रस्य एव बाधकम् अस्ति न तु अन्येषां परसूत्राणाम् | अतः '''अधिकरणवाचिनश्च''' (२.३.६८) इति सूत्रेण कर्तृकर्मणोद्वयोरपि षष्ठी भवितुम् अर्हति न तु केवलं कर्तुः एव | अतः एव इदमेषां भुक्तमोदनस्य इति उदाहरणं सम्भवति |</big>
 
 
 
<big>आहत्य यत्र कर्ता कर्म च द्वयमपि अनुक्तं एकस्मिन्नेव वाक्ये अपि च क्तप्रत्ययः अधिकरणार्थे विहितः तत्र द्वयोः षष्ठीविभक्तिः भवति '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन अथवा '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषायाः बलेन | कथञ्चित् अपि वयं समर्थयितुं शक्नुमः |</big>
Line 3,866 ⟶ 3,868:
 
 
<big>अत्र अन्यापि परिभाषा वर्तते - '''पुर�तादपवादाःपुरस्तादपवादाः अनन्तरान् �विधीन्विधीन् बाधन्ते नोत्तरान्''' इति | अस्याः परिभाषायाः अर्थः एवमस्ति - सूत्रपाठक्रमे पूर्वपठितानि विशेषशास्त्राणि स्व-अव्यवहितानि सामान्यशास्त्राणि एव बाधन्ते न तु व्यवहितानि | यथा सूत्रपाठक्रमे '''एत्येधत्यूठसु''' ( ६.१.८९) इति विशेषशास्त्रं, तदव्यवहितसामान्यशास्त्रं '''एङि पररूपं''' ( ६.१.९४), अतः तदेव बाधते न तु व्यवहितम् '''ओमाङोश्च''' (६.१.९५) इति पररूपम् |</big>
 
 
Line 3,882 ⟶ 3,884:
 
 
<big>प्रकृतस्थितौ</big> '''<big>पुर�तादपवादाःपुरस्तादपवादाः अनन्तरान् �विधीन्विधीन् बाधन्ते नोत्तरान्</big>''' <big>इति पारिभाषायाः बलेन '''क्तस्य च वर्तमाने''' ( २.३.६७), '''अधिकरणवाचिनश्च''' ( २.३.६८) चेति द्वे विशेषसूत्रे (अपवादसूत्रे) तयोः अनन्तरं विद्यमानस्य सामान्यसूत्रस्य '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' (२.३.६९) इति सूत्रस्य बाधां करोति |</big>
 
 
 
<big>'''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) =  ध्रौव्यागतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सः अधिकरणे भवति | ध्रौव्यार्थकेभ्यः ( स्थिरतावाचकेभ्यः) , गत्यर्थकेभ्यः, प्रत्यवसानार्थकेभ्यः( भोजनार्थकेभ्यः) च धातुभ्यः अधिकरणर्थे क्तप्रत्ययः विधीयते | '''चाद्यथाप्राप्तम्''' - अस्मिन् सूत्रे अधिकरणार्थे क्तप्रत्ययः विधीयते इत्यतः कर्मार्थे, भावार्थे तस्य निषेधः न स्यात्, एतदर्थं सूत्रे चकारग्रहणम् अस्ति | अतः यथाप्राप्तं कर्त्रर्थे, कर्मार्थे, भावार्थे च क्तप्रत्ययस्य समुच्चयः क्रियते | सूत्रे चकारग्रहणेन यथाप्राप्तं कर्त्रर्थे, कर्मार्थे ,भावार्थे च क्तप्रत्ययः विधीयते | ध्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः ( food) इति स्वनिकायप्रसिद्धिः |  निकाय इत्युक्ते विषयः इत्यर्थः | ध्रौव्यं नाम स्थैर्यम्, स्थिरता | सूत्रे ध्रौव्यशब्देन स्थिरता इत्यस्मिन् अर्थे ये धातवः सन्ति तेषां सर्वेषां ग्रहणं भवति | एवमेव गत्यर्थकानां प्रत्यवसानार्थकानां च ग्रहणं भवति | ध्रौव्यं च गतिश्च प्रत्यवसानं च तेषाम् इतरेतरयोगद्वन्द्वः ध्रौव्यगतिप्रत्यवसानानि, तानि अर्थः येषां ते ध्रौव्यगतिप्रत्यवसानार्थाः, तेभ्यः ध्रौव्यगतिप्रत्यवसानार्तेभ्यः '''|''' क्त प्रथमान्तम् अधिकरणे सप्तम्यन्तं, चाव्ययं, ध्रौव्यगतिप्रत्यवसानार्तेभ्यः पञ्चम्यन्तम् '''|''' '''कृदतिङ्''' ( ३.१.९३) इत्यस्य अधिकारः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः कृत् क्त च |'''</big>
page_and_link_managers, Administrators
5,155

edits