6---sArvadhAtukaprakaraNam-anadantam-aGgam/03a---tanAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(2 intermediate revisions by 2 users not shown)
Line 191:
 
<big>यथा स्वादिगणे, तनादिगणे अपि सिद्ध-तिङ्प्रत्ययाः चतुर्विधाः— हलादिपितः, अजादिपितः, हलाद्यपितः‌, अजाद्यपितः‌ च | तर्हि तनादिगणे संयोगपूर्वाङ्गधातुभिः सह असंयोगपूर्वाङ्गधातुभिः सह च, एषां चतुर्णां प्रत्ययानां योजनेन कीदृशं कार्यं भवति इति मुख्यम्‌ |</big>
 
 
 
<big><u>संयोगपूर्वाङ्गधातूनां कार्यम्</u>—</big>
 
 
 
<big>हलादिषु पित्सु = गुणः | हलादिषु किमपि सन्धिकार्यं नार्हम्‌ | अर्णु + ति → अर्णोति |</big>
Line 210 ⟶ 214:
 
<big><u>असंयोगपूर्वाङ्गधातूनां कार्यम्</u>—</big>
 
 
 
<big>हलादिषु पित्सु = गुणः | तनु + ति → तनोति</big>
Line 512 ⟶ 518:
 
 
<big>संज्ञापूर्वकः विधिः अनित्यः इति वार्तिकस्य अर्थः अस्ति यत् यदि कस्मिंश्चित् सूत्रे संज्ञानिर्देशं कृत्वा कश्चन विधिः उक्तः अस्ति, तर्हि केषुचन स्थलेषु तस्य सूत्रस्य अवकाशे प्राप्ते अपि तस्य सूत्रस्य प्रयोगं विना एव रूपाणि साधनीयानि | एतादृशानां विधीनाम् अवकाशे प्राप्ते अपि कुत्रचित् प्रयोगः न क्रियते, अतः ते 'अनित्याः' इत्युच्यन्ते | '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रे 'गुणः' इति संज्ञायाः निर्देशं कृत्वा विधिः उक्तः अस्ति, अतः अनेन सूत्रेण उक्तः विधिः अपि अनित्यः अस्ति | एषु चतुर्षु धातुषु '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति विकल्पेन | एकस्मिन्‌ पक्षे भवति, अपरस्मिन्‌ पक्षे न | भ्वादिगणे अस्य वार्तिकस्य कार्यं नास्ति यतोहि गुणकार्यं सर्वत्र अनित्यं नास्ति, केवलं केषुचित् स्थलेषु एव |<br /></big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/5/51/%E0%A5%A9_-_%E0%A4%A4%E0%A4%A8%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83.pdf ३ - तनादिगणः (c).pdf] (97k) Swarup Bhai, Mar 31, 2019, 5:01 AM v.1
page_and_link_managers, Administrators
5,094

edits