page_and_link_managers, Administrators
5,094
edits
m (Vidhya moved page 03A - तनादिगणः to 03A - तनादिगणः without leaving a redirect) |
No edit summary |
||
(9 intermediate revisions by 3 users not shown) | |||
Line 1:
{{DISPLAYTITLE: 03A - तनादिगणः}}
{| class="wikitable mw-collapsible mw-collapsed"
Line 27 ⟶ 28:
<big>'''तनादिकृञ्भ्यः उः''' (३.१.७९) = तनादिगणे स्थितेभ्यः धातुभ्यः, कृ-धातुतश्च उ-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | तन् आदिर्येषां ते, तनादयः बहुव्रीहिः, तनादयश्च कृञ् च तेषामितरेतरद्वन्द्वः तनादिकृञः, तेभ्यः तनादिकृञ्भ्यः | तनादिकृञ्भ्यः पञ्चम्यन्तं, उः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''कर्तरि शप्''' (३.१.६८) इत्यस्मात् '''कर्तरि''' इत्यस्य अनुवृत्तिः; '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''
Line 158 ⟶ 159:
<big>अत्र तिबादीन् निमित्तं मत्वा अङ्गकार्यं क्रियते | यथा तनु इति अङ्गं, ति इति प्रत्ययः | तनु + ति → गुणः → तनो + ति | अस्मिन् सोपाने कार्यं स्वादिगणस्य सदृशम् | स्वादिगणे कथम् आसीत् इति स्मरन्तु | धातूनां विभागद्वयम्—अजन्तधातवः हलन्तधातवः च | किमर्थम् एवम् आसीत् ? यतः स्वादिगणे अजन्तधातूनाम् अङ्गम् असंयोगपूर्वं (चिनु); हलन्तधातूनाम् अङ्गं संयोगपूर्वं (शक्नु) इति | स्वादिगणे सर्वत्र अङ्गम् उकारान्तं किल, श्नु प्रत्ययस्य कारणात् | यत्र अङ्गम् उकारान्तं, तत्र उकारात् प्राक् द्वयोः हलोः संयोगः अस्ति चेत्, अङ्गं संयोगपूर्वम् इति उच्यते | यथा शक् + नु → शक्नु इति अङ्गं संयोगपूर्वं; चि + नु → चिनु इति अङ्गम् असंयोगपूर्वम् इति | अनेन भेदेन, स्वादिगणे भागद्वयस्य कार्यं त्रिषु स्थलेषु भिद्यते स्म | स्मरन्ति वा केषु त्रिषु स्थलेषु ? — (१) अजाद्यपित्सु संयोगपूर्वात् उवङ् / असंयोगपूर्वात् यण्; (२) वकारादि मकारादि च प्रत्यये परे विकल्पेन असंयोगपूर्वस्य उ-लोपः (३) असंयोगपूर्वात् हि-प्रत्ययस्य लोपः |</big>
<big>तनादिगणे अस्माकं नव धातवः सर्वे हलन्ताः एव, अपि च सर्वेषाम् अङ्गम् उकारान्तम् | परन्तु एषु नवसु हलन्तधातुषु, षण्णाम् अङ्गम् असंयोगपूर्वम्—तनु, क्षणु, सनु, मनु, वनु, क्षेणु | नाम एतेषां षण्णाम् अपि अङ्गे उकारात् प्राक् हलोः संयोगः नास्ति | नवसु, अवशिष्टानां त्रयाणां धातूनाम् अङ्गम् संयोगपूर्वम्—अर्णु, घर्णु, वर्णु इति | एषां त्रयाणाम् अङ्गे, उकारात् प्राक् व्यञ्जनयोः संयोगः अस्ति | अनेन संयोग-असंयोग-भेदेन, तनादिगणे यथा स्वादिगणे स्थलत्रये कार्यं भिद्यते स्म, अत्र तनादिगणे स्थलद्वये कार्यं भिद्यते — (१) वकारादि मकारादि च प्रत्यये परे विकल्पेन असंयोगपूर्वस्य उ-लोपः; (२) असंयोगपूर्वात् हि-प्रत्ययस्य लोपः | तनादिगणे उवङ् न भवति एव, अतः अयं उवङ् / यण् भेदः न वर्तते |</big>
<big>फलितार्थः एवम् — तनादिगणे यत्र अङ्गं संयोगपूर्वं भवति (शक्नु इव), तत्र तिङन्तरूपाणि स्वादिगणवत् भवन्ति परन्तु अजाद्यपित्सु उवङ् स्थाने यण् एव भवति | तनादिगणे यत्र अङ्गम् असंयोगपूर्वम् (चिनु इव), तत्र तिङन्तरूपाणि स्वादिगणवत् एव भवन्ति |</big>
<big>यथा स्वादिगणे तनादिगणे अपि, संयोगपूर्व-अङ्गानि सामान्यानि (शक्नु इव अर्णु, घर्णु, वर्णु), असंयोगपूर्व-अङ्गानि (चिनु इव तनु, क्षणु, सनु, मनु, वनु, क्षेणु) विशेषाणि इति | नाम तनादिगणे ये सामान्यनियमाः सन्ति, अर्णु, घर्णु, वर्णु च तान् नियमान् अनुसृत्य प्रवर्तन्ते | असंयोगपूर्व-अङ्गानि (तनु, क्षणु, सनु, मनु, वनु, क्षेणु) आधिक्येन तान् नियमान् अनुसृत्य प्रवर्तन्ते एव—किन्तु स्थलद्वये विशेषाः भवन्ति |</big>
<big>तदाधारेण तनादिगणे प्रतिनिधि-चतुष्टयं स्वीक्रियताम्—</big>
<big>संयोगपूर्वाङ्गस्य परस्मैपदिधातुः = ऋण्</big>
<big>असंयोगपूर्वाङ्गस्य परस्मैपदिधातुः = तन्</big>
Line 177 ⟶ 187:
<big>एषां धातूनां रूपाणि चतुर्षु सार्वधातुकलकारेषु (लट्-लोट्-लङ्-
<big>यथा स्वादिगणे, तनादिगणे अपि सिद्ध-तिङ्प्रत्ययाः चतुर्विधाः— हलादिपितः, अजादिपितः, हलाद्यपितः, अजाद्यपितः च | तर्हि तनादिगणे संयोगपूर्वाङ्गधातुभिः सह असंयोगपूर्वाङ्गधातुभिः सह च, एषां चतुर्णां प्रत्ययानां योजनेन कीदृशं कार्यं भवति इति मुख्यम् |</big>
<big><u>संयोगपूर्वाङ्गधातूनां कार्यम्</u>—</big>
<big>हलादिषु पित्सु = गुणः | हलादिषु किमपि सन्धिकार्यं नार्हम् | अर्णु + ति → अर्णोति |</big>
Line 200 ⟶ 214:
<big><u>असंयोगपूर्वाङ्गधातूनां कार्यम्</u>—</big>
<big>हलादिषु पित्सु = गुणः | तनु + ति → तनोति</big>
Line 224 ⟶ 240:
<big>कस्यापि तनादिगणीय-धातोः अङ्गम् उकारान्तं भवति किल—ऋण् + उ → गुणः → अर्णु; तन् + उ → तनु | अनयोः अङ्गयोः भेदः कः ? अर्णु इति अङ्गे उकारात् प्राक् संयोगः अस्ति | '''हलोऽनन्तराः संयोगः''' (१.१.७) इत्यनेन द्वयोः हल्-वर्णयोः मध्ये स्वरः नास्ति चेत्, तयोः संयोग-संज्ञा भवति | अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः | तर्हि अर्णु इति अङ्गे, र्ण् इति संयोगः अस्ति | त्रिषु धातुषु (ऋण्, घृण्, वृण्) एवं भवति यतः तेषु, उपधायां ऋकारः अस्ति | उ-विकरणस्य प्रभावेन गुणः भवति, अपि च ऋकारस्य गुणः
Line 230 ⟶ 246:
<big>'''उतश्च प्रत्ययादसंयोगपूर्वात्''' (६.४.१०६) = प्रत्ययावयव-उकारात् प्राक् संयोगः नास्ति चेत्, परस्य हि-प्रत्ययस्य लुक् (लोपः) भवति | न विद्यते पूर्वः संयोगः यस्मात्, सः असंयोगपूवः, बहुव्रीहिः, तस्मात् असंयोगपूर्वात् | उतः पञ्चम्यन्तं, च अव्ययपदं, प्रत्ययात् पञ्चम्यन्तम्, असंयोगपूर्वात् पञ्चम्यन्तम्, अनेकपदमिदं
Line 292 ⟶ 308:
<big>'''आदेशप्रत्यययोः''' (८.३.५९) = इण्-प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्, तर्हि तस्य सकारस्य स्थाने षकारादेशो भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्, ठ्, ड्, ढ्, ण्, ष् इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्, अतः षकारः एव आदिष्टः भवति | नुम्, विसर्गः,
Line 384 ⟶ 400:
<big>तनादिगणे दशधातवः सन्ति; तेषु नव हलन्तधातवः उपरि परिशीलिताः | दशसु एकः धातुः अजन्तः; स च धातुः डुकृञ् करणे | '''आदिर्ञिटुडवः''' (१.३.५) इत्यनेन डु इत्यस्य इत्-संज्ञा, '''
Line 393 ⟶ 409:
<big>१) पित्सु प्रत्ययेषु— कृ + उ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इकः गुणः →
<big>२) अपित्सु प्रत्ययेषु— कृ + उ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इकः गुणः →
Line 411 ⟶ 427:
<big>हलादिषु पित्सु = गुणः | हलादिषु किमपि सन्धिकार्यं नार्हम् | करु + ति → करोति</big>
<big>अजादिषु पित्सु = गुणः, तदा अवादेशः | करु + आनि → करो + आनि →
Line 426 ⟶ 442:
<big>- '''वकारे मकारे यकारे परे, उकारस्य नित्यं लोपः | कुरु + वः → कुर्वः; अकुरु + म → अकुर्म; कुरु + यात् → कुर्यात्'''</big>
<big>अजाद्यपित्सु = '''इको यणचि'''* इत्यनेन यण्-आदेशः | कुरु + अन्ति →
Line 502 ⟶ 518:
<big>संज्ञापूर्वकः विधिः अनित्यः इति वार्तिकस्य अर्थः अस्ति यत् यदि कस्मिंश्चित् सूत्रे संज्ञानिर्देशं कृत्वा कश्चन विधिः उक्तः अस्ति, तर्हि केषुचन स्थलेषु तस्य सूत्रस्य अवकाशे प्राप्ते अपि तस्य सूत्रस्य प्रयोगं विना एव रूपाणि साधनीयानि | एतादृशानां विधीनाम् अवकाशे प्राप्ते अपि कुत्रचित् प्रयोगः न क्रियते, अतः ते 'अनित्याः' इत्युच्यन्ते | '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रे 'गुणः' इति संज्ञायाः निर्देशं कृत्वा विधिः उक्तः अस्ति, अतः अनेन सूत्रेण उक्तः विधिः अपि अनित्यः अस्ति | एषु चतुर्षु धातुषु '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति विकल्पेन | एकस्मिन् पक्षे भवति, अपरस्मिन् पक्षे न | भ्वादिगणे अस्य वार्तिकस्य कार्यं नास्ति यतोहि गुणकार्यं सर्वत्र अनित्यं नास्ति, केवलं केषुचित् स्थलेषु एव |<br /></big>
[https://static.miraheze.org/samskritavyakaranamwiki/
▲[https://static.miraheze.org/samskritavyakaranamwiki/f/ff/%E0%A5%A9_-_%E0%A4%A4%E0%A4%A8%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83_%28c%29.pdf ३ - तनादिगणः (c).pdf] (97k) Swarup Bhai, Mar 31, 2019, 5:01 AM v.1
|