6---sArvadhAtukaprakaraNam-anadantam-aGgam/03a---tanAdigaNaH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/03a---tanAdigaNaH (view source)
Revision as of 20:30, 13 May 2021
, 3 years agono edit summary
No edit summary |
No edit summary |
||
Line 3:
<big>2017 वर्गः-</big>
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/86_tanAdigaNaH---paricayaH_2017-07-12.mp3 १) tanAdigaNaH---paricayaH_2017-07-12]</big>
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/87_tanAdigaNaH---angakAryam_2017-07-19.mp3 २) tanAdigaNaH---angakAryam_2017-07-19]</big>
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/88_tanAdigaNaH---angakAryam__parasmaepade--___2017-07-26.mp3 ३) tanAdigaNaH---angakAryam_+_parasmaepade--ऋण्_+_तन्_2017-07-26]</big>
<big>2015 वर्गः-</big>
<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/52_tanAdigaNaH-1_samagra-cintanavidhiH---svAdigaNa-iva-sanyogapUrva-asanyogapUrva-bhedaH_2015-11-10.mp3 १) tanAdigaNaH-1_samagra-cintanavidhiH---svAdigaNa-iva-sanyogapUrva-asanyogapUrva-bhedaH_2015-11-10]</big>
<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/53_tanAdigaNaH-2_sanyogapUrva-asanyogapUrva-bhedadvayam__arNu-tanu--rUpAbhyAsyaH_laTi_2015-11-17.mp3 २) tanAdigaNaH-2_sanyogapUrva-asanyogapUrva-bhedadvayam_+_arNu-tanu--rUpAbhyAsyaH_laTi_2015-11-17]</big>
<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/54_tanAdigaNaH-3_kRu-dhAtuH_sUtrANi-abhyAsaH_ca--laT-loT-lang-vidhiling_2015-11-24.mp3 ३) tanAdigaNaH-3_kRu-dhAtuH_sUtrANi-abhyAsaH_ca--laT-loT-lang-vidhiling_2015-11-24]</big>
<big>तनादिगणे १० धातवः सन्ति | अत्र तेषां सार्वधातुकलकाराणां तिङन्तरूपाणि परिशीलनीयानि | तनादिगणीयेभ्यः धातुभ्यः कर्त्रर्थके सार्वधातुकप्रत्यये परे '''कर्तरि शप्''' (३.१.६८) इति सूत्रेण शप् विधीयते; तदा शपं प्रबाध्य '''तनादिकृञ्भ्यः उः''' (३.१.७९) इति सूत्रेण उ-विकरणप्रत्ययः विहितः भवति | अयम् उ-प्रत्ययः कीदृशः ? '''तिङ्शित्सार्वधातुकम्''' (३.४.११३) इति सूत्रेण यः प्रत्ययः धातुभ्यः विहितः अपि च तिङ् वा शित् वा अस्ति, सः सार्वधातुक-प्रत्ययः | यः कोऽपि प्रत्ययः धातुभ्यः विहितः परन्तु तिङ्शित् नास्ति, सः प्रत्ययः '''आर्धधातुकं शेषः''' (३.४.११४) इति सूत्रेण आर्धधातुक-प्रत्ययः भवति | तर्हि उ-प्रत्ययः धातुभ्यः विहितः, अपि च तिङ्शित् नास्ति इति कारणतः आर्धधातुक-प्रत्ययः अयम् | दशसु गणेषु तनादिगणः एक एव गणः यस्मिन् विकरण-प्रत्ययः आर्धधातुकम् |</big>
<big>'''तनादिकृञ्भ्यः उः''' (३.१.७९) = तनादिगणे स्थितेभ्यः धातुभ्यः, कृ-धातुतश्च उ-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | तन् आदिर्येषां ते, तनादयः बहुव्रीहिः, तनादयश्च कृञ् च तेषामितरेतरद्वन्द्वः तनादिकृञः, तेभ्यः तनादिकृञ्भ्यः | तनादिकृञ्भ्यः पञ्चम्यन्तं, उः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''कर्तरि शप्''' (३.१.६८) इत्यस्मात् '''कर्तरि''' इत्यस्य अनुवृत्तिः; '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''धातोरनेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''तनादिकृञ्भ्यः धातुभ्यः उः प्रत्ययः परश्च कर्तरि सार्वधातुके''' |</big>
Line 27:
<big><u>विकरणप्रत्ययः आर्धधातुकः, लकारः सार्वधातुकः—इत्यनेन समस्या वा ?</u></big>
<big>उ-विकरणप्रत्ययस्य आर्धधातुकत्वात् तनादिगणीयेषु तिङन्तरूपेषु कीदृशः प्रभावः, इति काचन प्रमुखा जिज्ञासा | अत्र अस्माकं विषयः सार्वधातुकलकाराः (लट्, लोट्, लङ्, विधिलिङ्); यत्र विकरणप्रत्ययः आर्धधातुकं, तत्र लकारः कथं वा सार्वधातुकः भवेत् ? यथा प्रत्ययः, तथा लकारः किल; अयं सामान्यप्रश्नः जनानाम् | वस्तुतः विकरणप्रत्ययः कीदृशोऽपि भवतु नाम, लकारः सार्वधातुको वा आर्धधातुको वा इति प्रश्नः च विकरणप्रत्ययस्य स्वभावः च— अनयोः द्वयोः वार्तयोः न कोऽपि सम्पर्कः |</big>
<big>तर्हि सार्वधातुकलकारः नाम कः ? यत्र तिङन्तपदस्य निर्माणाक्रमे प्रक्रियायां धातुना कर्त्रर्थक-सार्वधातुक-प्रत्ययः साक्षात् दृश्यते (साक्षात् पुरतः), तत्र '''कर्तरि शप्''' इति सूत्रेण शप् विधीयते | यत्र '''कर्तरि शप्''' इत्यस्य प्रसक्तिः, तत्र सार्वधातुकलकारः इत्युच्यते |</big>
<big>'''कर्तरि शप्''' किं वदति ? कर्त्रर्थके सार्वधातुक-प्रत्यये परे, धातुतः शप् विहितः भवति | यथा भू + ति → '''कर्तरि शप्''' → भू + शप् + ति | अत्र भू-धातुः साक्षात् ति-प्रत्ययं पश्यति (ति सार्वधातुकः अस्ति) अतः '''कर्तरि शप्''' इति सूत्रस्य प्रसक्तिः अस्ति | अपरेषु गणेषु शपं प्रबाध्य अन्यैः सूत्रैः अन्ये विकरणप्रत्ययाः विहिताः | तेषु गणेषु अपि धातोः अग्रे सार्वधातुक-तिङ्प्रत्ययः साक्षात् दृश्यते चेदेव तत्तत्गणस्य विकरणप्रत्ययः विधीयते | भ्वादौ शप्, दिवादौ श्यन्, तुदादौ श, तनादौ उ, गणमनुसृत्य धातोः अग्रे सार्वधातुक-तिङ्प्रत्ययः साक्षात् दृश्यते चेत् विकरणं विधीयते |</big>▼
▲<big>कर्तरि शप् किं वदति ? कर्त्रर्थके सार्वधातुक-प्रत्यये परे, धातुतः शप् विहितः भवति | यथा भू + ति → कर्तरि शप् → भू + शप् + ति | अत्र भू-धातुः साक्षात् ति-प्रत्ययं पश्यति (ति सार्वधातुकः अस्ति) अतः कर्तरि शप् इति सूत्रस्य प्रसक्तिः अस्ति | अपरेषु गणेषु शपं प्रबाध्य अन्यैः सूत्रैः अन्ये विकरणप्रत्ययाः विहिताः | तेषु गणेषु अपि धातोः अग्रे सार्वधातुक-तिङ्प्रत्ययः साक्षात् दृश्यते चेदेव तत्तत्गणस्य विकरणप्रत्ययः विधीयते | भ्वादौ शप्, दिवादौ श्यन्, तुदादौ श, तनादौ उ, गणमनुसृत्य धातोः अग्रे सार्वधातुक-तिङ्प्रत्ययः साक्षात् दृश्यते चेत् विकरणं विधीयते |</big>
<big>भ्वादौ भू + ति, दिवादौ नश् + ति, तुदादौ लिख् + ति— यदा सार्वधातुकतिङ् साक्षात् दृश्यते, तदा विकरणं विधीयते अतः सार्वधातुकलकारः | लट्, लोट्, लङ्, विधिलिङ् इत्येषु चतुर्षु लकारेषु एवं रीत्या धातु-तिङ्प्रत्यययोः मध्ये विकरणप्रत्ययः विहितः | तत्र विकरणभेदात् गणभेदः | अतः एषु चतुर्षु लकारेषु कस्यचित् धातोः तिङन्तरूपं ज्ञेयं चेत्, स च धातुः कस्मिन् गणे अस्ति इत्यवश्यं बोध्यम् |</big>
<big>आर्धधातुकलकारेषु गणस्य ज्ञानं नापेक्षितम् यतः मध्ये विकरणप्रत्ययः न विहितः | विकरणप्रत्ययः न विहितः यतोहि धातोः साक्षात् परं सार्वधातुकतिङ्-प्रत्ययः नास्ति | यथा लृटि सिद्ध-तिङ्प्रत्ययः अस्ति "स्यति" | भू + स्यति, इति स्थितिः | स्यति आर्धधातुकं न तु सार्वधातुकं | अत्र भू-धातुः सार्वधातुक-ति-प्रत्ययम् द्रष्टुं न शक्नोति यतः 'स्य' मध्ये अस्ति | सार्वधातुकप्रत्ययः साक्षात् पुरतः नास्ति अतः '''कर्तरि शप्''' इत्यस्य प्रसक्तिः नास्ति |</big>
<big>सारांशः अयं— '''कर्तरि शप्''' तदा कार्यं करोति यदा धातोः साक्षात् पुरतः सार्वधातुकप्रत्ययः अस्ति | धातोः साक्षात् पुरतः सार्वधातुकप्रत्ययः अस्ति न वा इति प्रश्नः, विकरणप्रत्ययस्य स्वभावः कः इति प्रश्नः, अनयोः प्रश्नयोः न कोऽपि सम्बन्धः; विकरणप्रत्ययः आयाति चेत् अनन्तरम् एव आयाति | अतः अनेन स्पष्टं यत् लकारः कीदृशः अपि च विकरणप्रत्ययः कीदृशः—अनयोः न कोऽपि सम्बन्धः |</big>
<big>तर्हि उ-विकरणप्रत्ययः आर्धधातुकम्, अपि च अस्माकं चत्वारः लकाराः सार्वधातुकाः— अत्र न कोऽपि सङ्घर्षः, न कोऽपि क्लेशः |</big>
Line 49 ⟶ 53:
<big>उ-विकरणप्रत्ययस्य आर्धधातुकत्वात् कीदृशः प्रभावः धातौ ?</big>
<big>गुणकार्ये आर्धधातुकप्रत्ययः निमित्तं भवति वा ? यत्र प्रत्ययः आर्धधातुकं, तत्र सार्वधातुकार्धधातुकयोः (७.३.८४), पुगन्तलघूपधस्य च (७.३.८६) इत्यनयोः सूत्रयोः प्रसक्तिः वा ? अस्त्येव | सार्वधातुकप्रत्ययो वा आर्धधातुकप्रत्ययो वा, द्वयोः सूत्रयोः प्रसक्तिः अस्त्येव | अधुना सार्वधातुकप्रत्ययः अपित् चेत्, तर्हि तेन गुणकार्यं निषिद्धम् सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) इत्याभ्यां सूत्राभ्याम् | सार्वधातुकस्य अपित्त्वादेव गुणनिषेधः; आर्धधातुकस्य अपित्त्वात् न किमपि महत्त्वम् | आर्धधातुकप्रत्ययः कित् वा ङित् वा चेत्, तर्हि गुणकार्यं निषिद्धम् क्क्ङिति च (१.१.५) इत्यनेन | उ-प्रत्ययः आर्धधातुकं; स च उ-प्रत्ययः कित् अपि न, ङित् अपि न, अतः गुणप्रसङ्गः भवति चेत्, तर्हि उ-प्रत्ययः गुणकार्यस्य निमित्तं भवति एव | तनादिगणे एतादृशः अवसरः अस्ति | यथा क्षिण् + उ → क्षेणु |</big>▼
▲<big>गुणकार्ये आर्धधातुकप्रत्ययः निमित्तं भवति वा ? यत्र प्रत्ययः आर्धधातुकं, तत्र '''सार्वधातुकार्धधातुकयोः''' (७.३.८४), '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनयोः सूत्रयोः प्रसक्तिः वा ? अस्त्येव | सार्वधातुकप्रत्ययो वा आर्धधातुकप्रत्ययो वा, द्वयोः सूत्रयोः प्रसक्तिः अस्त्येव | अधुना सार्वधातुकप्रत्ययः अपित् चेत्, तर्हि तेन गुणकार्यं निषिद्धम् '''सार्वधातुकमपित्''' (१.२.४), '''क्क्ङिति च''' (१.१.५) इत्याभ्यां सूत्राभ्याम् | सार्वधातुकस्य अपित्त्वादेव गुणनिषेधः; आर्धधातुकस्य अपित्त्वात् न किमपि महत्त्वम् | आर्धधातुकप्रत्ययः कित् वा ङित् वा चेत्, तर्हि गुणकार्यं निषिद्धम् '''क्क्ङिति च''' (१.१.५) इत्यनेन | उ-प्रत्ययः आर्धधातुकं; स च उ-प्रत्ययः कित् अपि न, ङित् अपि न, अतः गुणप्रसङ्गः भवति चेत्, तर्हि उ-प्रत्ययः गुणकार्यस्य निमित्तं भवति एव | तनादिगणे एतादृशः अवसरः अस्ति | यथा क्षिण् + उ → क्षेणु |</big>
<big><u>सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि
<big>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्</big>
Line 60 ⟶ 65:
<big>३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्</big>
<big>१. <u>विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्</u></big>
<big>तनादिगणे दश धातवः सन्ति—डुकृञ्, तनु, क्षणु, षणु, मनु, वनु, क्षिणु, ऋणु, घृणु, वृणु इति | निरनुबन्ध-रूपाणि इमानि—कृ, तन्, क्षण्, सन्, मन्, वन्, क्षिण्, ऋण्, घृण्, वृण् | अत्र अवधेयं यत् कृ-धातुः अजन्तः; अवशिष्टाः नव धातवः हलन्ताः | नव हलन्तधातवः सामान्याः अतः एकत्र तान् परिशीलयाम | कृ-धातोः प्रक्रिया किञ्चित् भिन्ना अतः तम् अनन्तरं पश्येम |</big>
<big>हलन्तधातोः उपधायां लघु इक् अस्ति चेत्, तर्हि '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति | नव हलन्तधातवः सन्ति, तेषु पञ्च अदुपधधातवः— तन्, क्षण्, सन्, मन्, वन् | यत्र उपधायाम् अकारः अस्ति, तत्र इगाभावे गुणकार्यं नार्हम् | अतः एषां पञ्चानां धातूनां किमपि अङ्गकार्यं नास्ति | केवलं धातु-विकरणप्रत्यययोः मेलनम् |</big>
Line 77 ⟶ 85:
<big>वन् + उ → वनु</big>
<big>नव हलन्तधातुषु चत्वारः लघूपधधातवः (उपधायां लघु इक् येषां ते) | तत्र '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति—</big>
<big>क्षिण् + उ → उपधायां लघु-इकः गुणः → क्षेणु</big>
Line 88 ⟶ 97:
<big>२. <u>तिङ्संज्ञकप्रत्यय-सिद्धिः</u></big>
<big>अनदन्ताङ्गानां कृते तिङ्प्रत्यय-सिद्धिः जाता एव | यत्र अङ्गम् अनदन्तं, तत्र सर्वेषां धातूनां कृते सिद्ध-तिङ्संज्ञकप्रत्ययाः समानाः इति तु वयं जानीमः | अतः तनादिगणेऽपि सिद्ध-तिङ्प्रत्ययाः एते एव—</big>
<big> परस्मैपदम् आत्मनेपदम्</big>▼
<big> <u>परस्मैपदम्</u>
<big>
<big> '''ति'''
<big>
<big> '''मि''' वः मः
<big>
<big> हि, तात् तम् त स्व आथाम् ध्वम्</big>
<big> '''आनि आव आम ऐ आवहै आमहै'''</big>
<big> '''त्''' ताम् अन्
<big>
<big>
▲<big> अम् व म इ वहि महि</big>
<big> '''विधिलिङ्-लकारः'''</big>
<big> यात् याताम् युः ईत ईयाताम् ईरन्</big>
Line 127 ⟶ 140:
<big>३. <u>तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्</u></big>
<big>अत्र तिबादीन् निमित्तं मत्वा अङ्गकार्यं क्रियते | यथा तनु इति अङ्गं, ति इति प्रत्ययः | तनु + ति → गुणः → तनो + ति | अस्मिन् सोपाने कार्यं स्वादिगणस्य सदृशम् | स्वादिगणे कथम् आसीत् इति स्मरन्तु | धातूनां विभागद्वयम्—अजन्तधातवः हलन्तधातवः च | किमर्थम् एवम् आसीत् ? यतः स्वादिगणे अजन्तधातूनाम् अङ्गम् असंयोगपूर्वं (चिनु); हलन्तधातूनाम् अङ्गं संयोगपूर्वं (शक्नु) इति | स्वादिगणे सर्वत्र अङ्गम् उकारान्तं किल, श्नु प्रत्ययस्य कारणात् | यत्र अङ्गम् उकारान्तं, तत्र उकारात् प्राक् द्वयोः हलोः संयोगः अस्ति चेत्, अङ्गं संयोगपूर्वम् इति उच्यते | यथा शक् + नु → शक्नु इति अङ्गं संयोगपूर्वं; चि + नु → चिनु इति अङ्गम् असंयोगपूर्वम् इति | अनेन भेदेन, स्वादिगणे भागद्वयस्य कार्यं त्रिषु स्थलेषु भिद्यते स्म | स्मरन्ति वा केषु त्रिषु स्थलेषु ? — (१) अजाद्यपित्सु संयोगपूर्वात् उवङ् / असंयोगपूर्वात् यण्; (२) वकारादि मकारादि च प्रत्यये परे विकल्पेन असंयोगपूर्वस्य उ-लोपः (३) असंयोगपूर्वात् हि-प्रत्ययस्य लोपः |</big>
<big>तनादिगणे अस्माकं नव धातवः सर्वे हलन्ताः एव, अपि च सर्वेषाम् अङ्गम् उकारान्तम् | परन्तु एषु नवसु हलन्तधातुषु, षण्णाम् अङ्गम् असंयोगपूर्वम्—तनु, क्षणु, सनु, मनु, वनु, क्षेणु | नाम एतेषां षण्णाम् अपि अङ्गे उकारात् प्राक् हलोः संयोगः नास्ति | नवसु, अवशिष्टानां त्रयाणां धातूनाम् अङ्गम् संयोगपूर्वम्—अर्णु, घर्णु, वर्णु इति | एषां त्रयाणाम् अङ्गे, उकारात् प्राक् व्यञ्जनयोः संयोगः अस्ति | अनेन संयोग-असंयोग-भेदेन, तनादिगणे यथा स्वादिगणे स्थलत्रये कार्यं भिद्यते स्म, अत्र तनादिगणे स्थलद्वये कार्यं भिद्यते — (१) वकारादि मकारादि च प्रत्यये परे विकल्पेन असंयोगपूर्वस्य उ-लोपः; (२) असंयोगपूर्वात् हि-प्रत्ययस्य लोपः | तनादिगणे उवङ् न भवति एव, अतः अयं उवङ् / यण् भेदः न वर्तते |</big>
<big>फलितार्थः एवम् — तनादिगणे यत्र अङ्गं संयोगपूर्वं भवति (शक्नु इव), तत्र तिङन्तरूपाणि स्वादिगणवत् भवन्ति परन्तु अजाद्यपित्सु उवङ् स्थाने यण् एव भवति | तनादिगणे यत्र अङ्गम् असंयोगपूर्वम् (चिनु इव), तत्र तिङन्तरूपाणि स्वादिगणवत् एव भवन्ति |</big>
<big>यथा स्वादिगणे तनादिगणे अपि, संयोगपूर्व-अङ्गानि सामान्यानि (शक्नु इव अर्णु, घर्णु, वर्णु), असंयोगपूर्व-अङ्गानि (चिनु इव तनु, क्षणु, सनु, मनु, वनु, क्षेणु) विशेषाणि इति | नाम तनादिगणे ये सामान्यनियमाः सन्ति, अर्णु, घर्णु, वर्णु च तान् नियमान् अनुसृत्य प्रवर्तन्ते | असंयोगपूर्व-अङ्गानि (तनु, क्षणु, सनु, मनु, वनु, क्षेणु) आधिक्येन तान् नियमान् अनुसृत्य प्रवर्तन्ते एव—किन्तु स्थलद्वये विशेषाः भवन्ति |</big>
<big>तदाधारेण तनादिगणे प्रतिनिधि-चतुष्टयं स्वीक्रियताम्—</big>
Line 148 ⟶ 166:
<big>असंयोगपूर्वाङ्गस्य आत्मनेपदिधातुः = तन्</big>
<big>एषां धातूनां रूपाणि चतुर्षु सार्वधातुकलकारेषु (लट्-लोट्-लङ्-विधिलिङ्सु) जानीमः चेत्, तर्हि सर्वेषां तनादिगणीय-धातूनां सार्वधातुकलकार-रूपाणि जानीमः एव (कृ-धातुं विहाय) |</big>
Line 153 ⟶ 172:
<big>यथा स्वादिगणे, तनादिगणे अपि सिद्ध-तिङ्प्रत्ययाः चतुर्विधाः— हलादिपितः, अजादिपितः, हलाद्यपितः, अजाद्यपितः च | तर्हि तनादिगणे संयोगपूर्वाङ्गधातुभिः सह असंयोगपूर्वाङ्गधातुभिः सह च, एषां चतुर्णां प्रत्ययानां योजनेन कीदृशं कार्यं भवति इति मुख्यम् |</big>
<big><u>संयोगपूर्वाङ्गधातूनां
<big>हलादिषु पित्सु = गुणः | हलादिषु किमपि सन्धिकार्यं नार्हम् | अर्णु + ति → अर्णोति |</big>
Line 159 ⟶ 179:
<big>अजादिषु पित्सु = गुणः, तदा अवादेशः | अर्णु + आनि → अर्णो + आनि → अर्ण् + अव् + आनि → अर्णवानि |</big>
<big>हलाद्यपित्सु = '''क्क्ङिति च''' इत्यनेन गुण निषेधः; किमपि कार्यं नास्ति | अर्णु + तः → अर्णुतः |</big>
<big>अजाद्यपित्सु = '''इको यणचि*''' इत्यनेन यण्-आदेशः | अर्णु + अन्ति → अर्ण् + व् + अन्ति → अर्ण्वन्ति |</big>
<big>*स्वादिगणे अत्र '''इको यणचि''' (६.१.७७) इति सामान्यं यण्-विधायकं सूत्रं प्रबाध्य '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणप्रसक्तिः, तदा एकवारं यदा गुणनिषेधो भवति '''क्क्ङिति च''' (१.१.५) , तत्पश्चात् '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ्-आदेशः भवति (यथा शक्नु + अन्ति → शक्न् + उव् + अन्ति → शक्नुवन्ति) | परन्तु अस्मिन् सूत्रे "श्नु" प्रत्ययः उक्तं न तु "उ-कारः", अतः अस्य सूत्रस्य प्रसक्तिः तनादिगणे नास्ति | तर्हि तनादिगणे अजाद्यपित्सु यथासामान्यं यण्-आदेशः एव भवति | उ + अ → यणादेशः → व | अर्णु + अन्ति → अर्ण्वन्ति |</big>
<big>असंयोगपूर्वाङ्गधातूनां कार्यं केवलं स्थलद्वये भिद्यते | स्थलद्वयमपि अपित्सु एव; पित्सु न कोऽपि भेदः | अधः सम्यक्तया तोलयन्तु—</big>
<big><u>असंयोगपूर्वाङ्गधातूनां
<big>हलादिषु पित्सु = गुणः | तनु + ति → तनोति</big>
Line 177 ⟶ 198:
<big>हलाद्यपित्सु =</big>
<big>- '''क्क्ङिति च''' इत्यनेन गुण निषेधः | तनु + तः → तनुतः</big>
<big>स्थलद्वये अपवादभूतकार्यम्—</big>
<big>- '''लोटि हि-लोपः | तनु + हि → तनु'''</big>
<big>- '''वकारे मकारे परे, उकारस्य वा लोपः | तनु + वः → तन्वः / तनुवः'''</big>▼
<big>अजाद्यपित्सु = '''इको यणचि*''' इत्यनेन यण्-आदेशः | तनु + अन्ति → तन् + व् + अन्ति → तन्वन्ति</big>▼
▲<big>- वकारे मकारे परे, उकारस्य वा लोपः | तनु + वः → तन्वः / तनुवः</big>
▲<big>अजाद्यपित्सु = इको यणचि* इत्यनेन यण्-आदेशः | तनु + अन्ति → तन् + व् + अन्ति → तन्वन्ति</big>
<big>*स्वादिगणे, यथा उपर्युक्तं हलन्तधातुषु (शक् इव) अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उवङ्; अजन्तधातुषु (चि इव) यण्-आदेशस्य साधनार्थं तस्य सूत्रस्य अपवादभूतसूत्रम् अपेक्षितं, हुश्नुवोः सार्वधातुके (६.४.८७) इति | परन्तु तनादिगणे उपरि अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यस्य प्रसक्तिः नास्ति; अत्र (असंयोगपूर्वाङ्गधातूनां कृते) यण्-आदेशस्य साधनार्थम् अपवादभूतसूत्रस्य आवश्यकता अपि नास्ति | अतः अत्र सामान्यसूत्रम् इको यणचि (६.१.७७) इत्येव कार्यं करोति |</big>
|