6---sArvadhAtukaprakaraNam-anadantam-aGgam/03a---tanAdigaNaH: Difference between revisions

no edit summary
m (Protected "03A - तनादिगणः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 225:
 
 
<big>कस्यापि तनादिगणीय-धातोः अङ्गम्‌ उकारान्तं भवति किल—ऋण्‌ + उ → गुणः → अर्णु; तन्‌ + उ → तनु | अनयोः अङ्गयोः भेदः कः ? अर्णु इति अङ्गे उकारात्‌ प्राक्‌ संयोगः अस्ति | '''हलोऽनन्तराः संयोगः''' (१.१.७) इत्यनेन द्वयोः हल्‌-वर्णयोः मध्ये स्वरः नास्ति चेत्‌, तयोः संयोग-संज्ञा भवति | अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः | तर्हि अर्णु इति अङ्गे, र्ण्‌ इति संयोगः अस्ति | त्रिषु धातुषु (ऋण्‌, घृण्‌, वृण्) एवं भवति यतः तेषु, उपधायां ऋकारः अस्ति | उ-विकरणस्य प्रभावेन गुणः भवति, अपि च ऋकारस्य गुणः अर्‍अर् अस्ति; अनेन गुणेन रेफस्य धात्वन्ते हला सह संयोगः भवति (ऋण्‌ + उ → गुणः → अर्णु) | अवशिष्टेषु षट्सु धातुषु उपधायां ऋकारः नास्ति अतः गुणः अस्ति चेदपि (क्षिण्‌ + उ → क्षेणु) संयोगः नैवोत्पन्नः | यत्र गुणः न भवति (तन्‌ + उ → तनु), तत्रापि संयोगः नास्त्येव | अङ्गान्तात्‌ उकारात्‌ प्राक्‌ संयोगः अस्ति चेत्‌, सः <u>संयोगपूर्वः उकारः</u>; अङ्गान्तात्‌ उकारात्‌ प्राक् संयोगः नास्ति चेत्‌ सः <u>असंयोगपूर्वः उकारः</u> इति मुख्यम्‌ |</big>
 
 
Line 293:
 
 
<big>'''आदेशप्रत्यययोः''' (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तर्हि तस्य सकारस्य स्थाने षकारादेशो भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्‍शर्-प्रत्याहारस्थ-वर्णः च मध्ये सन्ति चेत्‌ अपि कार्यं भवति | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''सहे साडः सः''' (८.३.५६) इत्यस्मात्‌ सः इत्यस्य अनुवृत्तिः | '''नुंविसर्जनीयशर्व्यवायेऽपि''' (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्‌''' इत्यस्य अधिकारः | '''इण्कोः''' (८.३.५७), '''अपदान्तस्य मूर्धन्यः''' (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि''' |</big>
 
 
Line 394:
 
 
<big>१) पित्सु प्रत्ययेषु— कृ + उ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इकः गुणः → कर्‍कर् + उ → करु इति अङ्गम्‌ |</big>
 
<big>२) अपित्सु प्रत्ययेषु— कृ + उ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इकः गुणः → कर्‍कर् + उ → करु → '''अत उत्सार्वधातुके''' इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः → कुरु इति अङ्गम्‌ |</big>
 
 
Line 412:
<big>हलादिषु पित्सु = गुणः | हलादिषु किमपि सन्धिकार्यं नार्हम्‌ | करु‌ + ति → करोति</big>
 
<big>अजादिषु पित्सु = गुणः, तदा अवादेशः | करु + आनि → करो + आनि → कर्‍‌कर् + अव्‌ + आनि → करवाणि)</big>
 
 
Line 427:
<big>- '''वकारे मकारे यकारे परे, उकारस्य नित्यं लोपः | कुरु + वः → कुर्वः; अकुरु + म → अकुर्म; कुरु + यात्‌ → कुर्यात्‌'''</big>
 
<big>अजाद्यपित्सु = '''इको यणचि'''* इत्यनेन यण्‌‌-आदेशः | कुरु + अन्ति → कुर्‍‌कुर् + व्‌ + अन्ति → कुर्वन्ति</big>
 
 
page_and_link_managers, Administrators
5,094

edits