6---sArvadhAtukaprakaraNam-anadantam-aGgam/03a---tanAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 47:
 
<big>सारांशः अयं— '''कर्तरि शप्''' तदा कार्यं करोति यदा धातोः साक्षात्‌ पुरतः सार्वधातुकप्रत्ययः अस्ति | धातोः साक्षात्‌ पुरतः सार्वधातुकप्रत्ययः अस्ति न वा इति प्रश्नः, विकरणप्रत्ययस्य स्वभावः कः इति प्रश्नः, अनयोः प्रश्नयोः न कोऽपि सम्बन्धः; विकरणप्रत्ययः आयाति चेत्‌ अनन्तरम्‌ एव आयाति | अतः अनेन स्पष्टं यत्‌ लकारः कीदृशः अपि च विकरणप्रत्ययः कीदृशः—अनयोः न कोऽपि सम्बन्धः |</big>
 
 
<big>तर्हि उ-विकरणप्रत्ययः आर्धधातुकम्, अपि च अस्माकं चत्वारः लकाराः सार्वधातुकाः— अत्र न कोऽपि सङ्घर्षः, न कोऽपि क्लेशः |</big>
 
 
<big><u>उ-विकरणप्रत्ययस्य आर्धधातुकत्वात् कीदृशः प्रभावः धातौ ?</u></big>
 
 
 
Line 58 ⟶ 60:
 
<big><u>सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति</u>—</big>
 
 
<big>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌</big>
Line 67 ⟶ 70:
 
<big>१. <u>विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌</u></big>
 
 
<big>तनादिगणे दश धातवः सन्ति—डुकृञ्‌, तनु, क्षणु, षणु, मनु, वनु, क्षिणु, ऋणु, घृणु, वृणु इति | निरनुबन्ध-रूपाणि इमानि—कृ, तन्‌, क्षण्‌, सन्‌, मन्‌, वन्‌, क्षिण्‌, ऋण्‌, घृण्‌, वृण्‌ | अत्र अवधेयं यत्‌ कृ-धातुः अजन्तः; अवशिष्टाः नव धातवः हलन्ताः | नव हलन्तधातवः सामान्याः अतः एकत्र तान्‌ परिशीलयाम | कृ-धातोः प्रक्रिया किञ्चित्‌ भिन्ना अतः तम्‌ अनन्तरं पश्येम |</big>
 
 
 
Line 87 ⟶ 92:
 
<big>नव हलन्तधातुषु चत्वारः लघूपधधातवः (उपधायां लघु इक्‌ येषां ते) | तत्र '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति—</big>
 
 
<big>क्षिण्‌ + उ → उपधायां लघु-इकः गुणः → क्षेणु</big>
Line 131 ⟶ 137:
 
 
<big>                                                    '''<u>विधिलिङ्‌-लकारः'''</u></big>
 
<big>                 यात्‌      याताम्‌     युः                                      ईत     ईयाताम्‌     ईरन्‌</big>
Line 148 ⟶ 154:
 
<big>तनादिगणे अस्माकं नव धातवः सर्वे हलन्ताः एव, अपि च सर्वेषाम्‌ अङ्गम्‌ उकारान्तम्‌ | परन्तु एषु नवसु हलन्तधातुषु, षण्णाम्‌ अङ्गम्‌ असंयोगपूर्वम्—तनु, क्षणु, सनु, मनु, वनु, क्षेणु | नाम एतेषां षण्णाम्‌ अपि अङ्गे उकारात्‌ प्राक्‌ हलोः संयोगः नास्ति | नवसु, अवशिष्टानां त्रयाणां धातूनाम्‌ अङ्गम्‌ संयोगपूर्वम्‌—अर्णु, घर्णु, वर्णु इति | एषां त्रयाणाम्‌ अङ्गे, उकारात्‌ प्राक्‌ व्यञ्जनयोः संयोगः अस्ति | अनेन संयोग-असंयोग-भेदेन, तनादिगणे यथा स्वादिगणे स्थलत्रये कार्यं भिद्यते स्म, अत्र तनादिगणे स्थलद्वये कार्यं भिद्यते — (१) वकारादि मकारादि च प्रत्यये परे विकल्पेन असंयोगपूर्वस्य उ-लोपः; (२) असंयोगपूर्वात्‌ हि-प्रत्ययस्य लोपः | तनादिगणे उवङ्‌ न भवति एव, अतः अयं उवङ्‌ / यण्‌ भेदः न वर्तते |</big>
 
 
 
Line 155 ⟶ 162:
 
<big>यथा स्वादिगणे तनादिगणे अपि, संयोगपूर्व-अङ्गानि सामान्यानि (शक्नु इव अर्णु, घर्णु, वर्णु), असंयोगपूर्व-अङ्गानि (चिनु इव तनु, क्षणु, सनु, मनु, वनु, क्षेणु) विशेषाणि इति | नाम तनादिगणे ये सामान्यनियमाः सन्ति, अर्णु, घर्णु, वर्णु च तान्‌ नियमान्‌ अनुसृत्य प्रवर्तन्ते | असंयोगपूर्व-अङ्गानि (तनु, क्षणु, सनु, मनु, वनु, क्षेणु) आधिक्येन तान्‌ नियमान्‌ अनुसृत्य प्रवर्तन्ते एव—किन्तु स्थलद्वये विशेषाः भवन्ति |</big>
 
 
 
<big>तदाधारेण तनादिगणे प्रतिनिधि-चतुष्टयं‌ स्वीक्रियताम्‌—</big>
 
 
<big>संयोगपूर्वाङ्गस्य परस्मैपदिधातुः =ऋण्‌</big>
Line 169 ⟶ 178:
 
<big>एषां धातूनां रूपाणि चतुर्षु सार्वधातुकलकारेषु (लट्‌-लोट्‌-लङ्‌-विधिलिङ्सु) जानीमः चेत्‌, तर्हि सर्वेषां तनादिगणीय-धातूनां सार्वधातुकलकार-रूपाणि जानीमः एव (कृ-धातुं विहाय) |</big>
 
 
<big>यथा स्वादिगणे, तनादिगणे अपि सिद्ध-तिङ्प्रत्ययाः चतुर्विधाः— हलादिपितः, अजादिपितः, हलाद्यपितः‌, अजाद्यपितः‌ च | तर्हि तनादिगणे संयोगपूर्वाङ्गधातुभिः सह असंयोगपूर्वाङ्गधातुभिः सह च, एषां चतुर्णां प्रत्ययानां योजनेन कीदृशं कार्यं भवति इति मुख्यम्‌ |</big>
 
 
 
Line 228 ⟶ 239:
 
<big>'''लोपश्चास्यान्यतरस्यां म्वोः''' (६.४.१०७) = असंयोगपूर्वस्य प्रत्ययावयव-उकारस्य विकल्पेन लोपो भवति वकारमकारादौ प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य लोपः, न तु पूर्णाङ्गस्य | 'अस्य' इत्यनेन पूर्वतनसूत्रे स्थितस्य '''"असंयोगपूवस्य प्रत्ययस्य उतः"''' इत्यस्य उल्लेखः | म्‌ च व्‌ च तयोरितरेतरद्वन्द्वः म्वौ, तयोः म्वोः | लोपः प्रथमान्तं, च अव्ययपदम्‌, अन्यतरस्यां सप्तम्यन्तं, म्वोः सप्तम्यन्त्म्‌, अनेकपदमिदं सूत्रम्‌ | '''उतश्च प्रत्ययादसंयोगपूर्वात्''' (६.४.१०६) इत्यस्य पूर्णतया अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अस्य असंयोगपूवस्य प्रत्ययस्य उतः अङ्गस्य लोपः च म्वोः अन्यतरस्याम्‌''' |</big>
 
 
<big>सारांशः एवं यत्‌ अङ्गम्‌ उकारान्तम्‌ अस्ति चेत्‌, अपि च उकारात्‌ प्राक्‌ संयोगः नास्ति चेत्‌, अपि च परे मकारादिः वकारादिः च प्रत्ययः अस्ति चेत्‌, तर्हि उकारस्य लोपः भवति विकल्पेन |</big>
 
 
 
Line 244 ⟶ 257:
<big>अनयोः प्रश्नयोः उत्तरं जानीमः चेत्‌, तर्हि सर्वाणि रूपाणि जानीमः एव | अधुना एकवारम् अधःस्थानि उदाहरणानि अवलोकन्ताम्‌ | तदा अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान्‌ पुरतः स्थापयित्वा ऋण्‌, तन्‌ (परस्मैपदे), ऋण्‌, तन् (आत्मनेपदे) इत्येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयन्तु |</big>
 
<big>परस्मैपदे लट्— (स्थूलाक्षरैः लिखिताः प्रत्ययाः पितः | अन्ये अपितः |)</big>
 
<big><u>परस्मैपदे लट्—लट्</u>— (स्थूलाक्षरैः लिखिताः प्रत्ययाः पितः | अन्ये अपितः |)</big>
 
 
<big>ति, तः, अन्ति</big>
 
<big>सि, थः, थ</big>
 
<big>मि'''ति''', वःतः, मःअन्ति</big>
 
<big>'''सि''', थः, थ</big>
 
<big>'''मि''', वः, मः</big>
 
 
<big>A. <u>संयोगपूर्वाङ्गधातुषु ऋण्‌-धातुः</u> [अर्णु इति अङ्गम्‌]</big>
 
 
<big>ऋण्‌ + उ → उपधायां लघु-इकः गुणः → अर्णु इत्यङ्गम्‌ | अधः सर्वत्र अर्णु इत्यङ्गम्‌ अधिकृत्य कार्यम्‌ अग्रे सरति |</big>
 
 
 
Line 286 ⟶ 303:
 
<big>B. <u>असंयोगपूर्वाङ्गधातुषु तन्‌-धातुः</u> [तनु इति अङ्गम्‌]</big>
 
 
<big>तन्‌ + उ → तनु इत्यङ्गम्‌ | अधः सर्वत्र तनु इत्यङ्गम्‌ अधिकृत्य कार्यम्‌ अग्रे सरति |</big>
 
 
 
Line 351 ⟶ 370:
 
 
<big>'''सेर्ह्यपिच्च''' (३.४.८७) = लोट्‌-लकारस्य सि इत्यस्य स्थाने हि-आदेशो भवति; स च हि अपित्‌ भवति | सेः षष्ठ्यन्तं, हिः प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''लोटो लङ्‌वत्‌''' (३.४.८५) इत्यस्मात्‌ '''लोटः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''लोटः लस्य सेः हि अपित्‌ च''' |</big>
 
 
Line 393 ⟶ 412:
 
<big><u>असंयोगपूर्वाङ्गधातूनां कार्यम्</u>—</big>
 
 
<big>पित्सु करु इति अङ्गम्—</big>
Line 436 ⟶ 456:
 
<big><u>असंयोगपूर्वाङ्गधातुषु कृ धातुः</u></big>
 
 
<big>पित्सु कृ‌ + उ → करु इत्यङ्गम्‌ | अपित्सु कृ + उ → करु → कुरु इति अङ्गम्‌ | अधः सर्वत्र इमे अङ्गे अधिकृत्य कार्यम्‌ अग्रे सरति |</big>
 
 
 
Line 463 ⟶ 485:
 
<big><u>तनादिगणीय-धातवः</u></big>
 
 
<big>डुकृञ्‌ करणे → करु → करोति / कुरु → कुरुते</big>
Line 486 ⟶ 509:
 
<big>'''संज्ञापूर्वको विधिरनित्यः''' इति वार्तिकेन एषु चतुर्षु धातुषु '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति विकल्पेन | एकस्मिन्‌ पक्षे भवति, अपरस्मिन्‌ पक्षे न |</big>
 
 
<big>Swarup – July 2013 (Updated November 2015)</big>
Line 498 ⟶ 522:
 
 
 
३ - तनादिगणः (c).pdf (97k)Swarup Bhai, Mar 31, 2019, 5:01 AM
[https://static.miraheze.org/samskritavyakaranamwiki/f/ff/%E0%A5%A9_-_%E0%A4%A4%E0%A4%A8%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83_%28c%29.pdf ३ - तनादिगणः (c).pdf] (97k)Swarup Bhai, Mar 31, 2019, 5:01 AM
 
v.1
deletepagepermission, page_and_link_managers, teachers
1,046

edits