6---sArvadhAtukaprakaraNam-anadantam-aGgam/03a---tanAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 159:
 
<big>अत्र तिबादीन्‌ निमित्तं मत्वा अङ्गकार्यं क्रियते | यथा तनु इति अङ्गं‌, ति इति प्रत्ययः | तनु + ति‌ → गुणः → तनो + ति | अस्मिन्‌ सोपाने कार्यं स्वादिगणस्य सदृशम्‌ | स्वादिगणे कथम्‌ आसीत्‌ इति स्मरन्तु | धातूनां विभागद्वयम्‌—अजन्तधातवः हलन्तधातवः च | किमर्थम्‌ एवम्‌ आसीत्‌ ? यतः स्वादिगणे अजन्तधातूनाम्‌ अङ्गम्‌ असंयोगपूर्वं (चिनु); हलन्तधातूनाम् अङ्गं संयोगपूर्वं (शक्नु) इति | स्वादिगणे सर्वत्र अङ्गम्‌ उकारान्तं किल, श्नु प्रत्ययस्य कारणात्‌ | यत्र अङ्गम्‌ उकारान्तं, तत्र उकारात्‌ प्राक्‌ द्वयोः हलोः संयोगः अस्ति चेत्‌, अङ्गं संयोगपूर्वम्‌ ‌इति उच्यते | यथा शक्‌ + नु → शक्नु इति अङ्गं संयोगपूर्वं; चि + नु → चिनु इति अङ्गम्‌ असंयोगपूर्वम् इति | अनेन भेदेन, स्वादिगणे भागद्वयस्य कार्यं त्रिषु स्थलेषु भिद्यते स्म | स्मरन्ति वा केषु त्रिषु स्थलेषु ? — (१) अजाद्यपित्सु संयोगपूर्वात्‌ उवङ्‌ / असंयोगपूर्वात्‌ यण्‌; (२) वकारादि मकारादि च प्रत्यये परे विकल्पेन असंयोगपूर्वस्य उ-लोपः (३) असंयोगपूर्वात्‌ हि-प्रत्ययस्य लोपः |</big>
 
 
 
<big>तनादिगणे अस्माकं नव धातवः सर्वे हलन्ताः एव, अपि च सर्वेषाम्‌ अङ्गम्‌ उकारान्तम्‌ | परन्तु एषु नवसु हलन्तधातुषु, षण्णाम्‌ अङ्गम्‌ असंयोगपूर्वम्—तनु, क्षणु, सनु, मनु, वनु, क्षेणु | नाम एतेषां षण्णाम्‌ अपि अङ्गे उकारात्‌ प्राक्‌ हलोः संयोगः नास्ति | नवसु, अवशिष्टानां त्रयाणां धातूनाम्‌ अङ्गम्‌ संयोगपूर्वम्‌—अर्णु, घर्णु, वर्णु इति | एषां त्रयाणाम्‌ अङ्गे, उकारात्‌ प्राक्‌ व्यञ्जनयोः संयोगः अस्ति | अनेन संयोग-असंयोग-भेदेन, तनादिगणे यथा स्वादिगणे स्थलत्रये कार्यं भिद्यते स्म, अत्र तनादिगणे स्थलद्वये कार्यं भिद्यते — (१) वकारादि मकारादि च प्रत्यये परे विकल्पेन असंयोगपूर्वस्य उ-लोपः; (२) असंयोगपूर्वात्‌ हि-प्रत्ययस्य लोपः | तनादिगणे उवङ्‌ न भवति एव, अतः अयं उवङ्‌ / यण्‌ भेदः न वर्तते |</big>
 
 
 
<big>फलितार्थः एवम्‌ — तनादिगणे यत्र अङ्गं संयोगपूर्वं भवति (शक्नु इव), तत्र तिङन्तरूपाणि स्वादिगणवत्‌ भवन्ति परन्तु अजाद्यपित्सु उवङ्‌ स्थाने यण्‌ एव भवति | तनादिगणे यत्र अङ्गम्‌ असंयोगपूर्वम् (चिनु इव), तत्र तिङन्तरूपाणि स्वादिगणवत्‌ एव भवन्ति |</big>
 
 
 
<big>यथा स्वादिगणे तनादिगणे अपि, संयोगपूर्व-अङ्गानि सामान्यानि (शक्नु इव अर्णु, घर्णु, वर्णु), असंयोगपूर्व-अङ्गानि (चिनु इव तनु, क्षणु, सनु, मनु, वनु, क्षेणु) विशेषाणि इति | नाम तनादिगणे ये सामान्यनियमाः सन्ति, अर्णु, घर्णु, वर्णु च तान्‌ नियमान्‌ अनुसृत्य प्रवर्तन्ते | असंयोगपूर्व-अङ्गानि (तनु, क्षणु, सनु, मनु, वनु, क्षेणु) आधिक्येन तान्‌ नियमान्‌ अनुसृत्य प्रवर्तन्ते एव—किन्तु स्थलद्वये विशेषाः भवन्ति |</big>
 
 
 
<big>तदाधारेण तनादिगणे प्रतिनिधि-चतुष्टयं‌ स्वीक्रियताम्‌—</big>
 
 
 
<big>संयोगपूर्वाङ्गस्य परस्मैपदिधातुः = ऋण्‌</big>
 
<big>असंयोगपूर्वाङ्गस्य परस्मैपदिधातुः = तन्‌</big>