6---sArvadhAtukaprakaraNam-anadantam-aGgam/03a---tanAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 79:
 
<big>तनादिगणे दश धातवः सन्ति—डुकृञ्‌, तनु, क्षणु, षणु, मनु, वनु, क्षिणु, ऋणु, घृणु, वृणु इति | निरनुबन्ध-रूपाणि इमानि—कृ, तन्‌, क्षण्‌, सन्‌, मन्‌, वन्‌, क्षिण्‌, ऋण्‌, घृण्‌, वृण्‌ | अत्र अवधेयं यत्‌ कृ-धातुः अजन्तः; अवशिष्टाः नव धातवः हलन्ताः | नव हलन्तधातवः सामान्याः अतः एकत्र तान्‌ परिशीलयाम | कृ-धातोः प्रक्रिया किञ्चित्‌ भिन्ना अतः तम्‌ अनन्तरं पश्येम |</big>
 
<big>हलन्तधातोः उपधायां लघु इक्‌ अस्ति चेत्‌, तर्हि '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति | नव हलन्तधातवः सन्ति, तेषु पञ्च अदुपधधातवः— तन्‌, क्षण्‌, सन्‌, मन्‌, वन्‌ | यत्र उपधायाम्‌ अकारः अस्ति, तत्र इगाभावे गुणकार्यं नार्हम्‌ | अतः एषां पञ्चानां धातूनां किमपि अङ्गकार्यं नास्ति | केवलं धातु-विकरणप्रत्यययोः मेलनम्‌ |</big>
 
<big>तन्‌ + उ → तनु</big>
Line 132 ⟶ 128:
 
<big>                 '''आनि    आव     आम                                   ऐ       आवहै    आमहै'''</big>
 
Line 141 ⟶ 138:
 
<big>                 '''अम्‌'''      व         म                                      इ       वहि        महि</big>
 
Line 152 ⟶ 150:
 
<big>३. <u>तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</u></big>
 
<big>अत्र तिबादीन्‌ निमित्तं मत्वा अङ्गकार्यं क्रियते | यथा तनु इति अङ्गं‌, ति इति प्रत्ययः | तनु + ति‌ → गुणः → तनो + ति | अस्मिन्‌ सोपाने कार्यं स्वादिगणस्य सदृशम्‌ | स्वादिगणे कथम्‌ आसीत्‌ इति स्मरन्तु | धातूनां विभागद्वयम्‌—अजन्तधातवः हलन्तधातवः च | किमर्थम्‌ एवम्‌ आसीत्‌ ? यतः स्वादिगणे अजन्तधातूनाम्‌ अङ्गम्‌ असंयोगपूर्वं (चिनु); हलन्तधातूनाम् अङ्गं संयोगपूर्वं (शक्नु) इति | स्वादिगणे सर्वत्र अङ्गम्‌ उकारान्तं किल, श्नु प्रत्ययस्य कारणात्‌ | यत्र अङ्गम्‌ उकारान्तं, तत्र उकारात्‌ प्राक्‌ द्वयोः हलोः संयोगः अस्ति चेत्‌, अङ्गं संयोगपूर्वम्‌ ‌इति उच्यते | यथा शक्‌ + नु → शक्नु इति अङ्गं संयोगपूर्वं; चि + नु → चिनु इति अङ्गम्‌ असंयोगपूर्वम् इति | अनेन भेदेन, स्वादिगणे भागद्वयस्य कार्यं त्रिषु स्थलेषु भिद्यते स्म | स्मरन्ति वा केषु त्रिषु स्थलेषु ? — (१) अजाद्यपित्सु संयोगपूर्वात्‌ उवङ्‌ / असंयोगपूर्वात्‌ यण्‌; (२) वकारादि मकारादि च प्रत्यये परे विकल्पेन असंयोगपूर्वस्य उ-लोपः (३) असंयोगपूर्वात्‌ हि-प्रत्ययस्य लोपः |</big>
 
<big>३. <u>तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</u></big>
 
<big>तनादिगणे अस्माकं नव धातवः सर्वे हलन्ताः एव, अपि च सर्वेषाम्‌ अङ्गम्‌ उकारान्तम्‌ | परन्तु एषु नवसु हलन्तधातुषु, षण्णाम्‌ अङ्गम्‌ असंयोगपूर्वम्—तनु, क्षणु, सनु, मनु, वनु, क्षेणु | नाम एतेषां षण्णाम्‌ अपि अङ्गे उकारात्‌ प्राक्‌ हलोः संयोगः नास्ति | नवसु, अवशिष्टानां त्रयाणां धातूनाम्‌ अङ्गम्‌ संयोगपूर्वम्‌—अर्णु, घर्णु, वर्णु इति | एषां त्रयाणाम्‌ अङ्गे, उकारात्‌ प्राक्‌ व्यञ्जनयोः संयोगः अस्ति | अनेन संयोग-असंयोग-भेदेन, तनादिगणे यथा स्वादिगणे स्थलत्रये कार्यं भिद्यते स्म, अत्र तनादिगणे स्थलद्वये कार्यं भिद्यते — (१) वकारादि मकारादि च प्रत्यये परे विकल्पेन असंयोगपूर्वस्य उ-लोपः; (२) असंयोगपूर्वात्‌ हि-प्रत्ययस्य लोपः | तनादिगणे उवङ्‌ न भवति एव, अतः अयं उवङ्‌ / यण्‌ भेदः न वर्तते |</big>
 
<big>फलितार्थः एवम्‌ — तनादिगणे यत्र अङ्गं संयोगपूर्वं भवति (शक्नु इव), तत्र तिङन्तरूपाणि स्वादिगणवत्‌ भवन्ति परन्तु अजाद्यपित्सु उवङ्‌ स्थाने यण्‌ एव भवति | तनादिगणे यत्र अङ्गम्‌ असंयोगपूर्वम् (चिनु इव), तत्र तिङन्तरूपाणि स्वादिगणवत्‌ एव भवन्ति |</big>
 
<big>यथा स्वादिगणे तनादिगणे अपि, संयोगपूर्व-अङ्गानि सामान्यानि (शक्नु इव अर्णु, घर्णु, वर्णु), असंयोगपूर्व-अङ्गानि (चिनु इव तनु, क्षणु, सनु, मनु, वनु, क्षेणु) विशेषाणि इति | नाम तनादिगणे ये सामान्यनियमाः सन्ति, अर्णु, घर्णु, वर्णु च तान्‌ नियमान्‌ अनुसृत्य प्रवर्तन्ते | असंयोगपूर्व-अङ्गानि (तनु, क्षणु, सनु, मनु, वनु, क्षेणु) आधिक्येन तान्‌ नियमान्‌ अनुसृत्य प्रवर्तन्ते एव—किन्तु स्थलद्वये विशेषाः भवन्ति |</big>
 
<big>तदाधारेण तनादिगणे प्रतिनिधि-चतुष्टयं‌ स्वीक्रियताम्‌—</big>
Line 187 ⟶ 181:
 
<big>यथा स्वादिगणे, तनादिगणे अपि सिद्ध-तिङ्प्रत्ययाः चतुर्विधाः— हलादिपितः, अजादिपितः, हलाद्यपितः‌, अजाद्यपितः‌ च | तर्हि तनादिगणे संयोगपूर्वाङ्गधातुभिः सह असंयोगपूर्वाङ्गधातुभिः सह च, एषां चतुर्णां प्रत्ययानां योजनेन कीदृशं कार्यं भवति इति मुख्यम्‌ |</big>
 
<big><u>संयोगपूर्वाङ्गधातूनां कार्यम्</u>—</big>
Line 248 ⟶ 240:
 
<big>सारांशः एवं यत्‌ अङ्गम्‌ उकारान्तम्‌ अस्ति चेत्‌, अपि च उकारात्‌ प्राक्‌ संयोगः नास्ति चेत्‌, अपि च परे मकारादिः वकारादिः च प्रत्ययः अस्ति चेत्‌, तर्हि उकारस्य लोपः भवति विकल्पेन |</big>
 
<big>'''<u>चतूर्णां सार्वधातुकलकाराणां तिङन्तरूपाणि</u>'''</big>
Line 265 ⟶ 255:
 
<big><u>परस्मैपदे लट्</u>— (स्थूलाक्षरैः लिखिताः प्रत्ययाः पितः | अन्ये अपितः |)</big>
 
Line 280 ⟶ 269:
 
<big>ऋण्‌ + उ → उपधायां लघु-इकः गुणः → अर्णु इत्यङ्गम्‌ | अधः सर्वत्र अर्णु इत्यङ्गम्‌ अधिकृत्य कार्यम्‌ अग्रे सरति |</big>
 
<big>अर्णु + '''ति''' →</big>
Line 312 ⟶ 299:
 
<big>तन्‌ + उ → तनु इत्यङ्गम्‌ | अधः सर्वत्र तनु इत्यङ्गम्‌ अधिकृत्य कार्यम्‌ अग्रे सरति |</big>
 
<big>तनु + '''ति''' →</big>
Line 380 ⟶ 365:
 
<big>D. <u>असंयोगपूर्वाङ्गधातुषु तन्‌-धातुः</u> [तनु इति अङ्गम्‌]</big>
 
<big>लोटि ऋण्‌-धातुतः एकः एव भेदः— स च कः ?</big>
 
Line 465 ⟶ 452:
 
<big>पित्सु कृ‌ + उ → करु इत्यङ्गम्‌ | अपित्सु कृ + उ → करु → कुरु इति अङ्गम्‌ | अधः सर्वत्र इमे अङ्गे अधिकृत्य कार्यम्‌ अग्रे सरति |</big>
 
<big>  + '''ति''' →</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits