page_and_link_managers, Administrators
5,097
edits
m (Vidhya moved page 04 - क्र्यादिगणः to 04A - क्र्यादिगणः) |
No edit summary |
||
(24 intermediate revisions by 4 users not shown) | |||
Line 1:
{{DISPLAYTITLE: 04A - क्र्यादिगणः}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि</big>
|-
|<big>'''2017 वर्गः'''</big>
|-
|[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/90_kryAdigaNaH---paricayaH__pvAdigaNaH__samprasAraNi-dhAtavaH_2017-08-09.mp3 <big>१) kryAdigaNaH---paricayaH_+_pvAdigaNaH_+_samprasAraNi-dhAtavaH_2017-08-09</big>]
|-
|[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/91_kryadiganah---samprasarana-abhyasah__halah-ityasya-dalasarthakyam__aniditah-dhatavah_2017-08-16.mp3 <big>२) kryAdigaNaH---samprasAraNa-abhyAsaH_+_halaH-ityasya-dalasArthakyam_+_aniditaH-dhAtavaH _2017-08-16</big>]
|-
|[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/92_kryAdigaNaH---anga-ting-pratyayayoH-melanam__abhyAshaH--___2017-08-23.mp3 <big>३) kryAdigaNaH---anga-ting-pratyayayoH-melanam_+_abhyAshaH--क्री_+_ग्रह्_2017-08-23</big>]
|-
|<big>'''2015 वर्गः'''</big>
|-
|[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/55_kryAdigaNaH-1_paricayaH__angakAryam---pvAdigaNaH__samprasAriNaH-dhAtavaH__-_2015-12-01.mp3 <big>१) kryAdigaNaH-1_paricayaH_+_angakAryam---pvAdigaNaH_+_samprasAriNaH-dhAtavaH_+_ज्ञा-धातुः_2015-12-01</big>]
|-
|[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/56_kryAdigaNaH-2_angakAryam---anidit-dhAtavaH__-___2015-12-08.mp3 <big>२) kryAdigaNaH-2_angakAryam---anidit-dhAtavaH_+_ई-हल्यघोः_+_श्नाभ्यस्तयोरातः_2015-12-08</big>]
|-
|[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/57_kryAdigaNaH-3_loT-lakAre-hi-sthAne-shAnac----__rUpAbhyAsaH--laTi-loTi-langi-lingi_2015-12-15.mp3 <big>३) kryAdigaNaH-3_loT-lakAre-hi-sthAne-shAnac--हलः-श्नः-शानज्झौ_+_rUpAbhyAsaH--laTi-loTi-langi-lingi_2015-12-15</big>]
|}
=== <big>क्र्यादिगणे ६१ धातवः</big> ===
<big><br />
क्र्यादिगणे ६१ धातवः सन्ति | अस्य गणस्य तिङन्तरूपाणि अपि जनेभ्यः भ्रमात्मकानि | परन्तु यथा स्वादिगणे तनादिगणे च, अत्रापि रूपसिद्धिः दुष्करा न अपितु अत्यन्तं तर्कपूर्णा | सा च रूपसिद्धिः ज्ञायते चेत्, अयं गणः नैव कष्टकरः |</big>
=== <big>'''क्र्यादिभ्यः श्ना''' (३.१.८१)</big> ===
<big>'''क्र्यादिभ्यः श्ना''' (३.१.८१) इति सूत्रेण श्ना इति विकरणप्रत्ययः विहितः | '''लशक्वतद्धिते''' (१.३.८) इत्यनेन शकारस्य इत्-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन लोपः | ना इति अवशिष्यते |</big>
<big>'''क्र्यादिभ्यः श्ना''' (३.१.८१) = क्र्यादिगणे स्थितेभ्यः धातुभ्यः श्ना-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | '''कर्तरि शप्''' (३.१.६८) इत्यस्य अपवादः | क्रीः आदिर्येषां ते, क्र्यादयः बहुव्रीहिः, तेभ्यः क्र्यादिभ्यः | क्र्यादिभ्यः पञ्चम्यन्तं, श्ना प्रथमान्तं, द्विपदमिदं सूत्रम् | '''कर्तरि शप्''' (३.१.६८) इत्यस्मात् '''कर्तरि''' इत्यस्य अनुवृत्तिः; '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''क्र्यादिभ्यः धातुभ्यः श्ना प्रत्ययः परश्च कर्तरि सार्वधातुके''' |</big>
<big>श्ना शित् अतः '''तिङ्शित्सार्वधातुकम्''' (३.४.११३) इत्यनेन सार्वधातुकप्रत्ययः | अतः '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा क्री + ना इति स्थितौ | '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा विष् + ना इति स्थितौ | परन्तु श्ना अपित् अतः '''सार्वधातुकमपित्''' (१.२.४) इति सूत्रेण ङिद्वत्; तदर्थं '''क्क्ङिति च''' (१.१.५) इत्यनेन उभयत्र गुण-निषेधः |</big>
=== <big>'''तिङन्तानां निर्माणार्थं त्रीणि सोपानानि'''</big> ===
<big>यथा पूर्वतनेषु गणेषु, अत्रापि सार्वधातुकलकारेषु तिङन्तानां निर्माणार्थं त्रीणि सोपानानि सन्ति—</big>
<big>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्</big>
<big>२. तिङ्प्रत्यय-सिद्धिः</big>
<big>३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्</big>
==== <big> '''<u>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्</u>'''</big> ====
===== <big>'''सामान्यधातवः'''</big> =====
<big>अपित्त्वात् गुणनिषेधः इत्यनेन कारणेन प्रथमसोपाने सामान्यधातुषु किमपि कार्यं नास्ति |</big>
====== <big>अजन्तधातवः—</big> ======
<big>इकारान्तधातवः सि + ना → सिना</big>
====== <big>हलन्तधातवः—</big> ======
<big>इदुपधधातवः क्लिश् + ना → क्लिश्ना</big>
<big>उदुपधधातवः गुध् + ना → गुध्ना</big>
===== <big>'''विशेषधातवः'''</big> =====
<big>परन्तु क्र्यादिगणे विशेषधातवः अपि सन्ति, येषां प्रथमसोपाने अङ्गकार्यं भवति |</big>
====== <big>a. <u>प्वादिगणः</u></big> ======
<big>प्वादिगणे चतुर्विंशतिः धातवः सन्ति; एषां निरनुबन्धरूपाणि इमानि— पू, लू, धू, ज्या, री, ली व्ली, प्ली, स्तॄ, कॄ, वॄ, शॄ, पॄ, वॄ, भॄ, मॄ, दॄ, जॄ, झॄ, धॄ, नॄ, कॄ, ॠ, गॄ | एते सर्वे धातवः क्र्यादिगणे सन्ति | '''प्वादीनां ह्रस्वः''' (७.३.८०) इति सूत्रेण धातौ स्थितस्य स्वरस्य ह्रस्वत्वं भवति शिति परे | श्ना शित् अस्ति अतः श्ना-प्रत्यये परे धातुस्थ-स्वरस्य ह्रस्वत्वम् | यथा पू + ना → पुना, ली + ना → लिना, स्तॄ + ना → स्तृणा |</big>
====== <big>'''प्वादीनां ह्रस्वः''' (७.३.८०)</big> ======
<big>'''प्वादीनां ह्रस्वः''' (७.३.८०) = पूञ्, लूञ्, धूञ्, ज्या, री, ली व्ली, प्ली, स्तॄञ्, कॄञ्, वॄ, शॄ, पॄ, वॄञ्, भॄ, मॄ, दॄ, जॄ, झॄ, धॄञ्, नॄ, कॄ, ॠ, गॄ, एषां धातूनां ह्रस्वत्वं भवति शिति प्रत्यये परे | पूः आदिर्येषां ते, प्वादयः बहुव्रीहिः, तेषां प्वादीनाम् | '''येन विधिस्तदन्तस्य''' (१.१.७२), '''अलोऽन्त्यस्य''' (१.१.५२), '''अचश्च''' (१.२.२८) इत्येभिः सूत्रैः एषां धातूनाम् अन्तिमस्वरस्य ह्रस्वादेशो भवति | प्वादीनां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''ष्ठिवुक्लमुचमां शिति''' (७.३.३५) इत्यस्मात् '''शिति''' इत्यस्य अनुवृतिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''प्वादीनाम् अचः अङ्गस्य ह्रस्वः शिति''' |</big>
<big>'''अचश्च''' (१.२.२८) = यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र '''अचः''' इति षष्ठ्यन्तं पदम् आगत्य उपस्थितं भवति | परिभाषासूत्रम् | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''ऊकालोऽज्झ्रस्वदीर्घप्लुतः''' (१.२.२७) इत्यस्मात् '''अच्, ह्रस्वदीर्घप्लुतः''' इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, '''ह्रस्वदीर्घप्लुतैः (शब्दैः)''' | अनुवृत्ति-सहितसूत्रम्— '''ह्रस्वदीर्घप्लुतैः अचः च अच्''' |</big>
<big><br />
'''अलोऽन्त्यस्य''' (१.१.५२) = षष्ठीविभक्ति-द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्-वर्णस्य स्थाने भवति | परिभाषासूत्रम् | अलः षष्ठ्यन्तम्, अन्त्यस्य षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | '''षष्ठी स्थानेयोगा''' (१.१.४९) इत्यस्मात् '''षष्ठी, स्थाने''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''षष्ठ्या अन्त्यस्य अलः स्थाने''' (विद्यमानः आदेशः) |</big>
<big>अत्र धेयं यत् यः प्रत्ययः परोऽस्ति सः शित् नास्ति चेत्, स्वरस्य ह्रस्वत्वं न भवति | अतः कर्मणि '''सार्वधातुके यक्''' (३.१.६७) इत्यनेन यक् कृत्वा लटि पूयते, क्तान्ते क्त-प्रत्ययेन पूनः, क्तवतौ क्तवतु- प्रत्ययेन पूनवान् |</big>
====== <big>b. <u>सम्प्रसारणम्— ज्या-धातुः</u></big> ======
<big>ज्या-धातुः प्वादिगणे अन्तर्भूतः, किन्तु सम्प्रसारणी धातुः अपि अस्ति, अतः अत्र विशेषः |</big>
<big>सम्प्रसारणम्—</big>
<big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) = ग्रह्, '''ज्या''', वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |</big>
<big>'''इग्यणः सम्प्रसारणम्''' (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— '''यणः इक् सम्प्रसारणम्''' |</big>
<big>'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''इको यणचि''' (६.१.७७) इत्यस्मात् '''अचि, अमि पूर्वः''' (६.१.१०७) इत्यस्मात् '''पूर्वः''' इत्यनयोः अनुवृत्तिः भवतः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्''' |</big>
<big>यथा ज्या → ज् + य् + आ → '''ग्रहि ज्या''' (६.१.१६) इत्यनेन यकारस्य स्थाने इ-आदेशः → जि + आ → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः एकः पूर्वरूपादेशः → जि</big>
<big>'''सम्प्रसारणं तदाश्रयं च कार्यं बलवत्''' इति परिभाषायाः बलेन प्रथमं सम्प्रसारणकार्यं, तदाश्रयं च कार्यं भवति</big> <big>| अतः '''ग्रहि ज्या''' (६.१.१६) इत्यनेन सम्प्रसारणकार्यं प्रथमं भवति, अनन्तरं तत्सम्बद्धं कार्यं '''सम्प्रसारणाच्च''' (६.१.१०८), '''हलः''' (६.४.२) चेति भवति | तत्पश्चादेव '''प्वादीनां ह्रस्वः''' (७.३.८०) इत्यनेन शिति परे प्वादीनां ह्रस्वत्वम् |</big>
<big>श्ना प्रत्ययः शित् अपि च पित्-भिन्नत्वात् ङिद्वत् ('''सार्वधातुकम् अपित्''' इत्यनेन) | '''ग्रहि ज्या''' (६.१.१६) इत्यनेन "ज्या ... ङिति" सम्प्रसारणम् | अतः ज्या + ना → सम्प्रसारणम् → जि + ना → '''हलः''' (६.४.२) इत्यनेन सम्प्रसारणस्य दीर्घत्वम् → जी + ना → '''प्वादीनां ह्रस्वः''' (७.३.८०) इत्यनेन शिति परे प्वादीनां ह्रस्वत्वम् → जि + ना → जिना</big>
<big>'''हलः''' (६.४.२) = अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्-वर्णः अङ्गस्य अवयवः, तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः | '''सम्प्रसारणस्य''' (६.३.१३९) इत्यस्मात् '''सम्प्रसारणस्य''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात् '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हलः सम्प्रसारणस्य अङ्गस्य दीर्घः''' |</big>
<big><br />
अत्र यः इकारः दीर्घः जातः (जि → जी), सः पुनः ह्रस्वः अभवत् (जी → जि) | तर्हि दीर्घत्वस्य फलं किम् ? यत्र परो यः प्रत्ययः अस्ति सः शित् नास्ति, तत्र '''प्वादीनां ह्रस्वः''' इत्यस्य प्रसक्तिः नास्ति | अतः दीर्घत्वं तिष्ठति एव—यथा क्त प्रत्ययः | ज्या + क्त → '''ग्रहि ज्या''' (६.१.१६) इत्यनेन "ज्या ... ङिति" सम्प्रसारणम् → जि + त → '''हलः''' (६.४.२) इत्यनेन सम्प्रसारणस्य दीर्घत्वम् → जी + त → ('''ल्वादिभ्यः''' (८.२.४४) इत्यनेन तकारस्य स्थाने नकारः) →जीत → जीनः |</big>
<big>'''ल्वादिभ्यः''' (८.२.४४) = ल्वादिगणः इत्यस्मिन् अन्तर्गणीयेभ्यः धातुभ्यः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य नकारादेशो भवति | निष्ठा-संज्ञकप्रत्ययद्वयं भवति— क्त-प्रत्ययः, क्तवतु-प्रत्ययः च | ल्वादिगणे एकविंशतिः धातवः सन्ति | यथा लूञ् छेदने | लू + क्त → लू + त → लू + न → लून → लूनः | कर्तितः इर्यर्थः | क्तवतौ लूनवान् |</big>
<big>अन्यत् उदाहरणं भवति भ्वादौ ह्वेञ्-धातुः | लटि ह्वे + शप् → ह्वय + ति → ह्वयति | आ-उपसर्गपूर्वकः ह्वे लटि च आह्वयति | क्तप्रत्यये परे—</big>
<big>ह्वे + क्त → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणम् → हु + ए + त → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः → हु + त → '''हलः''' (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घत्वम् → हूत → हूतः | आ-उपसर्गपूर्वकरूपम् आहूत | क्तवतौ पुंसि आहूतवान् |</big>
<big>'''वचिस्वपियजादीनां किति''' (६.१.१५) = वच्, स्वप्, यज्, वप्, वह्, वस्, वद्, वेञ्, ह्वेञ्, श्वि, व्येञ् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम् | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात् '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''वचिस्वपियजादीनां सम्प्रसारणं किति''' |</big>
<big>'''हलः''' (६.४.२) इति सूत्रे 'हलः यदुत्तरं संप्रसारणम्' इति किमर्थम् उक्तम् ? हल्-वर्णः किमर्थं पूर्वं भवेत् ? भ्वादौ वे इत्यस्य वे + क्त → उत → उतः एव | पूर्वस्थितस्य हल्वर्णस्य अभावात् न दीर्घत्वम् | क्तवतौ उतवान् | 'अङ्गावयवात् हलः' इत्यनेन अयं हल्-वर्णः किमर्थं अङ्गस्य अवयवः भवेत् ? निर् + वे + क्त → निरुत → निरूतम् | रेफः यद्यपि हल्-वर्णः, किन्तु अङ्गस्य अवयवः न, अतः दीर्घादेशो न भवति | 'तदन्तस्याङ्गस्य' दीर्घत्वं किमर्थम् ? व्यध् इत्यस्य विद्धः, व्यच् इत्यस्य विचितः |</big>
====== <big>c. <u>सम्प्रसारणम्— ग्रह्-धातुः</u></big> ======
<big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (३.१.१६) = '''ग्रह्''', ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |</big>
<big>ग्रह् + श्ना = ग् + र् + अ + ह् + श्ना → '''ग्रहि ज्या''' (६.१.१६) इत्यनेन सम्प्रसारणम् (र् → ऋ, अकारस्य पूर्वरूपादेशः) → ग् + ऋ + ह् + ना → '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णत्वम् → गृह्णा इति अङ्गम् |</big>
====== <big>d. <u>ज्ञा-धातुः</u></big> ======
<big>'''ज्ञाजनोर्जा''' (७.३.७९) = ज्ञा (क्र्यादिगणे), जन् (दिवादिगणे) चेत्यनयोः जा-आदेशो भवति शिति प्रत्यये परे | आदेशः अनेकाल् अतः '''अनेकाल्शित् सर्वस्य''' (१.१.५५) इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | ज्ञाश्च जन् च तयोरितरेतरद्वन्द्वः ज्ञाजनौ, तयोः ज्ञाजनोः | ज्ञाजनोः षष्ठ्यन्तं, जा लुप्तप्रथमाकं पदं, द्विपदमिदं सूत्रम् | '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यस्मात् '''शिति''' इत्यस्य अनुवृतिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ज्ञाजनोः अङ्गस्य जा शिति''' |</big>
<big>'''अनेकाल्शित् सर्वस्य''' (१.१.५५) = आदेशः अनेकाल् (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित् चेत्, सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | (यस्य स्थाने आदेशः आदिष्टः, सः स्थानी |) इदं सूत्रम् '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल् यस्य सः अनेकाल् बहुव्रीहिः; शकारः इत् यस्य सः शित् बहुव्रीहिः; अनेकाल् च शित् च अनेकाल्शित् समाहारद्वन्द्वः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात् '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अनेकाल्शित् सर्वस्य स्थाने''' |</big>
<big>ज्ञा + ना → '''ज्ञाजनोर्जा''' इत्यनेन धात्वादेशः → जा + ना → जाना इत्यङ्गम् |</big>
<big>दिवादिगणे जन् + श्यन् → जा + य → जाय इत्यङ्गम् |</big>
<big>अशिति जा-आदेशः न भवति | ज्ञा + स्यति → ज्ञास्यति | ज्ञा + क्त → ज्ञात → ज्ञातः | जन् + स्यते → जनिष्यते | जन् + क्त → '''जनसनखनां सञ्झलोः''' (६.४.४२) इत्यनेन नकारस्य आकारः, सवर्णदीर्घः → जात → जातः |</big>
<big>'''जनसनखनां सञ्झलोः''' (६.४.४२) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्-प्रत्यये परे झलादि-कित्ङित्-प्रत्यये परे च | अनुवृत्ति-सहितसूत्रम्— '''जनसनखनाम् अङ्गानाम् आत् झलि सञ्झलोः क्ङिति''' |</big>
====== <big>e. <u>अनिदितः धातवः</u> (6 धातवः)</big> ======
<big>एतावता अस्माभिः दृष्टं यत् धातुः इदित् अस्ति चेत्, तत्र नुमागमस्य प्रसक्तिः | यथा वदि-धातुः इदित् (ह्रस्व-इकारः इत् यस्य सः) अस्ति अतः '''इदितो नुम् धातोः''' (७.१.५८) इति सूत्रेण नुमागमः विहितः | वदि → वद् → वन्द् → वंद् → वन्द् इति भवति | स च नुमागमः नित्यः; न कदापि गच्छति | नाम यदा मूलधातौ नकारः नास्ति (यथा वद् धातौ), अनन्तरं नकारं योजयामः ('''इदितो नुम् धातोः''' इति सूत्रेण), तदा तस्य नकारस्य लोपः न कदापि भवति |</big>
<big>परन्तु मूलधातौ नकारः अस्ति चेत्, तर्हि तस्य लोपः अर्हः | क्र्यादौ एतादृशाः षट् धातवः सन्ति—बन्ध्, श्रन्थ्, मन्थ्, श्रन्थ् (अन्यः), ग्रन्थ्, कुन्थ् च | एते धातवः अनिदितः (ह्रस्व-इकारः इत् येषां नास्ति ते), अतः किति ङिति प्रत्यये परे तेषाम् उपधायां स्थितस्य नकारस्य लोपः भवति | श्ना अपित् अतः '''सार्वधातुकम् अपित्''' इति सूत्रेण् ङिद्वत् भवति |</big>
<big>'''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्-संज्ञा नास्ति, तेषाम् उपधायां नकारः अस्ति चेत्, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात् '''न, लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |</big>
<big>यथा—</big>
<big>बन्धँ + श्ना → बन्ध् + ना → उपधा-नकारस्य लोपः ङिति परे ('''अनिदितां हल उपधायाः क्ङिति''') → बध् + ना → बध्ना इत्यङ्गम्</big>
<big>श्रन्थँ + श्ना → श्रन्थ् + ना → उपधा-नकारस्य लोपः ङिति परे ('''अनिदितां हल उपधायाः क्ङिति''') → श्रथ् + ना → श्रथ्ना इत्यङ्गम्</big>
<big>मन्थँ + श्ना → मन्थ् + ना → उपधा-नकारस्य लोपः ङिति परे ('''अनिदितां हल उपधायाः क्ङिति''') → मथ् + ना → मथ्ना इत्यङ्गम्</big>
<big>एवमेव</big>
<big>ग्रन्थँ + श्ना → → ग्रथ्ना</big>
<big>कुन्थँ + श्ना → → कुथ्ना</big>
<big>क्र्यादिगणे सार्वधातुकलकारेषु सर्वत्र श्ना आयाति | श्ना अपित् अतः ङिद्वत्; तर्हि सार्वधातुकलकारेषु (लट्, लोट्, लङ्, विधिलिङ् इत्येषु) सर्वत्र न-लोपः | यथा लटि बन्ध् + श्ना + ति → बध्नाति | शतृ अपि तथा यतः शतृ शित् अतः सार्वधातुकप्रत्ययः; शतृ सर्वदा कर्त्रर्थे अतः '''कर्तरि शप्''' इत्यनेन शप्, शपं प्रबाध्य श्ना | बन्ध + श्ना + शतृ → बन्ध् + श्ना + अत् → बध्ना + अत् → अजादिषु अपित्सु श्ना-प्रत्ययस्य आकार-लोपः ('''श्नाभ्यस्तयोरातः''' इति सूत्रेण, अधः तृतीये सोपाने पश्यन्तु) → बध्नत् | पुंसि बध्नन् |</big>
<big>आर्धधातुक-प्रत्ययेषु परेषु, कित्त्वात् नलोपः | दृष्टान्ते क्तप्रत्यये परे बन्ध् + क्त → '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) → बद्ध, पुंसि बद्धः | सम् + बन्ध् + क्त → सम्बद्ध, पुंसि सम्बद्धः |</big>
<big>आर्धधातुक-प्रत्ययेषु परेषु (कित्-ङित् इति प्रत्ययान् विहाय) अनिदितां न-लोपः न भवति | यथा बन्ध् + तव्यत् → बन्धव्य → बन्धव्यम्; बन्ध् + अनीयर् → बन्धनीय → बन्धनीयम्; बन्ध् + तुमुन् → बन्धुम् |</big>
====== <big>f. <u>णत्वम्</u></big> ======
<big>क्र्यादिगणे बहुषु धातुषु रेफः, ऋकारः, षकारः च सन्ति अतः तेभ्यः वर्णेभ्यः नकारस्य णत्वं भवति | '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन स्वराः, कवर्गीय-व्यञ्जनानि, पवर्गीय-व्यञ्जनानि, ह-य-व-र, अनुस्वारः च मध्ये सन्ति चेदपि णत्वं भवति |</big>
<big>यथा क्री + ना → क्रीणा; गृह् + ना → गृह्णा | अत्र ऋकार-नकारयोः मध्ये हकारः अस्ति, तथापि नकारस्य णत्वं भवतीति |</big>
==== <big>'''<u>२. तिङ्संज्ञकप्रत्यय-सिद्धिः</u>'''</big> ====
<big>अनदन्ताङ्गानां कृते तिङ्प्रत्यय-सिद्धिः जाता एव | यत्र अङ्गम् अनदन्तं, तत्र सर्वेषां धातूनां कृते सिद्ध-तिङ्संज्ञकप्रत्ययाः समानाः इति तु वयं जानीमः | अतः क्र्यादिगणेऽपि सिद्ध-तिङ्प्रत्ययाः एते एव—</big>
<big> <u>परस्मैपदम्</u> <u>आत्मनेपदम्</u></big>
<big> <u>लट्-लकारः</u></big>
<big> '''ति''' तः अन्ति ते आते अते</big>
<big> '''सि''' थः थ से आथे ध्वे</big>
<big> '''मि''' वः मः ए वहे महे</big>
<big> <u>लोट्-लकारः</u></big>
<big> '''तु''', तात् ताम् अन्तु ताम् आताम् अताम्</big>
<big> हि, तात् तम् त स्व आथाम् ध्वम्</big>
<big> '''आनि आव आम ऐ आवहै आमहै'''</big>
<big> <u>लङ्-लकारः</u></big>
<big> '''त्''' ताम् अन् त आताम् अत</big>
<big> '''स्''' तम् त थाः आथाम् ध्वम्</big>
<big> '''अम्''' व म इ वहि महि</big>
<big> <u>विधिलिङ्-लकारः</u></big>
<big> यात् याताम् युः ईत ईयाताम् ईरन्</big>
<big> याः यातम् यात ईथाः ईयाथाम् ईध्वम्</big>
<big> याम् याव याम ईय ईवहि ईमहि</big>
==== <big>'''<u>३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्</u>'''</big> ====
<big>क्र्यादिगणे यदा अङ्गं निष्पन्नं, तदा सर्वेषां धातूनां कृते कार्यं समानमेव | स्मरन्तु यत् स्वादिगणे तथा नासीत्; तत्र अजन्तधातूनाम् एकः समूहः, हलन्तधातूनाम् अपरः समूहः | तनादिगणेऽपि तादृशविभजनं जातम् | अत्र क्र्यादिगणे सर्वेषां धातूनाम् अङ्गानि समानानि | (केवलम् एकस्मिन् स्थले तादृशं समूहद्वयम् अपेक्षितं यथा स्वादिगणे प्राप्यते; तच्च लोट्-लकारस्य मध्यमपुरुषैकवचने एव | अस्य पाठस्य अन्ते पृथक्तया परिशीलयाम; तत् विहाय सर्वगणः एकैव समूहः |)</big>
<big>यथासामान्यं, यत्र अङ्गम् अनदन्तम्, अत्रापि क्र्यादिगणे सिद्ध-तिङ्प्रत्ययानां भागचतुष्टयम् अस्ति— हलादिपितः, अजादिपितः, हलाद्यपितः, अजाद्यपितः च | किञ्च एतत् भागचतुष्टयम् अवलम्ब्य क्र्यादिगणे कार्यम् किञ्चित् भिन्नं भवति—</big>
<big>हलादिषु पित्सु = किमपि कार्यं नास्ति, केवलं योजनम् | अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति | क्रीणा + ति → क्रीणाति</big>
<big>अजादिषु पित्सु = केवलं सन्धिकार्यम् | क्रीणा + आनि → क्रीणानि</big>
<big>हलादिषु अपित्सु = श्ना-प्रत्ययस्य आकार-स्थाने ई-कारादेशः ('''ई हल्यघोः''' इति सूत्रेण) | क्रीणा + तः → क्रीणीतः</big>
<big>अजादिषु अपित्सु = श्ना-प्रत्ययस्य आकार-लोपः ('''श्नाभ्यस्तयोरातः''' इति सूत्रेण) | क्रीणा + अन्ति → क्रीणन्ति</big>
===== <big>'''श्नाभ्यस्तयोरातः''' (६.४.११२)</big> =====
<big>'''श्नाभ्यस्तयोरातः''' (६.४.११२) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्मात् '''लोपः''', इत्यस्य अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके''' |</big>
<big>अभ्यस्तसंज्ञकम् अङ्गं यथा जुहोत्यादिगणे मा-धातुः → मिमा इति अङ्गम् | मिमा + अते → मिम् + अते → मिमते |</big>
<big>अनेन सूत्रेण न केवलम् अजाद्यपिति अपि तु हलाद्यपिति अपि कार्यं विहितं, किन्तु हलादिषु अपित्सु '''ई हल्यघोः''' इति सूत्रम् एतत् कार्यं प्रबाध्य आकारस्य स्थाने ई-कारादेशं विदधाति |</big>
===== <big>'''ई हल्यघोः''' (६.४.११३)</big> =====
<big>'''ई हल्यघोः''' (६.४.११३) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ई-कारादेशः भवति, किति ङिति हलादिसार्वधातुकप्रत्यये परे—परन्तु घुसंज्ञक-धातुः चेत्, न भवति (घुसंज्ञक-धातुः नाम दा धा च धातू) | न घुः अघुः, तस्य अघोः | ई लुप्तप्रथमाकं पदं, हलि सप्तम्यन्तम्, अघोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यस्मात् '''श्नाभ्यस्तयोः''', '''आतः''' चेत्यनयोः अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः; '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य श्नाभ्यस्तयोः आतः ई क्ङिति हलि सार्वधातुके अघोः''' |</big>
<big>अभ्यस्तसंज्ञकम् अङ्गं यथा जुहोत्यादिगणे मा-धातुः → मिमा इति अङ्गम् | मिमा + ते → मिमीते |</big>
===== <big>A. <u>परस्मैपदे लट्</u></big> =====
<big>A. <u>परस्मैपदे लट्</u>— (स्थूलाक्षरैः लिखिताः प्रत्ययाः पितः इति | अन्ये अपितः |)</big>
<big>'''ति''', तः, अन्ति</big>
<big>'''सि''', थः, थ</big>
<big>'''मि''', वः, मः</big>
====== <big><u>परस्मैपदे लटि क्री धातुः</u></big> ======
<big>क्रीञ् + श्ना → क्री + ना → क्रीणा इत्यङ्गम् | अधः सर्वत्र क्रीणा इत्यङ्गम् अधिकृत्य कार्यम् अग्रे सरति |</big>
<big>क्रीणा + '''ति''' →</big>
<big>क्रीणा + तः →</big>
<big>क्रीणा + अन्ति →</big>
<big>क्रीणा + '''सि''' →</big>
<big>क्रीणा + थः →</big>
<big>क्रीणा + थ →</big>
<big>क्रीणा + '''मि''' →</big>
<big>क्रीणा + वः →</big>
<big>क्रीणा + मः →</big>
===== <big>B. <u>आत्मनेपदे लट्</u></big> =====
<big>B. <u>आत्मनेपदे लट्</u>—</big>
<big>ते आते अते</big>
<big>से आथे ध्वे</big>
<big>ए वहे महे</big>
====== <big><u>आत्मनेपदे लटि क्री धातुः</u></big> ======
<big>क्रीञ् + श्ना → क्री + ना → क्रीणा इत्यङ्गम् | अधः सर्वत्र क्रीणा इत्यङ्गं स्वीकृत्य कार्यम् अग्रे सरति |</big>
<big>क्रीणा + ते →</big>
<big>क्रीणा + आते →</big>
<big>क्रीणा + अते →</big>
<big>क्रीणा + से →</big>
<big>क्रीणा + आथे →</big>
<big>क्रीणा + ध्वे →</big>
<big>क्रीणा + ए →</big>
<big>क्रीणा + वहे →</big>
<big>क्रीणा + महे →</big>
<big>'''आदेशप्रत्यययोः''' (८.३.५९) = इण्-प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्, तर्हि तस्य सकारस्य स्थाने षकारादेशो भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्, ठ्, ड्, ढ्, ण्, ष् इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्, अतः षकारः एव आदिष्टः भवति | नुम्, विसर्गः, शर्-प्रत्याहारस्थ-वर्णः च मध्ये सन्ति चेत् अपि कार्यं भवति | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम् एकपदमिदं सूत्रम् | '''सहे साडः सः''' (८.३.५६) इत्यस्मात् '''सः''' इत्यस्य अनुवृत्तिः | '''नुंविसर्जनीयशर्व्यवायेऽपि''' (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | '''इण्कोः''' (८.३.५७), '''अपदान्तस्य मूर्धन्यः''' (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि''' |</big>
===== <big>C. <u>विशेषः — हि-प्रत्ययः</u></big> =====
<big>अत्र, लोट्-लकारस्य मध्यमपुरुषैकवचने, धातूनां समूहद्वयं वर्तते, हलन्तधातवः अजन्तधातवः च | अजन्तधातवः सामान्याः, हलन्तधातवः अपवादभूताः च |</big>
<big>धातुः अजन्तः चेत्, सामान्यक्रमः | हि-प्रत्ययः हलाद्यपित् ('''सेर्ह्यपिच्च''' इति सूत्रेण) |</big>
<big>यथा—</big>
<big>क्रीणा + हि → हलादिषु अपित्सु श्ना-प्रत्ययस्य आकार-स्थाने ई-कारादेशः ('''ई हल्यघोः''' इति सूत्रेण) → क्रीणी + हि → क्रीणीहि |</big>
<big>तथैव ज्ञा → जानीहि, मी → मीनीहि, प्री → प्रीणीहि, द्रू → द्रूणीहि, वृ → वृणीहि |</big>
<big>परन्तु हौ परे हलन्तधातुपूर्वकः यः श्ना, तस्य स्थाने शानच्-आदेशः भवति; अनुबन्ध-लोपे आन इति आदेशः |</big>
====== <big>'''हलः श्नः शानज्झौ''' (३.१.८३)</big> ======
<big>'''हलः श्नः शानज्झौ''' (३.१.८३) = हलुत्तरस्य श्ना-स्थाने शानच्-आदेशः भवति, हि-प्रत्यये परे | शानच् इत्यस्मिन् शकारलोपः '''लशक्वतद्धिते''' इति सूत्रेण, चकारलोपः '''हलन्त्यम्''' इति सूत्रेण, आन अवशिष्यते | '''झलां जशोऽन्ते''' (८.२.३९), '''झयो होऽन्यतरस्याम्''' (८.४.६२) [झयः उत्तरस्य हकारस्य पूर्वसवर्णादेशः] इत्याभ्यां शानच् + हौ → शानज्झौ | हलः पञ्चम्यन्तं, श्नः षष्ठ्यन्तं, शानच् प्रथमान्तम्, हौ सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''हलः श्नः शानच् हौ''' |</big>
<big>धेयं यत् क्र्यादिगणे अङ्गम् अनदन्तम्, अतः हि-लोपः न भवति | परन्तु यदा श्ना-स्थाने शानच् आदेशः भवति, तदा अङ्गम् अदन्तं जातम् यतः शानच् (आन) अकारान्तः प्रत्ययः | अतः 'आन' इत्यस्य योजनेन हि-लोपः (लुक्) भवति |</big>
<big>ग्रह् + हि → ग्रह् + श्ना + हि → '''हलः श्नः शानज्झौ''' (३.१.८३) → ग्रह् + शानच् + हि → ग्रह् + आन + हि → ङिति सम्प्रसारणम् → गृह् + आन + हि → गृहान + हि → अङ्गम् अदन्तम् अतः हि लोपः ('''अतो हेः''' इति सूत्रेण) → णत्वम् → गृहाण</big>
====== <big>'''अतो हेः''' (६.४.१०५)</big> ======
<big>'''अतो हेः''' (६.४.१०५) = ह्रस्व-अकारात् अङ्गात् परस्य हि इत्यस्य लुक् (लोपः) भवति | अतः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''चिणो लुक्''' (६.४.१०४) इत्यस्मात् '''लुक्''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः (अत्र '''अङ्गात्''' भवति विभक्तिपरिणाम इति सिद्धान्तेन) | अनुवृत्ति-सहितसूत्रम्— '''अतः अङ्गात् हेः लुक्''' |</big>
<big>यथा मुष् + शानच् + हि → मुष्+ आन + हि → मुष् + आन + हि → मुषाण</big>
<big>तथैव—</big>
<big>मृद् + आन + हि → मृदान</big>
<big>बध् + आन + हि → बधान</big>
<big>मथ् + आन + हि → मथान</big>
<big>ग्रथ् + आन + हि → ग्रथान</big>
<big>पुष् + आन + हि → पुषाण</big>
<big>कुथ् + आन + हि → कुथान</big>
<big>इति क्र्यादिगणस्य समग्रं चिन्तनम् | अधुना क्र्यादिगणीयेषु यः कोऽपि भवतु नाम, सार्वधातुकलकारेषु वयं सर्वाणि रूपाणि जानिमः |</big>
=== <big><u>क्र्यादिगणे ६१ धातवः</u></big> ===
==== <big><u>अजन्तधातवः</u> [36 धातवः]</big> ====
===== <big>सामान्याः अजन्तधातवः [13 धातवः]</big> =====
<big>औपदेशिकधातुः/अनुबन्धरहितधातुः/अङ्गम्/लट्लकाररूपम्</big>
<big>षिञ् बन्धने सि सिना सिनाति/सिनीते</big>
<big>व्री वरणे व्री व्रीणा व्रीणाति</big>
<big>भ्री भये भ्री भ्रीणा भ्रीणाति</big>
<big>क्षीष् हिंसायाम् क्षी क्षीणा क्षीणाति</big>
<big>डुक्रीञ् द्रव्यविनिमये क्री क्रीणा क्रीणाति</big>
<big>प्रीञ् तर्पणे प्री प्रीणा प्रीणाति/प्रीणीते</big>
<big>श्रीञ् पाके श्री श्रीणा श्रीणाति/श्रीणीते</big>
<big>मीञ् हिंसायां मी मीना मीनाति/मीनीते</big>
<big>स्कुञ् आप्रवणे स्कु स्कुना स्कुनाति/स्कुनीते</big>
<big>युञ् बन्धने यु युना युनाति/युनीते</big>
<big>क्नूञ् शब्दे क्नू क्नूना क्नूनाति/क्नूनीते</big>
<big>द्रूञ् हिंसायाम् द्रू द्रूणा द्रूणाति/द्रूणीते</big>
<big>वृङ् सम्भक्तौ वृ वृणा वृणीते</big>
===== <big>विशेषाः अजन्तधातवः [23 धातवः]</big> =====
====== <big>प्वादि-अन्तर्गणः [22 धातवः]</big> ======
<big>पूञ् पवने पू पुना पुनाति/पुनीते</big>
<big>लूञ् छेदने लू लुना लुनाति/लुनीते</big>
<big>धूञ् कम्पने धू धुना धुनाति/धुनीते</big>
<big>ज्या वयोहानौ ज्या जिना जिनाति [सम्प्रसारणी धातुः]</big>
<big>री गतिरेषणयोः री रिणा रिणाति</big>
<big>ली श्लेषणे ली लिना लिनाति</big>
<big>व्ली वरणे व्ली व्लिना व्लिनाति</big>
<big>प्ली गतौ प्ली प्लिना प्लिनाति</big>
<big>स्तॄञ् आच्छादने स्तॄ स्तृणा स्तृणाति/स्तृणीते</big>
<big>कॄञ् हिंसायाम् कॄ कृणा कृणाति/कृणीते</big>
<big>वॄञ् वरणे वॄ वृणा वृणाति/वृणीते</big>
<big>शॄ हिंसायाम् शॄ शृणा शृणाति</big>
<big>पॄ पालनपूरणयोः पॄ पृणा पृणाति</big>
<big>वॄ वरणे भरण इत्येके वॄ वृणा वृणाति</big>
<big>भॄ भर्त्सने भॄ भृणा भृणाति</big>
<big>मॄ हिंसायाम् मॄ मृणा मृणाति</big>
<big>दॄ विदारणे दॄ दृणा दृणाति</big>
<big>जॄ वयोहानौ जॄ जृणा जृणाति ( अत्र '''ॠत इद्धातोः''' (७.१.१००) इत्यस्य कार्यं न भवति यतोहि '''प्वादीनां ह्रस्वः''' (७.३.८०) इति सूत्रस्य कार्यं नित्यमस्ति '''ॠत इद्धातोः''' (७.१.१००) इत्यस्य अपेक्षया | )</big>
<big>नॄ नये नॄ नृणा नृणाति</big>
<big>कॄ हिंसायाम् कॄ कृणा कृणाति</big>
<big>ॠ गतौ ॠ ऋणा ऋणाति</big>
<big>गॄ शब्दे गॄ गृणा गृणाति</big>
<big>इति प्वादि-अन्तर्गणः समाप्तः</big>
<big>ज्ञा अवबोधने ज्ञा जाना जानाति/जानीते ['''ज्ञाजनोर्जा''' (७.३.७९) इत्यनेन ज्ञा, जन्-धात्वोः जा-आदेशः शिति परे]</big>
==== <big><u>हलन्तधातवः</u> [25 धातवः]</big> ====
===== <big>सामान्याः हलन्तधातवः [18 धातवः]</big> =====
<big>खच भूतप्रादुर्भावे खच् खच्ञा खच्ञाति</big>
<big>हेठ भूतप्रादुर्भावे हेठ् हेठना हेठ्नाति</big>
<big>मृड क्षोदे सुखे च मृड् मृड्णा मृड्णाति</big>
<big>मृद क्षोदे मृद् मृद्ना मृद्नाति</big>
<big>गुध रोषे गुध् गुध्ना गुध्नाति</big>
<big>क्षुभ सञ्चलने क्षुभ् क्षुभ्ना क्षुभ्नाति —> अत्र '''क्षुभ्नादिषु च''' (८.४.३९) इत्यस्य चिन्तनं कुर्यात् |</big>
<big>णभ हिंसायाम् नभ् नभ्ना नभ्नाति</big>
<big>तुभ हिंसायाम् तुभ् तुभ्ना तुभ्नाति</big>
<big>क्लिशू विबाधने क्लिश् क्लिश्ना क्लिश्नाति</big>
<big>अश भोजने अश् अश्ना अश्नाति</big>
<big>कुष निष्कर्षे बहिष्करणम् कुष् कुष्णा कुष्णाति</big>
<big>इष अभीक्ष्ण्ये पौनः पुन्यम् इष् इष्णा इष्णाति</big>
<big>विष विप्रयोगे विष् विष्णा विष्णाति</big>
<big>प्रुष स्नेहन-सेवनपूरणेषु प्रुष् प्रुष्णा प्रुष्णाति</big>
<big>प्लुष स्नेहन-सेवनपूरणेषु प्लुष् प्लुष्णा प्लुष्णाति</big>
<big>पुष पुष्टौ पुष् पुष्णा पुष्णाति</big>
<big>मुष स्तेये मुष् मुष्णा मुष्णाति</big>
<big>उँध्रस उञ्छे ध्रस् ध्रस्ना ध्रस्नाति</big>
<big> उध्रस् उध्रस्ना उध्रस्नाति</big>
<big>अत्र उ धात्वयवः न तु इत्संज्ञकः इति केषाञ्चन पण्डिनां मतम् |</big>
===== <big><u>सम्प्रसारणी धातुः</u></big> =====
<big>ग्रह उपादाने ग्रह् गृह्णा गृह्णाति</big>
===== <big><u>अनिदित्-धातवः</u> [6 धातवः]</big> =====
<big>बन्ध बन्धने बन्ध् बध्ना बध्नाति</big>
<big>श्रन्थ विमोचन-प्रतिहर्षयोः श्रन्थ् श्रथ्ना श्रथ्नाति</big>
<big>मन्थ विलोडने मन्थ् मथ्ना मथ्नाति</big>
<big>श्रन्थ सन्दर्भे श्रन्थ् श्रथ्ना श्रथ्नाति</big>
<big>ग्रन्थ सन्दर्भे ग्रन्थ् ग्रथ्ना ग्रथ्नाति</big>
<big>कुन्थ संश्लेषणे कुन्थ् कुथ्ना कुथ्नाति</big>
<big>इति क्र्यादिगणे समग्रं तिङ्-सम्बद्धं सार्वधातुकप्रकरण-चिन्तनं समाप्तम् |</big>
<big>[https://static.miraheze.org/samskritavyakaranamwiki/e/e6/%E0%A5%AA_-_%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83.pdf File:४ - क्र्यादिगणः (c).pdf] (92k) Swarup Bhai, Mar 31, 2019, 7:54 AM v.1</big>
<big>Swarup – July 2013 (Updated November 2015)</big>
|