page_and_link_managers, Administrators
5,097
edits
No edit summary |
No edit summary |
||
(14 intermediate revisions by 3 users not shown) | |||
Line 1:
{{DISPLAYTITLE: 04A - क्र्यादिगणः}}
{| class="wikitable mw-collapsible mw-collapsed"
Line 22 ⟶ 23:
=== <big>क्र्यादिगणे ६१ धातवः</big> ===
<big><br />
क्र्यादिगणे ६१ धातवः सन्ति | अस्य गणस्य तिङन्तरूपाणि अपि जनेभ्यः भ्रमात्मकानि | परन्तु यथा स्वादिगणे तनादिगणे च, अत्रापि रूपसिद्धिः दुष्करा न अपितु अत्यन्तं तर्कपूर्णा | सा च रूपसिद्धिः ज्ञायते चेत्, अयं गणः नैव कष्टकरः |</big>
=== <big>'''क्र्यादिभ्यः श्ना''' (३.१.८१)</big> ===
<big>'''क्र्यादिभ्यः श्ना''' (३.१.८१) इति सूत्रेण श्ना इति विकरणप्रत्ययः विहितः | '''लशक्वतद्धिते''' (१.३.८) इत्यनेन शकारस्य इत्-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन लोपः | ना इति अवशिष्यते |</big>
<big>'''क्र्यादिभ्यः श्ना''' (३.१.८१) = क्र्यादिगणे स्थितेभ्यः धातुभ्यः श्ना-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | '''कर्तरि शप्''' (३.१.६८) इत्यस्य अपवादः | क्रीः आदिर्येषां ते, क्र्यादयः बहुव्रीहिः, तेभ्यः क्र्यादिभ्यः | क्र्यादिभ्यः पञ्चम्यन्तं, श्ना प्रथमान्तं, द्विपदमिदं सूत्रम् | '''कर्तरि शप्''' (३.१.६८) इत्यस्मात् '''कर्तरि''' इत्यस्य अनुवृत्तिः; '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''
<big>श्ना शित् अतः '''तिङ्शित्सार्वधातुकम्''' (३.४.११३) इत्यनेन सार्वधातुकप्रत्ययः | अतः '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा क्री + ना इति स्थितौ | '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा विष् + ना इति स्थितौ | परन्तु श्ना अपित् अतः '''सार्वधातुकमपित्''' (१.२.४) इति सूत्रेण ङिद्वत्; तदर्थं '''क्क्ङिति च''' (१.१.५) इत्यनेन उभयत्र गुण-निषेधः |</big>
=== <big>'''तिङन्तानां निर्माणार्थं त्रीणि सोपानानि'''</big> ===
Line 45 ⟶ 48:
<big>३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्</big>
==== <big> '''<u>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्</u>'''</big> ====
===== <big>'''सामान्यधातवः'''</big> =====
<big>अपित्त्वात् गुणनिषेधः इत्यनेन कारणेन प्रथमसोपाने सामान्यधातुषु किमपि कार्यं नास्ति |</big>
====== <big>अजन्तधातवः—</big> ======
<big>इकारान्तधातवः सि + ना → सिना</big>
Line 60 ⟶ 62:
<big>ऋकारान्तधातवः वृ + ना → वृणा</big>
====== <big>हलन्तधातवः—</big> ======
<big>इदुपधधातवः क्लिश् + ना → क्लिश्ना</big>
Line 72:
<big> अश् + ना → अश्ना</big>
===== <big>'''विशेषधातवः'''</big> =====
<big>परन्तु क्र्यादिगणे विशेषधातवः अपि सन्ति, येषां प्रथमसोपाने अङ्गकार्यं भवति |</big>
====== <big>a. <u>प्वादिगणः</u></big> ======
<big>प्वादिगणे चतुर्विंशतिः धातवः सन्ति; एषां निरनुबन्धरूपाणि इमानि— पू, लू, धू, ज्या, री, ली व्ली, प्ली, स्तॄ, कॄ, वॄ, शॄ, पॄ, वॄ, भॄ, मॄ, दॄ, जॄ, झॄ, धॄ, नॄ, कॄ, ॠ, गॄ | एते सर्वे धातवः क्र्यादिगणे सन्ति | '''प्वादीनां ह्रस्वः''' (७.३.८०) इति सूत्रेण धातौ स्थितस्य स्वरस्य ह्रस्वत्वं भवति शिति परे | श्ना शित् अस्ति अतः श्ना-प्रत्यये परे धातुस्थ-स्वरस्य ह्रस्वत्वम् | यथा पू + ना → पुना, ली + ना → लिना, स्तॄ + ना → स्तृणा |</big>
====== <big>'''प्वादीनां ह्रस्वः''' (७.३.८०)</big> ======
Line 94 ⟶ 97:
<big>अत्र धेयं यत् यः प्रत्ययः परोऽस्ति सः शित् नास्ति चेत्, स्वरस्य ह्रस्वत्वं न भवति | अतः कर्मणि '''सार्वधातुके यक्''' (३.१.६७) इत्यनेन यक् कृत्वा लटि पूयते, क्तान्ते क्त-प्रत्ययेन पूनः, क्तवतौ क्तवतु- प्रत्ययेन पूनवान् |</big>
====== <big>b. <u>सम्प्रसारणम्— ज्या-धातुः</u></big> ======
<big>ज्या-धातुः प्वादिगणे अन्तर्भूतः, किन्तु सम्प्रसारणी धातुः अपि अस्ति, अतः अत्र विशेषः |</big>
Line 112 ⟶ 116:
<big>यथा ज्या → ज् + य् + आ → '''ग्रहि ज्या''' (६.१.१६) इत्यनेन यकारस्य स्थाने इ-आदेशः → जि + आ → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः एकः पूर्वरूपादेशः → जि</big>
<big>'''सम्प्रसारणं तदाश्रयं च कार्यं बलवत्''' इति परिभाषायाः बलेन प्रथमं सम्प्रसारणकार्यं, तदाश्रयं च कार्यं भवति</big> <big>| अतः '''ग्रहि ज्या''' (६.१.१६) इत्यनेन सम्प्रसारणकार्यं प्रथमं भवति, अनन्तरं तत्सम्बद्धं कार्यं '''सम्प्रसारणाच्च''' (६.१.१०८), '''हलः''' (६.४.२) चेति भवति | तत्पश्चादेव '''प्वादीनां ह्रस्वः''' (७.३.८०) इत्यनेन शिति परे प्वादीनां ह्रस्वत्वम् |</big>
Line 117 ⟶ 123:
<big>'''हलः''' (६.४.२) = अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्-वर्णः अङ्गस्य अवयवः, तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः | '''सम्प्रसारणस्य''' (६.३.१३९) इत्यस्मात् '''सम्प्रसारणस्य''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात् '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हलः सम्प्रसारणस्य अङ्गस्य दीर्घः''' |</big>
<big><br />
अत्र यः इकारः दीर्घः जातः (जि → जी), सः पुनः ह्रस्वः अभवत् (जी → जि) | तर्हि दीर्घत्वस्य फलं किम् ? यत्र परो यः प्रत्ययः अस्ति सः शित् नास्ति, तत्र '''प्वादीनां ह्रस्वः''' इत्यस्य प्रसक्तिः नास्ति | अतः दीर्घत्वं तिष्ठति एव—यथा क्त प्रत्ययः | ज्या + क्त → '''ग्रहि ज्या''' (६.१.१६) इत्यनेन "ज्या ... ङिति" सम्प्रसारणम् → जि + त → '''हलः''' (६.४.२) इत्यनेन सम्प्रसारणस्य दीर्घत्वम् → जी + त → ('''ल्वादिभ्यः''' (८.२.४४) इत्यनेन तकारस्य स्थाने नकारः) →जीत → जीनः |</big>
<big>'''ल्वादिभ्यः''' (८.२.४४) = ल्वादिगणः इत्यस्मिन् अन्तर्गणीयेभ्यः धातुभ्यः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य नकारादेशो भवति | निष्ठा-संज्ञकप्रत्ययद्वयं भवति— क्त-प्रत्ययः, क्तवतु-प्रत्ययः च | ल्वादिगणे एकविंशतिः धातवः सन्ति | यथा लूञ् छेदने | लू + क्त → लू + त → लू + न → लून → लूनः | कर्तितः इर्यर्थः | क्तवतौ लूनवान् |</big>
<big>अन्यत् उदाहरणं भवति भ्वादौ ह्वेञ्-धातुः | लटि ह्वे + शप् → ह्वय + ति → ह्वयति | आ-उपसर्गपूर्वकः ह्वे लटि च आह्वयति | क्तप्रत्यये परे—</big>
<big>ह्वे + क्त → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणम् → हु + ए + त → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः → हु + त → '''हलः''' (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घत्वम् → हूत → हूतः | आ-उपसर्गपूर्वकरूपम् आहूत | क्तवतौ पुंसि आहूतवान् |</big>
Line 134 ⟶ 141:
<big>'''हलः''' (६.४.२) इति सूत्रे 'हलः यदुत्तरं संप्रसारणम्' इति किमर्थम् उक्तम् ? हल्-वर्णः किमर्थं पूर्वं भवेत् ? भ्वादौ वे इत्यस्य वे + क्त → उत → उतः एव | पूर्वस्थितस्य हल्वर्णस्य अभावात् न दीर्घत्वम् | क्तवतौ उतवान् | 'अङ्गावयवात् हलः' इत्यनेन अयं हल्-वर्णः किमर्थं अङ्गस्य अवयवः भवेत् ?
====== <big>c. <u>सम्प्रसारणम्— ग्रह्-धातुः</u></big> ======
<big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (३.१.१६) = '''ग्रह्''', ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |</big>
<big>ग्रह् + श्ना = ग् + र् + अ + ह् + श्ना → '''ग्रहि ज्या''' (६.१.१६) इत्यनेन सम्प्रसारणम् (र् → ऋ, अकारस्य पूर्वरूपादेशः) → ग् + ऋ + ह् + ना → '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णत्वम् → गृह्णा इति अङ्गम् |</big>
====== <big>d. <u>ज्ञा-धातुः</u></big> ======
Line 152 ⟶ 157:
<big>'''अनेकाल्शित् सर्वस्य''' (१.१.५५) = आदेशः अनेकाल् (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित् चेत्, सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | (यस्य स्थाने आदेशः आदिष्टः, सः स्थानी |) इदं सूत्रम् '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल् यस्य सः अनेकाल्
Line 160 ⟶ 165:
<big>अशिति जा-आदेशः न भवति | ज्ञा + स्यति → ज्ञास्यति | ज्ञा + क्त → ज्ञात → ज्ञातः | जन् + स्यते → जनिष्यते | जन् + क्त → '''जनसनखनां सञ्झलोः''' (६.४.४२) इत्यनेन नकारस्य आकारः, सवर्णदीर्घः → जात → जातः |</big>
<big>'''जनसनखनां सञ्झलोः''' (६.४.४२) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्-प्रत्यये परे झलादि-कित्ङित्-प्रत्यये परे च | अनुवृत्ति-सहितसूत्रम्— '''जनसनखनाम् अङ्गानाम् आत् झलि सञ्झलोः क्ङिति''' |</big>
====== <big>e. <u>अनिदितः धातवः</u> (6 धातवः)</big> ======
Line 175 ⟶ 179:
<big>'''अनिदितां हल
<big>यथा—</big>
<big>बन्धँ + श्ना → बन्ध् + ना → उपधा-नकारस्य लोपः ङिति परे ('''अनिदितां हल उपधायाः क्ङिति''') → बध् + ना → बध्ना इत्यङ्गम्</big>
<big>श्रन्थँ + श्ना → श्रन्थ् + ना → उपधा-नकारस्य लोपः ङिति परे ('''अनिदितां हल उपधायाः क्ङिति''') → श्रथ् + ना → श्रथ्ना इत्यङ्गम्</big>
<big>
<big>एवमेव</big>
<big>
<big>
<big>क्र्यादिगणे सार्वधातुकलकारेषु सर्वत्र श्ना आयाति | श्ना अपित् अतः ङिद्वत्; तर्हि सार्वधातुकलकारेषु (लट्, लोट्, लङ्, विधिलिङ् इत्येषु) सर्वत्र न-लोपः | यथा लटि बन्ध् + श्ना + ति → बध्नाति | शतृ अपि तथा यतः शतृ शित् अतः सार्वधातुकप्रत्ययः; शतृ सर्वदा कर्त्रर्थे अतः '''कर्तरि शप्''' इत्यनेन शप्, शपं प्रबाध्य श्ना | बन्ध + श्ना + शतृ → बन्ध् + श्ना + अत् → बध्ना + अत् → अजादिषु अपित्सु श्ना-प्रत्ययस्य आकार-लोपः ('''श्नाभ्यस्तयोरातः''' इति सूत्रेण, अधः तृतीये सोपाने पश्यन्तु) → बध्नत् | पुंसि बध्नन् |</big>
<big>आर्धधातुक-प्रत्ययेषु परेषु, कित्त्वात् नलोपः | दृष्टान्ते क्तप्रत्यये परे बन्ध् + क्त → '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) → बद्ध, पुंसि बद्धः | सम् + बन्ध् + क्त → सम्बद्ध, पुंसि सम्बद्धः |</big>
<big>आर्धधातुक-प्रत्ययेषु परेषु
====== <big>f. <u>णत्वम्</u></big> ======
Line 212 ⟶ 214:
<big>यथा क्री + ना → क्रीणा; गृह् + ना → गृह्णा | अत्र ऋकार-नकारयोः मध्ये हकारः अस्ति, तथापि नकारस्य णत्वं भवतीति |</big>
==== <big>'''<u>२. तिङ्संज्ञकप्रत्यय-सिद्धिः</u>'''</big> ====
<big>अनदन्ताङ्गानां कृते तिङ्प्रत्यय-सिद्धिः जाता एव | यत्र अङ्गम् अनदन्तं, तत्र सर्वेषां धातूनां कृते सिद्ध-तिङ्संज्ञकप्रत्ययाः समानाः इति तु वयं जानीमः | अतः क्र्यादिगणेऽपि सिद्ध-तिङ्प्रत्ययाः एते एव—</big>
Line 258 ⟶ 261:
<big> याम् याव याम ईय ईवहि ईमहि</big>
==== <big>'''<u>३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्</u>'''</big> ====
Line 267 ⟶ 269:
<big>यथासामान्यं, यत्र अङ्गम् अनदन्तम्, अत्रापि क्र्यादिगणे सिद्ध-तिङ्प्रत्ययानां भागचतुष्टयम् अस्ति— हलादिपितः, अजादिपितः, हलाद्यपितः, अजाद्यपितः च | किञ्च एतत् भागचतुष्टयम् अवलम्ब्य क्र्यादिगणे कार्यम् किञ्चित् भिन्नं भवति—</big>
<big>हलादिषु पित्सु = किमपि कार्यं नास्ति, केवलं योजनम् | अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति | क्रीणा + ति → क्रीणाति</big>
Line 275 ⟶ 278:
<big>अजादिषु अपित्सु = श्ना-प्रत्ययस्य आकार-लोपः ('''श्नाभ्यस्तयोरातः''' इति सूत्रेण) | क्रीणा + अन्ति → क्रीणन्ति</big>
===== <big>'''श्नाभ्यस्तयोरातः''' (६.४.११२)</big> =====
Line 282 ⟶ 287:
<big>अभ्यस्तसंज्ञकम् अङ्गं यथा जुहोत्यादिगणे मा-धातुः → मिमा इति अङ्गम् | मिमा + अते → मिम् + अते → मिमते |</big>
<big>अनेन सूत्रेण न केवलम् अजाद्यपिति अपि तु हलाद्यपिति अपि कार्यं विहितं, किन्तु हलादिषु अपित्सु '''ई हल्यघोः''' इति सूत्रम् एतत् कार्यं प्रबाध्य आकारस्य स्थाने ई-कारादेशं विदधाति |</big>
===== <big>'''ई हल्यघोः''' (६.४.११३)</big> =====
Line 292 ⟶ 297:
<big>अभ्यस्तसंज्ञकम् अङ्गं यथा जुहोत्यादिगणे मा-धातुः → मिमा इति अङ्गम् | मिमा + ते → मिमीते |</big>
===== <big>A. <u>परस्मैपदे लट्</u></big> =====
<big>A. <u>परस्मैपदे लट्</u>— (स्थूलाक्षरैः लिखिताः प्रत्ययाः पितः इति | अन्ये अपितः |)</big>
Line 303 ⟶ 307:
<big>'''मि''', वः, मः</big>
====== <big><u>परस्मैपदे लटि क्री धातुः</u></big> ======
<big>क्रीञ् + श्ना → क्री + ना → क्रीणा इत्यङ्गम् | अधः सर्वत्र क्रीणा इत्यङ्गम् अधिकृत्य कार्यम् अग्रे सरति |</big>
<big>क्रीणा + '''ति''' →</big>
Line 328 ⟶ 329:
<big>क्रीणा + मः →</big>
===== <big>B. <u>आत्मनेपदे लट्</u></big> =====
<big>B. <u>आत्मनेपदे लट्</u>—</big>
<big>ते आते अते</big>
Line 338 ⟶ 342:
<big>ए वहे महे</big>
====== <big><u>आत्मनेपदे लटि क्री धातुः</u></big> ======
<big>क्रीञ् + श्ना → क्री + ना → क्रीणा इत्यङ्गम् | अधः सर्वत्र क्रीणा इत्यङ्गं स्वीकृत्य कार्यम् अग्रे सरति |</big>
<big>क्रीणा + ते →</big>
Line 365 ⟶ 366:
<big>'''आदेशप्रत्यययोः''' (८.३.५९) = इण्-प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्, तर्हि तस्य सकारस्य स्थाने षकारादेशो भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्, ठ्, ड्, ढ्, ण्, ष् इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्, अतः षकारः एव आदिष्टः भवति | नुम्, विसर्गः,
===== <big>C. <u>विशेषः — हि-प्रत्ययः</u></big> =====
<big>अत्र, लोट्-लकारस्य मध्यमपुरुषैकवचने, धातूनां समूहद्वयं वर्तते, हलन्तधातवः अजन्तधातवः च | अजन्तधातवः सामान्याः, हलन्तधातवः अपवादभूताः च |</big>
<big>धातुः अजन्तः चेत्, सामान्यक्रमः | हि-प्रत्ययः हलाद्यपित् ('''सेर्ह्यपिच्च''' इति सूत्रेण) |</big>
Line 388 ⟶ 386:
<big>परन्तु हौ परे हलन्तधातुपूर्वकः यः श्ना, तस्य स्थाने शानच्-आदेशः भवति; अनुबन्ध-लोपे आन इति आदेशः |</big>
====== <big>'''हलः श्नः शानज्झौ''' (३.१.८३)</big> ======
<big>'''हलः श्नः शानज्झौ''' (३.१.८३) = हलुत्तरस्य श्ना-स्थाने शानच्-आदेशः भवति, हि-प्रत्यये परे | शानच् इत्यस्मिन् शकारलोपः '''लशक्वतद्धिते''' इति सूत्रेण, चकारलोपः '''हलन्त्यम्''' इति सूत्रेण, आन अवशिष्यते | '''झलां जशोऽन्ते''' (८.२.३९), '''झयो होऽन्यतरस्याम्''' (८.४.६२) [झयः उत्तरस्य हकारस्य पूर्वसवर्णादेशः] इत्याभ्यां शानच् + हौ → शानज्झौ | हलः पञ्चम्यन्तं, श्नः षष्ठ्यन्तं, शानच् प्रथमान्तम्, हौ सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''हलः श्नः शानच् हौ''' |</big>
<big>धेयं यत् क्र्यादिगणे अङ्गम् अनदन्तम्, अतः हि-लोपः न भवति | परन्तु यदा श्ना-स्थाने शानच् आदेशः भवति, तदा अङ्गम् अदन्तं जातम् यतः शानच् (आन) अकारान्तः प्रत्ययः | अतः 'आन' इत्यस्य योजनेन हि-लोपः (लुक्) भवति |</big>
<big>ग्रह् + हि → ग्रह् + श्ना + हि → '''हलः श्नः शानज्झौ''' (३.१.८३) → ग्रह् + शानच् + हि → ग्रह् + आन + हि → ङिति सम्प्रसारणम् → गृह् + आन + हि → गृहान + हि → अङ्गम् अदन्तम् अतः हि लोपः ('''अतो हेः''' इति सूत्रेण) → णत्वम् → गृहाण</big>
====== <big>'''अतो हेः''' (६.४.१०५)</big> ======
Line 401 ⟶ 402:
<big>यथा मुष् +
<big>तथैव—</big>
<big>
<big>
<big>
<big>
<big>
<big>
<big>इति क्र्यादिगणस्य समग्रं चिन्तनम् | अधुना क्र्यादिगणीयेषु यः कोऽपि भवतु नाम, सार्वधातुकलकारेषु वयं सर्वाणि रूपाणि जानिमः |</big>
=== <big><u>क्र्यादिगणे ६१ धातवः</u></big> ===
==== <big><u>अजन्तधातवः</u> [36 धातवः]</big> ====
===== <big>सामान्याः अजन्तधातवः [13 धातवः]</big> =====
<big>औपदेशिकधातुः/अनुबन्धरहितधातुः/अङ्गम्/लट्लकाररूपम्</big>
Line 447 ⟶ 442:
<big>श्रीञ् पाके श्री श्रीणा श्रीणाति/श्रीणीते</big>
<big>मीञ्
<big>स्कुञ् आप्रवणे स्कु स्कुना स्कुनाति/
<big>युञ् बन्धने यु युना युनाति/युनीते</big>
Line 459 ⟶ 454:
<big>वृङ् सम्भक्तौ वृ वृणा वृणीते</big>
===== <big>विशेषाः अजन्तधातवः [23 धातवः]</big> =====
====== <big>
<big>पूञ् पवने पू पुना पुनाति/पुनीते</big>
Line 487 ⟶ 477:
<big>कॄञ् हिंसायाम् कॄ कृणा कृणाति/कृणीते</big>
<big>वॄञ्
<big>शॄ हिंसायाम् शॄ शृणा शृणाति</big>
Line 501 ⟶ 491:
<big>दॄ विदारणे दॄ दृणा दृणाति</big>
<big>जॄ वयोहानौ जॄ जृणा जृणाति ( अत्र '''ॠत इद्धातोः''' (७.१.१००) इत्यस्य कार्यं न भवति यतोहि '''प्वादीनां ह्रस्वः''' (७.३.८०) इति सूत्रस्य कार्यं नित्यमस्ति '''ॠत इद्धातोः''' (७.१.१००) इत्यस्य अपेक्षया | )</big>
<big>नॄ नये नॄ नृणा नृणाति</big>
<big>कॄ हिंसायाम् कॄ कृणा
<big>ॠ गतौ ॠ ऋणा ऋणाति</big>
Line 516 ⟶ 506:
<big>ज्ञा अवबोधने ज्ञा जाना जानाति/जानीते ['''ज्ञाजनोर्जा''' (७.३.७९) इत्यनेन ज्ञा, जन्-धात्वोः जा-आदेशः शिति परे]</big>
==== <big><u>हलन्तधातवः</u> [25 धातवः]</big> ====
===== <big>
<big>खच भूतप्रादुर्भावे खच् खच्ञा खच्ञाति</big>
<big>हेठ भूतप्रादुर्भावे
<big>मृड
<big>मृद क्षोदे मृद् मृद्ना मृद्नाति</big>
<big>गुध रोषे गुध् गुध्ना गुध्नाति</big>
<big>क्षुभ सञ्चलने क्षुभ् क्षुभ्ना क्षुभ्नाति —> अत्र '''क्षुभ्नादिषु च''' (८.४.३९) इत्यस्य चिन्तनं कुर्यात् |</big>
<big>णभ हिंसायाम् नभ् नभ्ना नभ्नाति</big>
Line 550 ⟶ 535:
<big>विष विप्रयोगे विष् विष्णा विष्णाति</big>
<big>प्रुष स्नेहन-सेवनपूरणेषु
<big>प्लुष स्नेहन-
<big>पुष पुष्टौ पुष् पुष्णा पुष्णाति</big>
Line 558 ⟶ 543:
<big>मुष स्तेये मुष् मुष्णा मुष्णाति</big>
<big>
<big> उध्रस् उध्रस्ना उध्रस्नाति</big>
<big>अत्र उ धात्वयवः न तु इत्संज्ञकः इति केषाञ्चन पण्डिनां मतम् |</big>
===== <big><u>सम्प्रसारणी धातुः</u></big> =====
<big>ग्रह उपादाने ग्रह् गृह्णा गृह्णाति</big>
===== <big><u>अनिदित्-धातवः</u> [6 धातवः]</big> =====
<big>बन्ध बन्धने बन्ध् बध्ना बध्नाति</big>
Line 587 ⟶ 572:
<big>[https://static.miraheze.org/samskritavyakaranamwiki/e/e6/%E0%A5%AA_-_%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83.pdf File:४ - क्र्यादिगणः (c).pdf] (92k) Swarup Bhai, Mar 31, 2019, 7:54 AM v.1</big>
<big>Swarup – July 2013 (Updated November 2015)</big>
|