6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH: Difference between revisions

no edit summary
m (Vidhya moved page 04A - क्र्यादिगणः to 04A - क्र्यादिगणः without leaving a redirect)
No edit summary
 
(11 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE: 04A - क्र्यादिगणः}}
 
{| class="wikitable mw-collapsible mw-collapsed"
Line 22 ⟶ 23:
 
 
=== <big><u>क्र्यादिगणे ६१ धातवः</u></big> ===
<big><br />
क्र्यादिगणे ६१ धातवः सन्ति | अस्य गणस्य तिङन्तरूपाणि अपि जनेभ्यः भ्रमात्मकानि | परन्तु यथा स्वादिगणे तनादिगणे च, अत्रापि रूपसिद्धिः दुष्करा न अपितु अत्यन्तं तर्कपूर्णा | सा च रूपसिद्धिः ज्ञायते चेत्‌, अयं गणः नैव कष्टकरः |</big>
 
=== <big>'''क्र्यादिभ्यः श्ना''' (३.१.८१)</big> ===
 
 
<big>'''क्र्यादिभ्यः श्ना''' (३.१.८१) इति सूत्रेण श्ना इति विकरणप्रत्ययः विहितः | '''लशक्वतद्धिते''' (१.३.८) इत्यनेन शकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन लोपः | ना इति अवशिष्यते |</big>
 
 
<big>'''क्र्यादिभ्यः श्ना''' (३.१.८१) = क्र्यादिगणे स्थितेभ्यः धातुभ्यः श्ना-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | '''कर्तरि शप्‌''' (३.१.६८) इत्यस्य अपवादः | क्रीः आदिर्येषां ते, क्र्यादयः बहुव्रीहिः, तेभ्यः क्र्यादिभ्यः | क्र्यादिभ्यः पञ्चम्यन्तं, श्ना प्रथमान्तं, द्विपदमिदं सूत्रम् | '''कर्तरि शप्‌''' (३.१.६८) इत्यस्मात्‌ '''कर्तरि''' इत्यस्य अनुवृत्तिः; '''सार्वधातुके यक्‌''' (३.१.६७) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''धातोरनेकाचोधातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''क्र्यादिभ्यः धातुभ्यः श्ना प्रत्ययः परश्च कर्तरि सार्वधातुके''' |</big>
 
 
<big>श्ना शित्‌ अतः '''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इत्यनेन सार्वधातुकप्रत्ययः | अतः '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा क्री + ना इति स्थितौ | '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा विष्‌‌ + ना इति स्थितौ | परन्तु श्ना अपित्‌ अतः '''सार्वधातुकमपित्‌''' (१.२.४) इति सूत्रेण ङिद्वत्‌; तदर्थं '''क्क्ङिति च''' (१.१.५) इत्यनेन उभयत्र गुण-निषेधः |</big>
 
=== <big>'''तिङन्तानां निर्माणार्थं त्रीणि सोपानानि'''</big> ===
 
 
Line 45 ⟶ 48:
<big>३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</big>
 
==== <big> '''<u>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्‌</u>'''</big> ====
<big><br />
 
'''<u>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्‌</u>'''</big>
===== <big>'''सामान्यधातवः'''</big> =====
 
 
<big>अपित्त्वात्‌ गुणनिषेधः इत्यनेन कारणेन प्रथमसोपाने सामान्यधातुषु किमपि कार्यं नास्ति |</big>
 
====== <big>अजन्तधातवः—</big> ======
 
<big>अजन्तधातवः—</big>
 
<big>इकारान्तधातवः       सि + ना → सिना</big>
 
Line 60 ⟶ 62:
<big>ऋकारान्तधातवः      वृ + ना → वृणा</big>
 
====== <big>हलन्तधातवः—</big> ======
 
<big>हलन्तधातवः—</big>
 
<big>इदुपधधातवः         क्लिश्‌ + ना → क्लिश्ना</big>
 
Line 72:
 
<big>                        अश्‌ + ना → अश्ना</big>
 
===== <big>'''विशेषधातवः'''</big> =====
 
 
<big>परन्तु क्र्यादिगणे विशेषधातवः अपि सन्ति, येषां प्रथमसोपाने अङ्गकार्यं भवति |</big>
 
====== <big>a. <u>प्वादिगणः</u></big> ======
 
<big>a. <u>प्वादिगणः</u></big>
 
 
<big>प्वादिगणे चतुर्विंशतिः धातवः सन्ति; एषां निरनुबन्धरूपाणि इमानि— पू, लू, धू, ज्या, री, ली व्ली, प्ली, स्तॄ, कॄ, वॄ, शॄ, पॄ, वॄ, भॄ, मॄ, दॄ, जॄ, झॄ, धॄ, नॄ, कॄ, ॠ, गॄ | एते सर्वे धातवः क्र्यादिगणे सन्ति | '''प्वादीनां ह्रस्वः''' (७.३.८०) इति सूत्रेण धातौ स्थितस्य स्वरस्य ह्रस्वत्वं भवति शिति परे | श्ना शित्‌ अस्ति अतः श्ना-प्रत्यये परे धातुस्थ-स्वरस्य ह्रस्वत्वम्‌ | यथा पू + ना → पुना, ली + ना → लिना, स्तॄ + ना → स्तृणा |</big>
 
====== <big>'''प्वादीनां ह्रस्वः''' (७.३.८०)</big> ======
 
 
Line 94 ⟶ 97:
<big>अत्र धेयं यत्‌ यः प्रत्ययः परोऽस्ति सः शित् नास्ति चेत्‌, स्वरस्य ह्रस्वत्वं न भवति | अतः कर्मणि '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन यक्‌ कृत्वा लटि पूयते, क्तान्ते क्त-प्रत्ययेन पूनः, क्तवतौ क्तवतु- प्रत्ययेन पूनवान् |</big>
 
====== <big>b. <u>सम्प्रसारणम्‌— ज्या-धातुः</u></big> ======
 
<big>b. <u>सम्प्रसारणम्‌— ज्या-धातुः</u></big>
 
 
Line 114 ⟶ 116:
 
<big>यथा ज्या → ज्‌ + य्‌ + आ → '''ग्रहि ज्या''' (६.१.१६) इत्यनेन यकारस्य स्थाने इ-आदेशः → जि + आ → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात्‌ अचि परे पूर्वपरयोः एकः पूर्वरूपादेशः → जि</big>
 
<big>'''सम्प्रसारणं तदाश्रयं च कार्यं बलवत्''' इति परिभाषायाः बलेन प्रथमं सम्प्रसारणकार्यं, तदाश्रयं च कार्यं भवति</big> <big>| अतः '''ग्रहि ज्या''' (६.१.१६) इत्यनेन सम्प्रसारणकार्यं प्रथमं भवति, अनन्तरं तत्सम्बद्धं कार्यं '''सम्प्रसारणाच्च''' (६.१.१०८), '''हलः''' (६.४.२) चेति भवति | तत्पश्चादेव '''प्वादीनां ह्रस्वः''' (७.३.८०) इत्यनेन शिति परे प्वादीनां ह्रस्वत्वम्‌ |</big>
 
 
Line 119 ⟶ 123:
 
 
 
<big>'''हलः''' (६.४.२) = अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्‌-वर्णः अङ्गस्य अवयवः, तस्मात्‌ परे स्थितं यत्‌ अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; '''अचश्च''' (१.२.२८), '''अलोऽन्त्यस्य''' (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | '''सम्प्रसारणस्य''' (६.३.१३९) इत्यस्मात्‌ '''सम्प्रसारणस्य''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हलः सम्प्रसारणस्य अङ्गस्य दीर्घः''' |</big>
 
<big><br />
अत्र यः इकारः दीर्घः जातः (जि → जी), सः पुनः ह्रस्वः अभवत्‌ (जी → जि) | तर्हि दीर्घत्वस्य फलं किम्‌ ? यत्र परो यः प्रत्ययः अस्ति सः शित्‌ नास्ति, तत्र '''प्वादीनां ह्रस्वः''' इत्यस्य प्रसक्तिः नास्ति | अतः दीर्घत्वं तिष्ठति एव—यथा क्त प्रत्ययः | ज्या + क्त → '''ग्रहि ज्या''' (६.१.१६) इत्यनेन "ज्या ... ङिति" सम्प्रसारणम्‌ → जि + त → '''हलः''' (६.४.२) इत्यनेन सम्प्रसारणस्य दीर्घत्वम्‌ → जी + त → ('''ल्वादिभ्यः''' (८.२.४४) इत्यनेन तकारस्य स्थाने नकारः) →जीत → जीनः |</big>
 
 
<big>'''ल्वादिभ्यः''' (८.२.४४) = ल्वादिगणः इत्यस्मिन्‌ अन्तर्गणीयेभ्यः धातुभ्यः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य नकारादेशो भवति | निष्ठा-संज्ञकप्रत्ययद्वयं भवति— क्त-प्रत्ययः, क्तवतु-प्रत्ययः च | ल्वादिगणे एकविंशतिः धातवः सन्ति | यथा लूञ्‌ छेदने | लू + क्त → लू + त → लू + न → लून → लूनः | कर्तितः इर्यर्थः | क्तवतौ लूनवान्‌ |</big>
 
<big>अन्यत्‌ उदाहरणं भवति भ्वादौ ह्वेञ्‌-धातुः | लटि ह्वे + शप्‌ → ह्वय + ति → ह्वयति | आ-उपसर्गपूर्वकः ह्वे लटि च आह्वयति | क्तप्रत्यये परे—</big>
 
 
<big>ह्वे + क्त → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणम्‌ → हु + ए + त → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात्‌ अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः → हु + त → '''हलः''' (६.४.२) इत्यनेन अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घत्वम्‌ → हूत → हूतः | आ-उपसर्गपूर्वकरूपम्‌ आहूत | क्तवतौ पुंसि आहूतवान्‌ |</big>
 
 
Line 136 ⟶ 141:
 
 
<big>'''हलः''' (६.४.२) इति सूत्रे 'हलः यदुत्तरं संप्रसारणम्‌' इति किमर्थम्‌ उक्तम्‌ ? हल्‌-वर्णः किमर्थं पूर्वं भवेत्‌ ? भ्वादौ वे इत्यस्य वे + क्त → उत → उतः एव | पूर्वस्थितस्य हल्‌वर्णस्य अभावात्‌ न दीर्घत्वम्‌ | क्तवतौ उतवान्‌ | 'अङ्गावयवात्‌ हलः' इत्यनेन अयं हल्‌-वर्णः किमर्थं अङ्गस्य अवयवः भवेत्‌ ? निर्‍निर् + वे + क्त → निरुतम्‌निरुत → निरूतम् | रेफः यद्यपि हल्‌-वर्णः, किन्तु अङ्गस्य अवयवः न, अतः दीर्घादेशो न भवति | 'तदन्तस्याङ्गस्य' दीर्घत्वं किमर्थम्‌ ? व्यध्‌ इत्यस्य विद्धः, व्यच्‌ इत्यस्य विचितः |</big>
 
 
<big>c. <u>सम्प्रसारणम्‌— ग्रह्‌-धातुः</u></big>
 
====== <big>c. <u>सम्प्रसारणम्‌— ग्रह्‌-धातुः</u></big> ======
 
<big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (३.१.१३) = '''ग्रह्‌''', ज्या, वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |</big>
 
<big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (३.१.१३१६) = '''ग्रह्‌''', ज्या, वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |</big>
 
<big>ग्रह्‌ + श्ना = ग्‌ + र्‍ + अ + ह्‌ + श्ना → '''ग्रहि ज्या''' (६.१.१६) इत्यनेन सम्प्रसारणम्‌ (र्‍ → ऋ, अकारस्य पूर्वरूपादेशः) → ग् + ऋ + ह्‌ + ना → '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णत्वम्‌ → गृह्णा इति अङ्गम्‌ |</big>
 
<big>ग्रह्‌ + श्ना = ग्‌ + र्‍र् + अ + ह्‌ + श्ना → '''ग्रहि ज्या''' (६.१.१६) इत्यनेन सम्प्रसारणम्‌ (र्‍र् → ऋ, अकारस्य पूर्वरूपादेशः) → ग् + ऋ + ह्‌ + ना → '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णत्वम्‌ → गृह्णा इति अङ्गम्‌ |</big>
 
====== <big>d. <u>ज्ञा-धातुः</u></big> ======
 
 
Line 154 ⟶ 157:
 
 
<big>'''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) = आदेशः अनेकाल्‌ (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित्‌ चेत्‌, सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | (यस्य स्थाने आदेशः आदिष्टः, सः स्थानी |) इदं सूत्रम्‌ '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल्‌ यस्य सः अनेकाल्‌ बहुब्रीहिःबहुव्रीहिः; शकारः इत्‌ यस्य सः शित्‌ बहुब्रीहिःबहुव्रीहिः; अनेकाल्‌ च शित्‌ च अनेकाल्शित्‌ समाहारद्वन्द्वः | अनेकाल्‌ प्रथमान्तं, शित्‌ प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाल्शित्‌ सर्वस्य स्थाने''' |</big>
 
 
Line 162 ⟶ 165:
 
 
<big>अशिति जा-आदेशः न भवति | ज्ञा + स्यति → ज्ञास्यति | ज्ञा + क्त → ज्ञात → ज्ञातः | जन्‌ + स्यते → जनिष्यते | जन्‌ + क्त → '''जनसनखनां सञ्झलोः''' (६.४.४२) इत्यनेन नकारस्य आकारः, सवर्णदीर्घः → जात → जातः |</big>
 
 
<big>'''जनसनखनां सञ्झलोः''' (६.४.४२) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्‌-प्रत्यये परे झलादि-कित्‌ङित्‌-प्रत्यये परे च | अनुवृत्ति-सहितसूत्रम्‌— '''जनसनखनाम्‌ अङ्गानाम्‌ आत् झलि सञ्झलोः‌ क्ङिति''' |</big>
 
====== <big>e. <u>अनिदितः धातवः</u> (6 धातवः)</big> ======
 
<big>e. <u>अनिदितः धातवः</u> (6 धातवः)</big>
 
 
Line 177 ⟶ 179:
 
 
<big>'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न, लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |</big>
 
 
<big>यथा—</big>
 
<big>बन्धबन्धँ + श्ना → बन्ध्‌ + ना → उपधा-नकारस्य लोपः ङिति परे ('''अनिदितां हल उपधायाउपधायाः क्ङिति''') → बध्‌ + ना → बध्ना इत्यङ्गम्‌</big>
 
<big>श्रन्थश्रन्थँ + श्ना → श्रन्थ्‌ + ना → उपधा-नकारस्य लोपः ङिति परे ('''अनिदितां हल उपधायाउपधायाः क्ङिति''') → श्रथ्‌ + ना → श्रथ्ना इत्यङ्गम्‌</big>
 
<big>मन्थमन्थँ + श्ना → मन्थ्‌ + ना → उपधा-नकारस्य लोपः ङिति परे ('''अनिदितां हल उपधायाउपधायाः क्ङिति''') → मथ्‌ + ना → मथ्ना इत्यङ्गम्‌</big>
 
 
<big>एवमेव</big>
 
<big>ग्रन्थग्रन्थँ + श्ना → → ग्रथ्ना</big>
 
<big>कुन्थकुन्थँ + श्ना → → कुथ्ना</big>
 
 
<big>क्र्यादिगणे सार्वधातुकलकारेषु सर्वत्र श्ना आयाति | श्ना अपित्‌ अतः ङिद्वत्; तर्हि सार्वधातुकलकारेषु (लट्‌, लोट्‍, लङ्‌, विधिलिङ्‌ इत्येषु) सर्वत्र न-लोपः | यथा लटि बन्ध्‌ + श्ना + ति → बध्नाति | शतृ अपि तथा यतः शतृ शित्‌ अतः सार्वधातुकप्रत्ययः; शतृ सर्वदा कर्त्रर्थे अतः '''कर्तरि शप्‌''' इत्यनेन शप्‌, शपं प्रबाध्य श्ना | बन्ध + श्ना + शतृ → बन्ध्‌ + श्ना + अत्‌ → बध्ना + अत्‌ → अजादिषु अपित्सु श्ना-प्रत्ययस्य आकार-लोपः ('''श्नाभ्यस्तयोरातः''' इति सूत्रेण, अधः तृतीये सोपाने पश्यन्तु) → बध्नत्‌ | पुंसि बध्नन्‌ |</big>
 
<big>आर्धधातुक-प्रत्ययेषु परेषु, कित्त्वात्‌ नलोपः | दृष्टान्ते क्तप्रत्यये परे बन्ध्‌ + क्त → '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) → बद्ध, पुंसि बद्धः | सम्‌ + बन्ध्‌ + क्त → सम्बद्ध, पुंसि सम्बद्धः |</big>
 
 
<big>आर्धधातुक-प्रत्ययेषु परेषु (कित्‌-ङित् इति प्रत्ययान्‌ विहाय) अनिदितां न-लोपः न भवति | यथा बन्ध्‌ + तव्यत्‌ → बन्धव्य → बन्धव्यम्‌; बन्ध्‌ + अनीयर्‍अनीयर् → बन्धनीय → बन्धनीयम्‌; बन्ध्‌ + तुमुन्‌ → बन्धुम्‌ |</big>
 
 
 
====== <big>f. <u>णत्वम्‌</u></big> ======
 
 
Line 212 ⟶ 214:
<big>यथा क्री + ना → क्रीणा; गृह्‌ + ना → गृह्णा | अत्र ऋकार-नकारयोः मध्ये हकारः अस्ति, तथापि नकारस्य णत्वं भवतीति |</big>
 
==== <big>'''<u>२. तिङ्‌संज्ञकप्रत्यय-सिद्धिः</u>'''</big> ====
 
<big>'''<u>२. तिङ्‌संज्ञकप्रत्यय-सिद्धिः</u>'''</big>
 
 
Line 260 ⟶ 261:
<big>                 याम्‌      याव       याम                                     ईय      ईवहि        ईमहि</big>
 
==== <big>'''<u>३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</u>'''</big> ====
 
<big>'''<u>३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</u>'''</big>
 
 
Line 278:
 
<big>अजादिषु अपित्सु = श्ना-प्रत्ययस्य आकार-लोपः ('''श्नाभ्यस्तयोरातः''' इति सूत्रेण) | क्रीणा + अन्ति → क्रीणन्ति</big>
 
===== <big>'''श्नाभ्यस्तयोरातः''' (६.४.११२)</big> =====
 
 
Line 286 ⟶ 288:
 
<big>अनेन सूत्रेण न केवलम्‌ अजाद्यपिति अपि तु हलाद्यपिति अपि कार्यं विहितं, किन्तु हलादिषु अपित्सु '''ई हल्यघोः''' इति सूत्रम्‌ एतत्‌ कार्यं प्रबाध्य आकारस्य स्थाने ई-कारादेशं विदधाति |</big>
 
===== <big>'''ई हल्यघोः''' (६.४.११३)</big> =====
 
 
Line 293 ⟶ 297:
<big>अभ्यस्तसंज्ञकम्‌ अङ्गं यथा जुहोत्यादिगणे मा-धातुः → मिमा इति अङ्गम्‌ | मिमा + ते → मिमीते |</big>
 
===== <big>A. <u>परस्मैपदे लटि क्री धातुःलट्</u></big> =====
<big>A. <u>परस्मैपदे लट्</u>— (स्थूलाक्षरैः लिखिताः प्रत्ययाः पितः इति | अन्ये अपितः |)</big>
 
Line 302 ⟶ 307:
<big>'''मि''', वः, मः</big>
 
====== <big><u>आत्मनेपदेपरस्मैपदे लटि क्री धातुः</u></big> ======
 
<big><u>परस्मैपदे लटि क्री धातुः</u></big>
 
 
Line 325 ⟶ 329:
 
<big>क्रीणा + मः →</big>
 
===== <big>B. <u>आत्मनेपदे लट्</u></big> =====
 
 
Line 336 ⟶ 342:
<big>ए वहे महे</big>
 
====== <big><u>आत्मनेपदे लटि क्री धातुः</u></big> ======
 
<big><u>आत्मनेपदे लटि क्री धातुः</u></big>
 
 
Line 361 ⟶ 366:
 
 
<big>'''आदेशप्रत्यययोः''' (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तर्हि तस्य सकारस्य स्थाने षकारादेशो भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्‍शर्-प्रत्याहारस्थ-वर्णः च मध्ये सन्ति चेत्‌ अपि कार्यं भवति | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''सहे साडः सः''' (८.३.५६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''नुंविसर्जनीयशर्व्यवायेऽपि''' (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्‌''' इत्यस्य अधिकारः | '''इण्कोः''' (८.३.५७), '''अपदान्तस्य मूर्धन्यः''' (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि''' |</big>
 
===== <big>C. <u>विशेषः — हि-प्रत्ययः</u></big> =====
 
<big>C. <u>विशेषः — हि-प्रत्ययः</u></big>
 
 
Line 382 ⟶ 386:
<big>परन्तु हौ परे हलन्तधातुपूर्वकः यः श्ना, तस्य स्थाने शानच्‌-आदेशः भवति; अनुबन्ध-लोपे आन इति आदेशः |</big>
 
====== <big>'''हलः श्नः शानज्झौ''' (३.१.८३)</big> ======
<big>'''हलः श्नः शानज्झौ''' (३.१.८३) = हलुत्तरस्य श्ना-स्थाने शानच्‌-आदेशः भवति, हि-प्रत्यये परे | शानच्‌ इत्यस्मिन्‌ शकारलोपः '''लशक्वतद्धिते''' इति सूत्रेण, चकारलोपः '''हलन्त्यम्‌''' इति सूत्रेण, आन अवशिष्यते | '''झलां जशोऽन्ते''' (८.२.३९), '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) [झयः उत्तरस्य हकारस्य पूर्वसवर्णादेशः] इत्याभ्यां शानच्‌ + हौ → शानज्झौ | हलः पञ्चम्यन्तं, श्नः षष्ठ्यन्तं, शानच्‌ प्रथमान्तम्‌, हौ सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''हलः श्नः शानच्‌ हौ''' |</big>
 
Line 389 ⟶ 394:
 
 
<big>ग्रह्‌ + हि → ग्रह्‌ + श्ना + हि → ङिति'''हलः सम्प्रसारणम्‌श्नः शानज्झौ''' (३.१.८३)गृह्‌ग्रह्‌ + नाशानच् + हि → गृह्णाग्रह्‌ + आन + हि → श्ना-स्थानेङिति शानच्‌ (आन)सम्प्रसारणम्‌ → गृह्‌ + आन + हि → णत्वम्‌गृहाणगृहान + हि → अङ्गम्‌ अदन्तम्‌ अतः हि लोपः ('''अतो हेः''' इति सूत्रेण) → णत्वम्‌ → गृहाण</big>
 
====== <big>'''अतो हेः''' (६.४.१०५)</big> ======
 
 
Line 395 ⟶ 402:
 
 
<big>यथा मुष्‌ + श्नाशानच् + हि → मुष्णामुष्+ आन + हि → ना-स्थाने आन → मुष्‌ + आन + हि → मुषाण</big>
 
<big>तथैव—</big>
 
<big>मृद्नामृद् + आन + हि → मृदान</big>
 
<big>बध्नाबध् + आन + हि → बधान</big>
 
<big>मथ्नामथ् + आन + हि → मथान</big>
 
<big>ग्रथ्नाग्रथ् + आन + हि → ग्रथान</big>
 
<big>पुष्णापुष् + आन + हि → पुषाण</big>
 
<big>कुथ्नाकुथ् + आन + हि → कुथान</big>
 
 
<big>इति क्र्यादिगणस्य समग्रं चिन्तनम्‌ | अधुना क्र्यादिगणीयेषु यः कोऽपि भवतु नाम, सार्वधातुकलकारेषु वयं सर्वाणि रूपाणि जानिमः |</big>
 
=== <big><u>क्र्यादिगणे ६१ धातवः</u></big> ===
 
==== <big><u>अजन्तधातवः</u> [36 धातवः]</big> ====
<big><u>क्र्यादिगणे ६१ धातवः</u></big>
 
 
<big><u>अजन्तधातवः</u> [36 धातवः]</big>
 
 
<big>सामान्याः अजन्तधातवः [13 धातवः]</big>
 
===== <big>सामान्याः अजन्तधातवः [13 धातवः]</big> =====
<big>औपदेशिकधातुः/अनुबन्धरहितधातुः/अङ्गम्‌/लट्लकाररूपम्‌</big>
 
Line 439 ⟶ 442:
<big>श्रीञ्‌ पाके                श्री     श्रीणा     श्रीणाति/श्रीणीते</big>
 
<big>मीञ्‌ बन्धनेहिंसायां              मी      मीना     मीनाति/मीनीते</big>
 
<big>स्कुञ्‌ आप्रवणे          स्कु     स्कुना     स्कुनाति/स्कुनीतिस्कुनीते</big>
 
<big>यु‌ञ्‌ बन्धने              यु        युना      युनाति/युनीते</big>
Line 451 ⟶ 454:
<big>वृङ्‌ सम्भक्तौ            वृ       वृणा      वृणीते</big>
 
===== <big>विशेषाः अजन्तधातवः [23 धातवः]</big> =====
 
====== <big>विशेषाः अजन्तधातवःप्वादि-अन्तर्गणः [2322 धातवः]</big> ======
 
 
<big>प्वादि-अन्तर्गणः [22 धातवः]</big>
 
<big>पूञ्‌ पवने                 पू      पुना    पुनाति/पुनीते</big>
 
Line 477:
<big>कॄञ्‌ हिंसायाम्‌          कॄ       कृणा      कृणाति/कृणीते</big>
 
<big>वॄञ्‌ वरणॆवरणे               वॄ        वृणा      वृणाति/वृणीते</big>
 
<big>शॄ हिंसायाम्‌             शॄ       शृणा      शृणाति</big>
Line 491:
<big>दॄ विदारणे               दॄ        दृणा      दृणाति</big>
 
<big>जॄ वयोहानौ              जॄ       जृणा      जृणाति ( अत्र '''ॠत इद्धातोः''' (७.१.१००) इत्यस्य कार्यं न भवति यतोहि '''प्वादीनां ह्रस्वः''' (७.३.८०) इति सूत्रस्य कार्यं नित्यमस्ति '''ॠत इद्धातोः''' (७.१.१००) इत्यस्य अपेक्षया | )</big>
 
<big>नॄ नये                    नॄ        नृणा       नृणाति</big>
 
<big>कॄ हिंसायाम्‌             कॄ        कृणा       कृणतिकृणाति</big>
 
<big>ॠ गतौ                  ॠ       ऋणा       ऋणाति</big>
Line 506:
<big>ज्ञा अवबोधने            ज्ञा        जाना      जानाति/जानीते ['''ज्ञाजनोर्जा''' (७.३.७९) इत्यनेन ज्ञा, जन्‌-धात्वोः जा-आदेशः शिति परे]</big>
 
==== <big>सामान्याः <u>हलन्तधातवः</u> [1825 धातवः]</big> ====
 
===== <big><u>सामान्याः हलन्तधातवः</u> [2518 धातवः]</big> =====
 
 
<big>सामान्याः हलन्तधातवः [18 धातवः]</big>
 
<big>खच भूतप्रादुर्भावे        खच्‌      खच्ञा      खच्ञाति</big>
 
<big>हेठ भूतप्रादुर्भावे                       हेठ्‌       हेठना       हेठ्नाति</big>
 
<big>मृड क्षोते क्षोदे  सुखे               मृड्‌        मृड्णा     मृड्णाति</big>
 
<big>मृद क्षोदे                       मृद्‌        मृद्ना      मृद्नाति</big>
 
<big>गुध रोषे                    गुध्‌        गुध्ना      गुध्नाति</big>
 
<big>क्षुभ सञ्चलने               क्षुभ्‌       क्षुभ्ना      क्षुभ्नाति —> अत्र '''क्षुभ्नादिषु च''' (८.४.३९) इत्यस्य चिन्तनं कुर्यात् |</big>
 
<big>णभ हिंसायाम्‌              नभ्‌        नभ्ना      नभ्नाति</big>
Line 538 ⟶ 535:
<big>विष विप्रयोगे                 विष्‌       विष्णा      विष्णाति</big>
 
<big>प्रुष स्नेहन-सेवनपूरणेषु                          प्रुष्‌‍         प्रुष्णा      प्रुष्णाति</big>
 
<big>प्लुष स्नेहन-सेवन्पूरणेषुसेवनपूरणेषु     प्लुष्‌       प्लुष्णा     प्लुष्णाति</big>
 
<big>पुष पुष्टौ                       पुष्‌         पुष्णा       पुष्णाति</big>
Line 546 ⟶ 543:
<big>मुष स्तेये                      मुष्‌         मुष्णा       मुष्णाति</big>
 
<big>उध्रसउँध्रस उञ्छे                   ध्रस्‌         ध्रस्ना       ध्रस्नाति</big>
 
<big>                              उध्रस्‌        उध्रस्ना     उध्रस्नाति</big>
 
<big>अत्र उ धात्वयवः न तु इत्संज्ञकः इति केषाञ्चन पण्डिनां मतम् |</big>
 
===== <big><u>सम्प्रसारणी धातुः</u></big> =====
 
<big>ग्रह उपादाने                   ग्रह्‌          गृह्णा         गृह्णाति</big>
 
===== <big><u>अनिदित्‌-धातवः</u> [6 धातवः]</big> =====
 
<big><u>अनिदित्‌-धातवः</u> [6 धातवः]</big>
 
 
Line 576 ⟶ 572:
 
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/ce/c8e6/%E0%A5%AA_-_%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83_%28c%2983.pdf File:४ - क्र्यादिगणः (c).pdf] (92k) Swarup Bhai, Mar 31, 2019, 7:54 AM v.1</big>
 
 
page_and_link_managers, Administrators
5,097

edits