6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 178:
 
 
<big>'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न, लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |</big>
 
 
Line 199:
<big>क्र्यादिगणे सार्वधातुकलकारेषु सर्वत्र श्ना आयाति | श्ना अपित्‌ अतः ङिद्वत्; तर्हि सार्वधातुकलकारेषु (लट्‌, लोट्‍, लङ्‌, विधिलिङ्‌ इत्येषु) सर्वत्र न-लोपः | यथा लटि बन्ध्‌ + श्ना + ति → बध्नाति | शतृ अपि तथा यतः शतृ शित्‌ अतः सार्वधातुकप्रत्ययः; शतृ सर्वदा कर्त्रर्थे अतः '''कर्तरि शप्‌''' इत्यनेन शप्‌, शपं प्रबाध्य श्ना | बन्ध + श्ना + शतृ → बन्ध्‌ + श्ना + अत्‌ → बध्ना + अत्‌ → अजादिषु अपित्सु श्ना-प्रत्ययस्य आकार-लोपः ('''श्नाभ्यस्तयोरातः''' इति सूत्रेण, अधः तृतीये सोपाने पश्यन्तु) → बध्नत्‌ | पुंसि बध्नन्‌ |</big>
 
<big>आर्धधातुक-प्रत्ययेषु परेषु, कित्त्वात्‌ नलोपः | दृष्टान्ते क्तप्रत्यये परे बन्ध्‌ + क्त → '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) → बद्ध, पुंसि बद्धः | सम्‌ + बन्ध्‌ + क्त → सम्बद्ध, पुंसि सम्बद्धः |</big>
 
 
page_and_link_managers, Administrators
5,097

edits