6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH (view source)
Revision as of 18:24, 16 May 2021
, 3 years agono edit summary
No edit summary |
No edit summary |
||
Line 71:
<big>a. <u>प्वादिगणः</u></big>
Line 79:
<big>'''प्वादीनां ह्रस्वः''' (७.३.८०) = पूञ्, लूञ्, धूञ्, ज्या, री, ली व्ली, प्ली, स्तॄञ्, कॄञ्, वॄ, शॄ, पॄ, वॄञ्, भॄ, मॄ, दॄ, जॄ, झॄ, धॄञ्, नॄ, कॄ, ॠ, गॄ, एषां धातूनां ह्रस्वत्वं भवति शिति प्रत्यये परे | पूः आदिर्येषां ते, प्वादयः बहुव्रीहिः, तेषां प्वादीनाम् | '''येन विधिस्तदन्तस्य''' (१.१.७२), '''अलोऽन्त्यस्य''' (१.१.५२), '''अचश्च''' (१.२.२८) इत्येभिः सूत्रैः एषां धातूनाम् अन्तिमस्वरस्य ह्रस्वादेशो भवति | प्वादीनां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''ष्ठिवुक्लमुचमां शिति''' (७.३.३५) इत्यस्मात् '''शिति''' इत्यस्य अनुवृतिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''प्वादीनाम् अचः अङ्गस्य ह्रस्वः शिति''' |</big>
<big>'''अचश्च''' (१.२.२८) = यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र '''अचः''' इति षष्ठ्यन्तं पदम् आगत्य उपस्थितं भवति | परिभाषासूत्रम् | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''ऊकालोऽज्झ्रस्वदीर्घप्लुतः''' (१.२.२७) इत्यस्मात् '''अच्, ह्रस्वदीर्घप्लुतः''' इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, '''ह्रस्वदीर्घप्लुतैः (शब्दैः)''' | अनुवृत्ति-सहितसूत्रम्— '''ह्रस्वदीर्घप्लुतैः अचः च अच्''' |</big>
<big><br />
'''अलोऽन्त्यस्य''' (१.१.५२) = षष्ठीविभक्ति-द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्-वर्णस्य स्थाने भवति | परिभाषासूत्रम् | अलः षष्ठ्यन्तम्, अन्त्यस्य षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | '''षष्ठी स्थानेयोगा''' (१.१.४९) इत्यस्मात् '''षष्ठी, स्थाने''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''षष्ठ्या अन्त्यस्य अलः स्थाने''' (विद्यमानः आदेशः) |</big>
<big>अत्र धेयं यत् यः प्रत्ययः परोऽस्ति सः शित् नास्ति चेत्, स्वरस्य ह्रस्वत्वं न भवति | अतः कर्मणि '''सार्वधातुके यक्''' (३.१.६७) इत्यनेन यक् कृत्वा लटि पूयते, क्तान्ते क्त-प्रत्ययेन पूनः, क्तवतौ क्तवतु- प्रत्ययेन पूनवान् |</big>
<big>b. <u>सम्प्रसारणम्— ज्या-धातुः</u></big>
<big>ज्या-धातुः प्वादिगणे अन्तर्भूतः, किन्तु सम्प्रसारणी धातुः अपि अस्ति, अतः अत्र विशेषः |</big>
<big>सम्प्रसारणम्—</big>
<big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) = ग्रह्, '''ज्या''', वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |</big>
<big>'''इग्यणः सम्प्रसारणम्''' (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— '''यणः इक् सम्प्रसारणम्''' |</big>
<big>'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''इको यणचि''' (६.१.७७) इत्यस्मात् '''अचि, अमि पूर्वः''' (६.१.१०७) इत्यस्मात् '''पूर्वः''' इत्यनयोः अनुवृत्तिः भवतः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्''' |</big>
<big>यथा ज्या → ज् + य् + आ → '''ग्रहि ज्या''' (६.१.१६) इत्यनेन यकारस्य स्थाने इ-आदेशः → जि + आ → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः एकः पूर्वरूपादेशः → जि</big>
<big>श्ना प्रत्ययः शित् अपि च पित्-भिन्नत्वात् ङिद्वत् ('''सार्वधातुकम् अपित्''' इत्यनेन) | '''ग्रहि ज्या''' (६.१.१६) इत्यनेन "ज्या ... ङिति" सम्प्रसारणम् | अतः ज्या + ना → सम्प्रसारणम् → जि + ना → '''हलः''' (६.४.२) इत्यनेन सम्प्रसारणस्य दीर्घत्वम् → जी + ना → '''प्वादीनां ह्रस्वः''' (७.३.८०) इत्यनेन शिति परे प्वादीनां ह्रस्वत्वम् → जि + ना → जिना</big>
<big>'''हलः''' (६.४.२) = अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्-वर्णः अङ्गस्य अवयवः, तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; '''अचश्च''' (१.२.२८), '''अलोऽन्त्यस्य''' (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | '''सम्प्रसारणस्य''' (६.३.१३९) इत्यस्मात् '''सम्प्रसारणस्य''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात् '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हलः सम्प्रसारणस्य अङ्गस्य दीर्घः''' |</big>
<big><br />
अत्र यः इकारः दीर्घः जातः (जि → जी), सः पुनः ह्रस्वः अभवत् (जी → जि) | तर्हि दीर्घत्वस्य फलं किम् ? यत्र परो यः प्रत्ययः अस्ति सः शित् नास्ति, तत्र '''प्वादीनां ह्रस्वः''' इत्यस्य प्रसक्तिः नास्ति | अतः दीर्घत्वं तिष्ठति एव—यथा क्त प्रत्ययः | ज्या + क्त → '''ग्रहि ज्या''' (६.१.१६) इत्यनेन "ज्या ... ङिति" सम्प्रसारणम् → जि + त → '''हलः''' (६.४.२) इत्यनेन सम्प्रसारणस्य दीर्घत्वम् → जी + त → ('''ल्वादिभ्यः''' (८.२.४४) इत्यनेन तकारस्य स्थाने नकारः) → जीनः |</big>
<big>'''ल्वादिभ्यः''' (८.२.४४) = ल्वादिगणः इत्यस्मिन् अन्तर्गणीयेभ्यः धातुभ्यः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य नकारादेशो भवति | निष्ठा-संज्ञकप्रत्ययद्वयं भवति— क्त-प्रत्ययः, क्तवतु-प्रत्ययः च | ल्वादिगणे एकविंशतिः धातवः सन्ति | यथा लूञ् छेदने | लू + क्त → लू + त → लू + न → लूनः | कर्तितः इर्यर्थः | क्तवतौ लूनवान् |</big>
<big>अन्यत् उदाहरणं भवति भ्वादौ ह्वेञ्-धातुः | लटि ह्वे + शप् → ह्वय + ति → ह्वयति | आ-उपसर्गपूर्वकः ह्वे लटि च आह्वयति | क्तप्रत्यये परे—</big>
<big>ह्वे + क्त → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणम् → हु + ए + त → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः → हु + त → '''हलः''' (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घत्वम् → हूत | आ-उपसर्गपूर्वकरूपम् आहूत | क्तवतौ पुंसि आहूतवान् |</big>
<big>'''वचिस्वपियजादीनां किति''' (६.१.१५) = वच्, स्वप्, यज्, वप्, वह्, वस्, वद्, वेञ्, ह्वेञ्, श्वि, व्येञ् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम् | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात् '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''वचिस्वपियजादीनां सम्प्रसारणं किति''' |</big>
<big>'''हलः''' (६.४.२) इति सूत्रे 'हलः यदुत्तरं संप्रसारणम्' इति किमर्थम् उक्तम् ? हल्-वर्णः किमर्थं पूर्वं भवेत् ? भ्वादौ वे इत्यस्य वे + क्त → उतः एव | पूर्वस्थितस्य हल्वर्णस्य अभावात् न दीर्घत्वम् | क्तवतौ उतवान् | 'अङ्गावयवात् हलः' इत्यनेन अयं हल्-वर्णः किमर्थं अङ्गस्य अवयवः भवेत् ? निर् + वे + क्त → निरुतम् | रेफः यद्यपि हल्-वर्णः, किन्तु अङ्गस्य अवयवः न, अतः दीर्घादेशो न भवति | 'तदन्तस्याङ्गस्य' दीर्घत्वं किमर्थम् ? व्यध् इत्यस्य विद्धः, व्यच् इत्यस्य विचितः |</big>
<big>
<big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (३.१.१३) = '''ग्रह्''', ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |</big>
<big>ग्रह् + श्ना = ग् + र् + अ + ह् + श्ना → '''ग्रहि ज्या''' (६.१.१६) इत्यनेन सम्प्रसारणम् (र् → ऋ, अकारस्य पूर्वरूपादेशः) → ग् + ऋ + ह् + ना → '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णत्वम् → गृह्णा इति अङ्गम् |</big>
<big>d. <u>ज्ञा-धातुः</u></big>
<big>'''ज्ञाजनोर्जा''' (७.३.७९) = ज्ञा (क्र्यादिगणे), जन् (दिवादिगणे) चेत्यनयोः जा-आदेशो भवति शिति प्रत्यये परे | आदेशः अनेकाल् अतः '''अनेकाल्शित् सर्वस्य''' (१.१.५५) इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | ज्ञाश्च जन् च तयोरितरेतरद्वन्द्वः ज्ञाजनौ, तयोः ज्ञाजनोः | ज्ञाजनोः षष्ठ्यन्तं, जा लुप्तप्रथमाकं पदं, द्विपदमिदं सूत्रम् | '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यस्मात् '''शिति''' इत्यस्य अनुवृतिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ज्ञाजनोः अङ्गस्य जा शिति''' |</big>
<big>'''अनेकाल्शित् सर्वस्य''' (१.१.५५) = आदेशः अनेकाल् (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित् चेत्, सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | (यस्य स्थाने आदेशः आदिष्टः, सः स्थानी |) इदं सूत्रम् '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल् यस्य सः अनेकाल् बहुब्रीहिः; शकारः इत् यस्य सः शित् बहुब्रीहिः; अनेकाल् च शित् च अनेकाल्शित् समाहारद्वन्द्वः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात् '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अनेकाल्शित् सर्वस्य स्थाने''' |</big>
<big>ज्ञा + ना → '''ज्ञाजनोर्जा''' इत्यनेन धात्वादेशः → जा + ना → जाना इत्यङ्गम् |</big>
<big>दिवादिगणे जन् + श्यन् → जा + य → जाय इत्यङ्गम् |</big>
<big>अशिति जा-आदेशः न भवति | ज्ञा + स्यति → ज्ञास्यति | ज्ञा + क्त → ज्ञातः | जन् + स्यते → जनिष्यते | जन् + क्त → '''जनसनखनां सञ्झलोः''' (६.४.४२) इत्यनेन नकारस्य आकारः, सवर्णदीर्घः → जातः |</big>
<big>'''जनसनखनां सञ्झलोः''' (६.४.४२) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्-प्रत्यये परे झलादि-कित्ङित्-प्रत्यये परे च | अनुवृत्ति-सहितसूत्रम्— '''जनसनखनाम् अङ्गानाम् आत् झलि सञ्झलोः क्ङिति''' |</big>
<big>e. <u>अनिदितः धातवः</u> (6 धातवः)</big>
<big>एतावता अस्माभिः दृष्टं यत् धातुः इदित् अस्ति चेत्, तत्र नुमागमस्य प्रसक्तिः | यथा वदि-धातुः इदित् (ह्रस्व-इकारः इत् यस्य सः) अस्ति अतः '''इदितो नुम् धातोः''' (७.१.५८) इति सूत्रेण नुमागमः विहितः | वदि → वद् → वन्द् → वंद् → वन्द् इति भवति | स च नुमागमः नित्यः; न कदापि गच्छति | नाम यदा मूलधातौ नकारः नास्ति (यथा वद् धातौ), अनन्तरं नकारं योजयामः ('''इदितो नुम् धातोः''' इति सूत्रेण), तदा तस्य नकारस्य लोपः न कदापि भवति |</big>
<big>परन्तु मूलधातौ नकारः अस्ति चेत्, तर्हि तस्य लोपः अर्हः | क्र्यादौ एतादृशाः षट् धातवः सन्ति—बन्ध्, श्रन्थ्, मन्थ्, श्रन्थ् (अन्यः), ग्रन्थ्, कुन्थ् च | एते धातवः अनिदितः (ह्रस्व-इकारः इत् येषां नास्ति ते), अतः किति ङिति प्रत्यये परे तेषाम् उपधायां स्थितस्य नकारस्य लोपः भवति | श्ना अपित् अतः '''सार्वधातुकम् अपित्''' इति सूत्रेण् ङिद्वत् भवति |</big>
<big>'''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्-संज्ञा नास्ति, तेषाम् उपधायां नकारः अस्ति चेत्, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात् '''न, लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |</big>
<big>यथा—</big>
<big>
<big>श्रन्थ + श्ना → श्रन्थ् + ना → उपधा-नकारस्य लोपः ङिति परे ('''अनिदितां हल उपधाया क्ङिति''') → श्रथ् + ना → श्रथ्ना इत्यङ्गम्</big>
<big>मन्थ + श्ना → मन्थ् + ना → उपधा-नकारस्य लोपः ङिति परे ('''अनिदितां हल उपधाया क्ङिति''') → मथ् + ना → मथ्ना इत्यङ्गम्</big>
<big>एवमेव</big>
Line 162 ⟶ 186:
<big>कुन्थ + श्ना → → कुथ्ना</big>
<big>क्र्यादिगणे सार्वधातुकलकारेषु सर्वत्र श्ना आयाति | श्ना अपित् अतः ङिद्वत्; तर्हि सार्वधातुकलकारेषु (लट्, लोट्, लङ्, विधिलिङ् इत्येषु) सर्वत्र न-लोपः | यथा लटि बन्ध् + श्ना + ति → बध्नाति | शतृ अपि तथा यतः शतृ शित् अतः सार्वधातुकप्रत्ययः; शतृ सर्वदा कर्त्रर्थे अतः '''कर्तरि शप्''' इत्यनेन शप्, शपं प्रबाध्य श्ना | बन्ध + श्ना + शतृ → बन्ध् + श्ना + अत् → बध्ना + अत् → अजादिषु अपित्सु श्ना-प्रत्ययस्य आकार-लोपः ('''श्नाभ्यस्तयोरातः''' इति सूत्रेण, अधः तृतीये सोपाने पश्यन्तु) → बध्नत् | पुंसि बध्नन् |</big>
<big>आर्धधातुक-प्रत्ययेषु परेषु, कित्त्वात् नलोपः | दृष्टान्ते क्तप्रत्यये परे बन्ध् + क्त → '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) → बद्ध, पुंसि बद्धः | सम् + बन्ध् + क्त → सम्बद्ध, पुंसि सम्बद्धः |</big>
<big>आर्धधातुक-प्रत्ययेषु परेषु (कित्-ङित् इति प्रत्ययान् विहाय) अनिदितां न-लोपः न भवति | यथा बन्ध् + तव्यत् → बन्धव्यम्; बन्ध् + अनीयर् → बन्धनीयम्; बन्ध् + तुमुन् → बन्धुम् |</big>
<big>f. <u>णत्वम्</u></big>
<big>क्र्यादिगणे बहुषु धातुषु रेफः, ऋकारः, षकारः च सन्ति अतः तेभ्यः वर्णेभ्यः नकारस्य णत्वं भवति | '''अट्कुप्वाङ्नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन स्वराः, कवर्गीय-व्यञ्जनानि, पवर्गीय-व्यञ्जनानि, ह-य-व-र, अनुस्वारः च मध्ये सन्ति चेदपि णत्वं भवति |</big>
<big>यथा क्री + ना → क्रीणा; गृह् + ना → गृह्णा | अत्र ऋकार-नकारयोः मध्ये हकारः अस्ति, तथापि नकारस्य णत्वं भवतीति |</big>
<big>'''<u>२. तिङ्संज्ञकप्रत्यय-सिद्धिः</u>'''</big>
<big>अनदन्ताङ्गानां कृते तिङ्प्रत्यय-सिद्धिः जाता एव | यत्र अङ्गम् अनदन्तं, तत्र सर्वेषां धातूनां कृते सिद्ध-तिङ्संज्ञकप्रत्ययाः समानाः इति तु वयं जानीमः | अतः क्र्यादिगणेऽपि सिद्ध-तिङ्प्रत्ययाः एते एव—</big>
<big> <u>परस्मैपदम्</u>
<big>
<big> '''ति'''
<big>
<big> '''मि''' वः मः
<big> <u>लोट्-लकारः</u></big>
<big> '''तु''', तात् ताम् अन्तु ताम् आताम् अताम्</big>
<big> हि, तात् तम् त स्व आथाम् ध्वम्</big>
<big> '''आनि आव आम ऐ आवहै आमहै'''</big>
<big>
<big>
<big> '''स्''' तम् त
<big> '''अम्''' व म इ वहि महि</big>
<big> <u>विधिलिङ्-लकारः</u></big>
<big> यात् याताम् युः ईत ईयाताम् ईरन्</big>
Line 212 ⟶ 248:
<big> याम् याव याम ईय ईवहि ईमहि</big>
<big>'''<u>३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्</u>'''</big>
<big>क्र्यादिगणे यदा अङ्गं निष्पन्नं, तदा सर्वेषां धातूनां कृते कार्यं समानमेव | स्मरन्तु यत् स्वादिगणे तथा नासीत्; तत्र अजन्तधातूनाम् एकः समूहः, हलन्तधातूनाम् अपरः समूहः | तनादिगणेऽपि तादृशविभजनं जातम् | अत्र क्र्यादिगणे सर्वेषां धातूनाम् अङ्गानि समानानि | (केवलम् एकस्मिन् स्थले तादृशं समूहद्वयम् अपेक्षितं यथा स्वादिगणे प्राप्यते; तच्च लोट्-लकारस्य मध्यमपुरुषैकवचने एव | अस्य पाठस्य अन्ते पृथक्तया परिशीलयाम; तत् विहाय सर्वगणः एकैव समूहः |)</big>
<big>यथासामान्यं, यत्र अङ्गम् अनदन्तम्, अत्रापि क्र्यादिगणे सिद्ध-तिङ्प्रत्ययानां भागचतुष्टयम् अस्ति— हलादिपितः, अजादिपितः, हलाद्यपितः, अजाद्यपितः च | किञ्च एतत् भागचतुष्टयम् अवलम्ब्य क्र्यादिगणे कार्यम् किञ्चित् भिन्नं भवति—</big>
Line 222 ⟶ 260:
<big>अजादिषु पित्सु = केवलं सन्धिकार्यम् | क्रीणा + आनि → क्रीणानि</big>
<big>हलादिषु अपित्सु = श्ना-प्रत्ययस्य आकार-स्थाने ई-कारादेशः ('''ई हल्यघोः''' इति सूत्रेण) | क्रीणा + तः → क्रीणीतः</big>
<big>अजादिषु अपित्सु = श्ना-प्रत्ययस्य आकार-लोपः ('''श्नाभ्यस्तयोरातः''' इति सूत्रेण) | क्रीणा + अन्ति → क्रीणन्ति</big>
<big>'''श्नाभ्यस्तयोरातः''' (६.४.११२) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्मात् '''लोपः''', इत्यस्य अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके''' |</big>
<big>अभ्यस्तसंज्ञकम् अङ्गं यथा जुहोत्यादिगणे मा-धातुः → मिमा इति अङ्गम् | मिमा + अते → मिम् + अते → मिमते |</big>
<big>अनेन सूत्रेण न केवलम् अजाद्यपिति अपि तु हलाद्यपिति अपि कार्यं विहितं, किन्तु हलादिषु अपित्सु '''ई हल्यघोः''' इति सूत्रम् एतत् कार्यं प्रबाध्य आकारस्य स्थाने ई-कारादेशं विदधाति |</big>
<big>'''ई हल्यघोः''' (६.४.११३) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ई-कारादेशः भवति, किति ङिति हलादिसार्वधातुकप्रत्यये परे—परन्तु घुसंज्ञक-धातुः चेत्, न भवति (घुसंज्ञक-धातुः नाम दा धा च धातू) | न घुः अघुः, तस्य अघोः | ई लुप्तप्रथमाकं पदं, हलि सप्तम्यन्तम्, अघोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यस्मात् '''श्नाभ्यस्तयोः''', '''आतः''' चेत्यनयोः अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः; '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य श्नाभ्यस्तयोः आतः ई क्ङिति हलि सार्वधातुके अघोः''' |</big>
<big>अभ्यस्तसंज्ञकम् अङ्गं यथा जुहोत्यादिगणे मा-धातुः → मिमा इति अङ्गम् | मिमा + ते → मिमीते |</big>
<big>A. <u>परस्मैपदे लट्</u>— (स्थूलाक्षरैः लिखिताः प्रत्ययाः पितः इति | अन्ये अपितः |)</big>
<big>
<big>'''सि''', थः, थ</big>
<big>'''मि''', वः, मः</big>
<big><u>परस्मैपदे लटि क्री धातुः</u></big>
<big>क्रीञ् + श्ना → क्री + ना → क्रीणा इत्यङ्गम् | अधः सर्वत्र क्रीणा इत्यङ्गम् अधिकृत्य कार्यम् अग्रे सरति |</big>
<big>क्रीणा + '''ति''' →</big>
<big>क्रीणा + तः →</big>
Line 254 ⟶ 299:
<big>क्रीणा + अन्ति →</big>
<big>क्रीणा + '''सि''' →</big>
<big>क्रीणा + थः →</big>
Line 260 ⟶ 305:
<big>क्रीणा + थ →</big>
<big>क्रीणा + '''मि''' →</big>
<big>क्रीणा + वः →</big>
Line 266 ⟶ 311:
<big>क्रीणा + मः →</big>
<big>B. <u>आत्मनेपदे लट्</u>—</big>
<big>ते आते अते</big>
Line 274 ⟶ 320:
<big>ए वहे महे</big>
<big><u>आत्मनेपदे लटि क्री धातुः</u></big>
<big>क्रीञ् + श्ना → क्री + ना → क्रीणा इत्यङ्गम् | अधः सर्वत्र क्रीणा इत्यङ्गं स्वीकृत्य कार्यम् अग्रे सरति |</big>
<big>क्रीणा + ते →</big>
Line 296 ⟶ 344:
<big>क्रीणा + महे →</big>
<big>'''आदेशप्रत्यययोः''' (८.३.५९) = इण्-प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्, तर्हि तस्य सकारस्य स्थाने षकारादेशो भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्, ठ्, ड्, ढ्, ण्, ष् इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्, अतः षकारः एव आदिष्टः भवति | नुम्, विसर्गः, शर्-प्रत्याहारस्थ-वर्णः च मध्ये सन्ति चेत् अपि कार्यं भवति | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम् एकपदमिदं सूत्रम् | '''सहे साडः सः''' (८.३.५६) इत्यस्मात् '''सः''' इत्यस्य अनुवृत्तिः | '''नुंविसर्जनीयशर्व्यवायेऽपि''' (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | '''इण्कोः''' (८.३.५७), '''अपदान्तस्य मूर्धन्यः''' (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि''' |</big>
<big>C. <u>विशेषः — हि-प्रत्ययः</u></big>
<big>अत्र, लोट्-लकारस्य मध्यमपुरुषैकवचने, धातूनां समूहद्वयं वर्तते, हलन्तधातवः अजन्तधातवः च | अजन्तधातवः सामान्याः, हलन्तधातवः अपवादभूताः च |</big>
<big>धातुः अजन्तः चेत्, सामान्यक्रमः | हि-प्रत्ययः हलाद्यपित् ('''सेर्ह्यपिच्च''' इति सूत्रेण) |</big>
<big>यथा—</big>
<big>क्रीणा + हि → हलादिषु अपित्सु श्ना-प्रत्ययस्य आकार-स्थाने ई-कारादेशः ('''ई हल्यघोः''' इति सूत्रेण) → क्रीणी + हि → क्रीणीहि |</big>
<big>तथैव ज्ञा → जानीहि, मी → मीनीहि, प्री → प्रीणीहि, द्रू → द्रूणीहि, वृ → वृणीहि |</big>
Line 312 ⟶ 364:
<big>परन्तु हौ परे हलन्तधातुपूर्वकः यः श्ना, तस्य स्थाने शानच्-आदेशः भवति; अनुबन्ध-लोपे आन इति आदेशः |</big>
<big>'''हलः श्नः शानज्झौ''' (३.१.८३) = हलुत्तरस्य श्ना-स्थाने शानच्-आदेशः भवति, हि-प्रत्यये परे | शानच् इत्यस्मिन् शकारलोपः '''लशक्वतद्धिते''' इति सूत्रेण, चकारलोपः '''हलन्त्यम्''' इति सूत्रेण, आन अवशिष्यते | '''झलां जशोऽन्ते''' (८.२.३९), '''झयो होऽन्यतरस्याम्''' (८.४.६२) [झयः उत्तरस्य हकारस्य पूर्वसवर्णादेशः] इत्याभ्यां शानच् + हौ → शानज्झौ | हलः पञ्चम्यन्तं, श्नः षष्ठ्यन्तं, शानच् प्रथमान्तम्, हौ सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''हलः श्नः शानच् हौ''' |</big>
<big>धेयं यत् क्र्यादिगणे अङ्गम् अनदन्तम्, अतः हि-लोपः न भवति | परन्तु यदा श्ना-स्थाने शानच् आदेशः भवति, तदा अङ्गम् अदन्तं जातम् यतः शानच् (आन) अकारान्तः प्रत्ययः | अतः 'आन' इत्यस्य योजनेन हि-लोपः (लुक्) भवति |</big>
<big>ग्रह् + श्ना + हि → ङिति सम्प्रसारणम् → गृह् + ना + हि → गृह्णा + हि → श्ना-स्थाने शानच् (आन) → गृह् + आन + हि → णत्वम् → गृहाण + हि → अङ्गम् अदन्तम् अतः हि लोपः ('''अतो हेः''' इति सूत्रेण) → गृहाण</big>
<big>'''अतो हेः''' (६.४.१०५) = ह्रस्व-अकारात् अङ्गात् परस्य हि इत्यस्य लुक् (लोपः) भवति | अतः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''चिणो लुक्''' (६.४.१०४) इत्यस्मात् '''लुक्''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः (अत्र '''अङ्गात्''' भवति विभक्तिपरिणाम इति सिद्धान्तेन) | अनुवृत्ति-सहितसूत्रम्— '''अतः अङ्गात् हेः लुक्''' |</big>
<big>यथा मुष् + श्ना + हि → मुष्णा + हि → ना-स्थाने आन → मुष् + आन + हि → मुषाण</big>
Line 335 ⟶ 390:
<big>कुथ्ना + हि → कुथान</big>
<big>इति क्र्यादिगणस्य समग्रं चिन्तनम् | अधुना क्र्यादिगणीयेषु यः कोऽपि भवतु नाम, सार्वधातुकलकारेषु वयं सर्वाणि रूपाणि जानिमः |</big>
<big>
<big><u>अजन्तधातवः</u> [36 धातवः]</big>
<big>सामान्याः अजन्तधातवः [13 धातवः]</big>
<big>औपदेशिकधातुः/अनुबन्धरहितधातुः/अङ्गम्/लट्लकाररूपम्</big>
Line 371 ⟶ 430:
<big>वृङ् सम्भक्तौ वृ वृणा वृणीते</big>
<big>विशेषाः अजन्तधातवः [23 धातवः]</big>
<big>प्वादि-अन्तर्गणः [22 धातवः]</big>
<big>पूञ् पवने पू पुना पुनाति/पुनीते</big>
Line 422 ⟶ 483:
<big>इति प्वादि-अन्तर्गणः समाप्तः</big>
<big>ज्ञा अवबोधने ज्ञा जाना जानाति/जानीते ['''ज्ञाजनोर्जा''' (७.३.७९) इत्यनेन ज्ञा, जन्-धात्वोः जा-आदेशः शिति परे]</big>
<big><u>हलन्तधातवः</u> [25 धातवः]</big>
<big>सामान्याः हलन्तधातवः [18 धातवः]</big>
<big>खच भूतप्रादुर्भावे खच् खच्ञा खच्ञाति</big>
Line 466 ⟶ 530:
<big> उध्रस् उध्रस्ना उध्रस्नाति</big>
<big><u>सम्प्रसारणी धातुः</u></big>
<big>ग्रह उपादाने ग्रह् गृह्णा गृह्णाति</big>
<big><u>अनिदित्-धातवः</u> [6 धातवः]</big>
<big>बन्ध बन्धने बन्ध् बध्ना बध्नाति</big>
Line 483 ⟶ 549:
<big>कुन्थ संश्लेषणे कुन्थ् कुथ्ना कुथ्नाति</big>
<big>इति क्र्यादिगणे समग्रं तिङ्-सम्बद्धं सार्वधातुकप्रकरण-चिन्तनं समाप्तम् |</big>
<big>Swarup – July 2013 (Updated November 2015)<br /></big>
<nowiki>------------------------------</nowiki>
<big>[https://static.miraheze.org/samskritavyakaranamwiki/c/c8/%E0%A5%AA_-_%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83_%28c%29.pdf File:४ - क्र्यादिगणः (c).pdf] (92k)Swarup Bhai, Mar 31, 2019, 7:54 AM v.1</big>
|