6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH (view source)
Revision as of 18:31, 16 May 2021
, 3 years agono edit summary
No edit summary |
No edit summary |
||
Line 1:
<big>ध्वनिमुद्रणानि--</big>
Line 170 ⟶ 172:
<big>'''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्-संज्ञा नास्ति, तेषाम् उपधायां नकारः अस्ति चेत्, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात् '''न, लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |</big>
<big>यथा—</big>
Line 179 ⟶ 183:
<big>मन्थ + श्ना → मन्थ् + ना → उपधा-नकारस्य लोपः ङिति परे ('''अनिदितां हल उपधाया क्ङिति''') → मथ् + ना → मथ्ना इत्यङ्गम्</big>
<big>एवमेव</big>
Line 212 ⟶ 217:
<big> <u>लट्-लकारः</u></big>
<big> '''ति''' तः अन्ति ते आते अते</big>
<big> '''सि''' थः थ से आथे ध्वे</big>
Line 224 ⟶ 229:
<big> '''तु''', तात् ताम् अन्तु ताम् आताम् अताम्</big>
<big>
<big> '''आनि आव आम
Line 232 ⟶ 237:
<big> <u>लङ्-लकारः</u></big>
<big> '''त्''' ताम् अन् त आताम् अत</big>
<big> '''स्''' तम्
<big> '''अम्''' व
Line 250 ⟶ 255:
<big>'''<u>३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्</u>'''</big>
<big>क्र्यादिगणे यदा अङ्गं निष्पन्नं, तदा सर्वेषां धातूनां कृते कार्यं समानमेव | स्मरन्तु यत् स्वादिगणे तथा नासीत्; तत्र अजन्तधातूनाम् एकः समूहः, हलन्तधातूनाम् अपरः समूहः | तनादिगणेऽपि तादृशविभजनं जातम् | अत्र क्र्यादिगणे सर्वेषां धातूनाम् अङ्गानि समानानि | (केवलम् एकस्मिन् स्थले तादृशं समूहद्वयम् अपेक्षितं यथा स्वादिगणे प्राप्यते; तच्च लोट्-लकारस्य मध्यमपुरुषैकवचने एव | अस्य पाठस्य अन्ते पृथक्तया परिशीलयाम; तत् विहाय सर्वगणः एकैव समूहः |)</big>
Line 266 ⟶ 273:
<big>'''श्नाभ्यस्तयोरातः''' (६.४.११२) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्मात् '''लोपः''', इत्यस्य अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके''' |</big>
<big>अभ्यस्तसंज्ञकम् अङ्गं यथा जुहोत्यादिगणे मा-धातुः → मिमा इति अङ्गम् | मिमा + अते → मिम् + अते → मिमते |</big>
Line 274 ⟶ 283:
<big>'''ई हल्यघोः''' (६.४.११३) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ई-कारादेशः भवति, किति ङिति हलादिसार्वधातुकप्रत्यये परे—परन्तु घुसंज्ञक-धातुः चेत्, न भवति (घुसंज्ञक-धातुः नाम दा धा च धातू) | न घुः अघुः, तस्य अघोः | ई लुप्तप्रथमाकं पदं, हलि सप्तम्यन्तम्, अघोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यस्मात् '''श्नाभ्यस्तयोः''', '''आतः''' चेत्यनयोः अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः; '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य श्नाभ्यस्तयोः आतः ई क्ङिति हलि सार्वधातुके अघोः''' |</big>
<big>अभ्यस्तसंज्ञकम् अङ्गं यथा जुहोत्यादिगणे मा-धातुः → मिमा इति अङ्गम् | मिमा + ते → मिमीते |</big>
Line 289 ⟶ 300:
<big><u>परस्मैपदे लटि क्री धातुः</u></big>
<big>क्रीञ् + श्ना → क्री + ना → क्रीणा इत्यङ्गम् | अधः सर्वत्र क्रीणा इत्यङ्गम् अधिकृत्य कार्यम् अग्रे सरति |</big>
Line 322 ⟶ 335:
<big><u>आत्मनेपदे लटि क्री धातुः</u></big>
<big>क्रीञ् + श्ना → क्री + ना → क्रीणा इत्यङ्गम् | अधः सर्वत्र क्रीणा इत्यङ्गं स्वीकृत्य कार्यम् अग्रे सरति |</big>
Line 349 ⟶ 364:
<big>C. <u>विशेषः — हि-प्रत्ययः</u></big>
<big>अत्र, लोट्-लकारस्य मध्यमपुरुषैकवचने, धातूनां समूहद्वयं वर्तते, हलन्तधातवः अजन्तधातवः च | अजन्तधातवः सामान्याः, हलन्तधातवः अपवादभूताः च |</big>
<big>धातुः अजन्तः चेत्, सामान्यक्रमः | हि-प्रत्ययः हलाद्यपित् ('''सेर्ह्यपिच्च''' इति सूत्रेण) |</big>
<big>यथा—</big>
Line 361 ⟶ 379:
<big>तथैव ज्ञा → जानीहि, मी → मीनीहि, प्री → प्रीणीहि, द्रू → द्रूणीहि, वृ → वृणीहि |</big>
<big>परन्तु हौ परे हलन्तधातुपूर्वकः यः श्ना, तस्य स्थाने शानच्-आदेशः भवति; अनुबन्ध-लोपे आन इति आदेशः |</big>
|