6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH: Difference between revisions

no edit summary
m (Protected "04A - क्र्यादिगणः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 137:
 
 
<big>'''हलः''' (६.४.२) इति सूत्रे 'हलः यदुत्तरं संप्रसारणम्‌' इति किमर्थम्‌ उक्तम्‌ ? हल्‌-वर्णः किमर्थं पूर्वं भवेत्‌ ? भ्वादौ वे इत्यस्य वे + क्त → उतः एव | पूर्वस्थितस्य हल्‌वर्णस्य अभावात्‌ न दीर्घत्वम्‌ | क्तवतौ उतवान्‌ | 'अङ्गावयवात्‌ हलः' इत्यनेन अयं हल्‌-वर्णः किमर्थं अङ्गस्य अवयवः भवेत्‌ ? निर्‍निर् + वे + क्त → निरुतम्‌ | रेफः यद्यपि हल्‌-वर्णः, किन्तु अङ्गस्य अवयवः न, अतः दीर्घादेशो न भवति | 'तदन्तस्याङ्गस्य' दीर्घत्वं किमर्थम्‌ ? व्यध्‌ इत्यस्य विद्धः, व्यच्‌ इत्यस्य विचितः |</big>
 
 
Line 146:
 
 
<big>ग्रह्‌ + श्ना = ग्‌ + र्‍र् + अ + ह्‌ + श्ना → '''ग्रहि ज्या''' (६.१.१६) इत्यनेन सम्प्रसारणम्‌ (र्‍र् → ऋ, अकारस्य पूर्वरूपादेशः) → ग् + ऋ + ह्‌ + ना → '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णत्वम्‌ → गृह्णा इति अङ्गम्‌ |</big>
 
 
Line 202:
 
 
<big>आर्धधातुक-प्रत्ययेषु परेषु (कित्‌-ङित् इति प्रत्ययान्‌ विहाय) अनिदितां न-लोपः न भवति | यथा बन्ध्‌ + तव्यत्‌ → बन्धव्यम्‌; बन्ध्‌ + अनीयर्‍अनीयर् → बन्धनीयम्‌; बन्ध्‌ + तुमुन्‌ → बन्धुम्‌ |</big>
 
 
Line 362:
 
 
<big>'''आदेशप्रत्यययोः''' (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तर्हि तस्य सकारस्य स्थाने षकारादेशो भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्‍शर्-प्रत्याहारस्थ-वर्णः च मध्ये सन्ति चेत्‌ अपि कार्यं भवति | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''सहे साडः सः''' (८.३.५६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''नुंविसर्जनीयशर्व्यवायेऽपि''' (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्‌''' इत्यस्य अधिकारः | '''इण्कोः''' (८.३.५७), '''अपदान्तस्य मूर्धन्यः''' (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि''' |</big>
 
 
page_and_link_managers, Administrators
5,097

edits