04A - क्र्यादिगणः
6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH
क्र्यादिगणे ६१ धातवः
क्र्यादिगणे ६१ धातवः सन्ति | अस्य गणस्य तिङन्तरूपाणि अपि जनेभ्यः भ्रमात्मकानि | परन्तु यथा स्वादिगणे तनादिगणे च, अत्रापि रूपसिद्धिः दुष्करा न अपितु अत्यन्तं तर्कपूर्णा | सा च रूपसिद्धिः ज्ञायते चेत्, अयं गणः नैव कष्टकरः |
क्र्यादिभ्यः श्ना (३.१.८१)
क्र्यादिभ्यः श्ना (३.१.८१) इति सूत्रेण श्ना इति विकरणप्रत्ययः विहितः | लशक्वतद्धिते (१.३.८) इत्यनेन शकारस्य इत्-संज्ञा, तस्य लोपः (१.३.९) इत्यनेन लोपः | ना इति अवशिष्यते |
क्र्यादिभ्यः श्ना (३.१.८१) = क्र्यादिगणे स्थितेभ्यः धातुभ्यः श्ना-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | कर्तरि शप् (३.१.६८) इत्यस्य अपवादः | क्रीः आदिर्येषां ते, क्र्यादयः बहुव्रीहिः, तेभ्यः क्र्यादिभ्यः | क्र्यादिभ्यः पञ्चम्यन्तं, श्ना प्रथमान्तं, द्विपदमिदं सूत्रम् | कर्तरि शप् (३.१.६८) इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः; सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः; धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— क्र्यादिभ्यः धातुभ्यः श्ना प्रत्ययः परश्च कर्तरि सार्वधातुके |
श्ना शित् अतः तिङ्शित्सार्वधातुकम् (३.४.११३) इत्यनेन सार्वधातुकप्रत्ययः | अतः सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा क्री + ना इति स्थितौ | पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा विष् + ना इति स्थितौ | परन्तु श्ना अपित् अतः सार्वधातुकमपित् (१.२.४) इति सूत्रेण ङिद्वत्; तदर्थं क्क्ङिति च (१.१.५) इत्यनेन उभयत्र गुण-निषेधः |
तिङन्तानां निर्माणार्थं त्रीणि सोपानानि
यथा पूर्वतनेषु गणेषु, अत्रापि सार्वधातुकलकारेषु तिङन्तानां निर्माणार्थं त्रीणि सोपानानि सन्ति—
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्
२. तिङ्प्रत्यय-सिद्धिः
३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्
सामान्यधातवः
अपित्त्वात् गुणनिषेधः इत्यनेन कारणेन प्रथमसोपाने सामान्यधातुषु किमपि कार्यं नास्ति |
अजन्तधातवः—
इकारान्तधातवः सि + ना → सिना
उकारान्तधातवः यु + ना → युना
ऋकारान्तधातवः वृ + ना → वृणा
हलन्तधातवः—
इदुपधधातवः क्लिश् + ना → क्लिश्ना
उदुपधधातवः गुध् + ना → गुध्ना
ऋदुपधधातवः मृद् + ना → मृद्ना
शेषधातवः खच् + ना → खच्ञा
अश् + ना → अश्ना
विशेषधातवः
परन्तु क्र्यादिगणे विशेषधातवः अपि सन्ति, येषां प्रथमसोपाने अङ्गकार्यं भवति |
a. प्वादिगणः
प्वादिगणे चतुर्विंशतिः धातवः सन्ति; एषां निरनुबन्धरूपाणि इमानि— पू, लू, धू, ज्या, री, ली व्ली, प्ली, स्तॄ, कॄ, वॄ, शॄ, पॄ, वॄ, भॄ, मॄ, दॄ, जॄ, झॄ, धॄ, नॄ, कॄ, ॠ, गॄ | एते सर्वे धातवः क्र्यादिगणे सन्ति | प्वादीनां ह्रस्वः (७.३.८०) इति सूत्रेण धातौ स्थितस्य स्वरस्य ह्रस्वत्वं भवति शिति परे | श्ना शित् अस्ति अतः श्ना-प्रत्यये परे धातुस्थ-स्वरस्य ह्रस्वत्वम् | यथा पू + ना → पुना, ली + ना → लिना, स्तॄ + ना → स्तृणा |
प्वादीनां ह्रस्वः (७.३.८०)
प्वादीनां ह्रस्वः (७.३.८०) = पूञ्, लूञ्, धूञ्, ज्या, री, ली व्ली, प्ली, स्तॄञ्, कॄञ्, वॄ, शॄ, पॄ, वॄञ्, भॄ, मॄ, दॄ, जॄ, झॄ, धॄञ्, नॄ, कॄ, ॠ, गॄ, एषां धातूनां ह्रस्वत्वं भवति शिति प्रत्यये परे | पूः आदिर्येषां ते, प्वादयः बहुव्रीहिः, तेषां प्वादीनाम् | येन विधिस्तदन्तस्य (१.१.७२), अलोऽन्त्यस्य (१.१.५२), अचश्च (१.२.२८) इत्येभिः सूत्रैः एषां धातूनाम् अन्तिमस्वरस्य ह्रस्वादेशो भवति | प्वादीनां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | ष्ठिवुक्लमुचमां शिति (७.३.३५) इत्यस्मात् शिति इत्यस्य अनुवृतिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— प्वादीनाम् अचः अङ्गस्य ह्रस्वः शिति |
अचश्च (१.२.२८) = यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र अचः इति षष्ठ्यन्तं पदम् आगत्य उपस्थितं भवति | परिभाषासूत्रम् | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | ऊकालोऽज्झ्रस्वदीर्घप्लुतः (१.२.२७) इत्यस्मात् अच्, ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, ह्रस्वदीर्घप्लुतैः (शब्दैः) | अनुवृत्ति-सहितसूत्रम्— ह्रस्वदीर्घप्लुतैः अचः च अच् |
अलोऽन्त्यस्य (१.१.५२) = षष्ठीविभक्ति-द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्-वर्णस्य स्थाने भवति | परिभाषासूत्रम् | अलः षष्ठ्यन्तम्, अन्त्यस्य षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | षष्ठी स्थानेयोगा (१.१.४९) इत्यस्मात् षष्ठी, स्थाने इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— षष्ठ्या अन्त्यस्य अलः स्थाने (विद्यमानः आदेशः) |
अत्र धेयं यत् यः प्रत्ययः परोऽस्ति सः शित् नास्ति चेत्, स्वरस्य ह्रस्वत्वं न भवति | अतः कर्मणि सार्वधातुके यक् (३.१.६७) इत्यनेन यक् कृत्वा लटि पूयते, क्तान्ते क्त-प्रत्ययेन पूनः, क्तवतौ क्तवतु- प्रत्ययेन पूनवान् |
b. सम्प्रसारणम्— ज्या-धातुः
ज्या-धातुः प्वादिगणे अन्तर्भूतः, किन्तु सम्प्रसारणी धातुः अपि अस्ति, अतः अत्र विशेषः |
सम्प्रसारणम्—
ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |
इग्यणः सम्प्रसारणम् (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— यणः इक् सम्प्रसारणम् |
सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७७) इत्यस्मात् अचि, अमि पूर्वः (६.१.१०७) इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्— सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |
यथा ज्या → ज् + य् + आ → ग्रहि ज्या (६.१.१६) इत्यनेन यकारस्य स्थाने इ-आदेशः → जि + आ → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः एकः पूर्वरूपादेशः → जि
सम्प्रसारणं तदाश्रयं च कार्यं बलवत् इति परिभाषायाः बलेन प्रथमं सम्प्रसारणकार्यं, तदाश्रयं च कार्यं भवति | अतः ग्रहि ज्या (६.१.१६) इत्यनेन सम्प्रसारणकार्यं प्रथमं भवति, अनन्तरं तत्सम्बद्धं कार्यं सम्प्रसारणाच्च (६.१.१०८), हलः (६.४.२) चेति भवति | तत्पश्चादेव प्वादीनां ह्रस्वः (७.३.८०) इत्यनेन शिति परे प्वादीनां ह्रस्वत्वम् |
श्ना प्रत्ययः शित् अपि च पित्-भिन्नत्वात् ङिद्वत् (सार्वधातुकम् अपित् इत्यनेन) | ग्रहि ज्या (६.१.१६) इत्यनेन "ज्या ... ङिति" सम्प्रसारणम् | अतः ज्या + ना → सम्प्रसारणम् → जि + ना → हलः (६.४.२) इत्यनेन सम्प्रसारणस्य दीर्घत्वम् → जी + ना → प्वादीनां ह्रस्वः (७.३.८०) इत्यनेन शिति परे प्वादीनां ह्रस्वत्वम् → जि + ना → जिना
हलः (६.४.२) = अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्-वर्णः अङ्गस्य अवयवः, तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः | सम्प्रसारणस्य (६.३.१३९) इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हलः सम्प्रसारणस्य अङ्गस्य दीर्घः |
अत्र यः इकारः दीर्घः जातः (जि → जी), सः पुनः ह्रस्वः अभवत् (जी → जि) | तर्हि दीर्घत्वस्य फलं किम् ? यत्र परो यः प्रत्ययः अस्ति सः शित् नास्ति, तत्र प्वादीनां ह्रस्वः इत्यस्य प्रसक्तिः नास्ति | अतः दीर्घत्वं तिष्ठति एव—यथा क्त प्रत्ययः | ज्या + क्त → ग्रहि ज्या (६.१.१६) इत्यनेन "ज्या ... ङिति" सम्प्रसारणम् → जि + त → हलः (६.४.२) इत्यनेन सम्प्रसारणस्य दीर्घत्वम् → जी + त → (ल्वादिभ्यः (८.२.४४) इत्यनेन तकारस्य स्थाने नकारः) →जीत → जीनः |
ल्वादिभ्यः (८.२.४४) = ल्वादिगणः इत्यस्मिन् अन्तर्गणीयेभ्यः धातुभ्यः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य नकारादेशो भवति | निष्ठा-संज्ञकप्रत्ययद्वयं भवति— क्त-प्रत्ययः, क्तवतु-प्रत्ययः च | ल्वादिगणे एकविंशतिः धातवः सन्ति | यथा लूञ् छेदने | लू + क्त → लू + त → लू + न → लून → लूनः | कर्तितः इर्यर्थः | क्तवतौ लूनवान् |
अन्यत् उदाहरणं भवति भ्वादौ ह्वेञ्-धातुः | लटि ह्वे + शप् → ह्वय + ति → ह्वयति | आ-उपसर्गपूर्वकः ह्वे लटि च आह्वयति | क्तप्रत्यये परे—
ह्वे + क्त → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणम् → हु + ए + त → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः → हु + त → हलः (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घत्वम् → हूत → हूतः | आ-उपसर्गपूर्वकरूपम् आहूत | क्तवतौ पुंसि आहूतवान् |
वचिस्वपियजादीनां किति (६.१.१५) = वच्, स्वप्, यज्, वप्, वह्, वस्, वद्, वेञ्, ह्वेञ्, श्वि, व्येञ् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम् | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— वचिस्वपियजादीनां सम्प्रसारणं किति |
हलः (६.४.२) इति सूत्रे 'हलः यदुत्तरं संप्रसारणम्' इति किमर्थम् उक्तम् ? हल्-वर्णः किमर्थं पूर्वं भवेत् ? भ्वादौ वे इत्यस्य वे + क्त → उत → उतः एव | पूर्वस्थितस्य हल्वर्णस्य अभावात् न दीर्घत्वम् | क्तवतौ उतवान् | 'अङ्गावयवात् हलः' इत्यनेन अयं हल्-वर्णः किमर्थं अङ्गस्य अवयवः भवेत् ? निर् + वे + क्त → निरुत → निरूतम् | रेफः यद्यपि हल्-वर्णः, किन्तु अङ्गस्य अवयवः न, अतः दीर्घादेशो न भवति | 'तदन्तस्याङ्गस्य' दीर्घत्वं किमर्थम् ? व्यध् इत्यस्य विद्धः, व्यच् इत्यस्य विचितः |
c. सम्प्रसारणम्— ग्रह्-धातुः
ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (३.१.१६) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |
ग्रह् + श्ना = ग् + र् + अ + ह् + श्ना → ग्रहि ज्या (६.१.१६) इत्यनेन सम्प्रसारणम् (र् → ऋ, अकारस्य पूर्वरूपादेशः) → ग् + ऋ + ह् + ना → अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) इत्यनेन णत्वम् → गृह्णा इति अङ्गम् |
d. ज्ञा-धातुः
ज्ञाजनोर्जा (७.३.७९) = ज्ञा (क्र्यादिगणे), जन् (दिवादिगणे) चेत्यनयोः जा-आदेशो भवति शिति प्रत्यये परे | आदेशः अनेकाल् अतः अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | ज्ञाश्च जन् च तयोरितरेतरद्वन्द्वः ज्ञाजनौ, तयोः ज्ञाजनोः | ज्ञाजनोः षष्ठ्यन्तं, जा लुप्तप्रथमाकं पदं, द्विपदमिदं सूत्रम् | ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यस्मात् शिति इत्यस्य अनुवृतिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ज्ञाजनोः अङ्गस्य जा शिति |
अनेकाल्शित् सर्वस्य (१.१.५५) = आदेशः अनेकाल् (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित् चेत्, सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | (यस्य स्थाने आदेशः आदिष्टः, सः स्थानी |) इदं सूत्रम् अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल् यस्य सः अनेकाल् बहुव्रीहिः; शकारः इत् यस्य सः शित् बहुव्रीहिः; अनेकाल् च शित् च अनेकाल्शित् समाहारद्वन्द्वः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अनेकाल्शित् सर्वस्य स्थाने |
ज्ञा + ना → ज्ञाजनोर्जा इत्यनेन धात्वादेशः → जा + ना → जाना इत्यङ्गम् |
दिवादिगणे जन् + श्यन् → जा + य → जाय इत्यङ्गम् |
अशिति जा-आदेशः न भवति | ज्ञा + स्यति → ज्ञास्यति | ज्ञा + क्त → ज्ञात → ज्ञातः | जन् + स्यते → जनिष्यते | जन् + क्त → जनसनखनां सञ्झलोः (६.४.४२) इत्यनेन नकारस्य आकारः, सवर्णदीर्घः → जात → जातः |
जनसनखनां सञ्झलोः (६.४.४२) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्-प्रत्यये परे झलादि-कित्ङित्-प्रत्यये परे च | अनुवृत्ति-सहितसूत्रम्— जनसनखनाम् अङ्गानाम् आत् झलि सञ्झलोः क्ङिति |
e. अनिदितः धातवः (6 धातवः)
एतावता अस्माभिः दृष्टं यत् धातुः इदित् अस्ति चेत्, तत्र नुमागमस्य प्रसक्तिः | यथा वदि-धातुः इदित् (ह्रस्व-इकारः इत् यस्य सः) अस्ति अतः इदितो नुम् धातोः (७.१.५८) इति सूत्रेण नुमागमः विहितः | वदि → वद् → वन्द् → वंद् → वन्द् इति भवति | स च नुमागमः नित्यः; न कदापि गच्छति | नाम यदा मूलधातौ नकारः नास्ति (यथा वद् धातौ), अनन्तरं नकारं योजयामः (इदितो नुम् धातोः इति सूत्रेण), तदा तस्य नकारस्य लोपः न कदापि भवति |
परन्तु मूलधातौ नकारः अस्ति चेत्, तर्हि तस्य लोपः अर्हः | क्र्यादौ एतादृशाः षट् धातवः सन्ति—बन्ध्, श्रन्थ्, मन्थ्, श्रन्थ् (अन्यः), ग्रन्थ्, कुन्थ् च | एते धातवः अनिदितः (ह्रस्व-इकारः इत् येषां नास्ति ते), अतः किति ङिति प्रत्यये परे तेषाम् उपधायां स्थितस्य नकारस्य लोपः भवति | श्ना अपित् अतः सार्वधातुकम् अपित् इति सूत्रेण् ङिद्वत् भवति |
अनिदितां हल उपधायाः क्ङिति (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्-संज्ञा नास्ति, तेषाम् उपधायां नकारः अस्ति चेत्, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | श्नान्नलोपः (६.४.२३) इत्यस्मात् न, लोपः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति |
यथा—
बन्धँ + श्ना → बन्ध् + ना → उपधा-नकारस्य लोपः ङिति परे (अनिदितां हल उपधायाः क्ङिति) → बध् + ना → बध्ना इत्यङ्गम्
श्रन्थँ + श्ना → श्रन्थ् + ना → उपधा-नकारस्य लोपः ङिति परे (अनिदितां हल उपधायाः क्ङिति) → श्रथ् + ना → श्रथ्ना इत्यङ्गम्
मन्थँ + श्ना → मन्थ् + ना → उपधा-नकारस्य लोपः ङिति परे (अनिदितां हल उपधायाः क्ङिति) → मथ् + ना → मथ्ना इत्यङ्गम्
एवमेव
ग्रन्थँ + श्ना → → ग्रथ्ना
कुन्थँ + श्ना → → कुथ्ना
क्र्यादिगणे सार्वधातुकलकारेषु सर्वत्र श्ना आयाति | श्ना अपित् अतः ङिद्वत्; तर्हि सार्वधातुकलकारेषु (लट्, लोट्, लङ्, विधिलिङ् इत्येषु) सर्वत्र न-लोपः | यथा लटि बन्ध् + श्ना + ति → बध्नाति | शतृ अपि तथा यतः शतृ शित् अतः सार्वधातुकप्रत्ययः; शतृ सर्वदा कर्त्रर्थे अतः कर्तरि शप् इत्यनेन शप्, शपं प्रबाध्य श्ना | बन्ध + श्ना + शतृ → बन्ध् + श्ना + अत् → बध्ना + अत् → अजादिषु अपित्सु श्ना-प्रत्ययस्य आकार-लोपः (श्नाभ्यस्तयोरातः इति सूत्रेण, अधः तृतीये सोपाने पश्यन्तु) → बध्नत् | पुंसि बध्नन् |
आर्धधातुक-प्रत्ययेषु परेषु, कित्त्वात् नलोपः | दृष्टान्ते क्तप्रत्यये परे बन्ध् + क्त → अनिदितां हल उपधायाः क्ङिति (६.४.२४) → बद्ध, पुंसि बद्धः | सम् + बन्ध् + क्त → सम्बद्ध, पुंसि सम्बद्धः |
आर्धधातुक-प्रत्ययेषु परेषु (कित्-ङित् इति प्रत्ययान् विहाय) अनिदितां न-लोपः न भवति | यथा बन्ध् + तव्यत् → बन्धव्य → बन्धव्यम्; बन्ध् + अनीयर् → बन्धनीय → बन्धनीयम्; बन्ध् + तुमुन् → बन्धुम् |
f. णत्वम्
क्र्यादिगणे बहुषु धातुषु रेफः, ऋकारः, षकारः च सन्ति अतः तेभ्यः वर्णेभ्यः नकारस्य णत्वं भवति | अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) इत्यनेन स्वराः, कवर्गीय-व्यञ्जनानि, पवर्गीय-व्यञ्जनानि, ह-य-व-र, अनुस्वारः च मध्ये सन्ति चेदपि णत्वं भवति |
यथा क्री + ना → क्रीणा; गृह् + ना → गृह्णा | अत्र ऋकार-नकारयोः मध्ये हकारः अस्ति, तथापि नकारस्य णत्वं भवतीति |
२. तिङ्संज्ञकप्रत्यय-सिद्धिः
अनदन्ताङ्गानां कृते तिङ्प्रत्यय-सिद्धिः जाता एव | यत्र अङ्गम् अनदन्तं, तत्र सर्वेषां धातूनां कृते सिद्ध-तिङ्संज्ञकप्रत्ययाः समानाः इति तु वयं जानीमः | अतः क्र्यादिगणेऽपि सिद्ध-तिङ्प्रत्ययाः एते एव—
परस्मैपदम् आत्मनेपदम्
लट्-लकारः
ति तः अन्ति ते आते अते
सि थः थ से आथे ध्वे
मि वः मः ए वहे महे
लोट्-लकारः
तु, तात् ताम् अन्तु ताम् आताम् अताम्
हि, तात् तम् त स्व आथाम् ध्वम्
आनि आव आम ऐ आवहै आमहै
लङ्-लकारः
त् ताम् अन् त आताम् अत
स् तम् त थाः आथाम् ध्वम्
अम् व म इ वहि महि
विधिलिङ्-लकारः
यात् याताम् युः ईत ईयाताम् ईरन्
याः यातम् यात ईथाः ईयाथाम् ईध्वम्
याम् याव याम ईय ईवहि ईमहि
३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्
क्र्यादिगणे यदा अङ्गं निष्पन्नं, तदा सर्वेषां धातूनां कृते कार्यं समानमेव | स्मरन्तु यत् स्वादिगणे तथा नासीत्; तत्र अजन्तधातूनाम् एकः समूहः, हलन्तधातूनाम् अपरः समूहः | तनादिगणेऽपि तादृशविभजनं जातम् | अत्र क्र्यादिगणे सर्वेषां धातूनाम् अङ्गानि समानानि | (केवलम् एकस्मिन् स्थले तादृशं समूहद्वयम् अपेक्षितं यथा स्वादिगणे प्राप्यते; तच्च लोट्-लकारस्य मध्यमपुरुषैकवचने एव | अस्य पाठस्य अन्ते पृथक्तया परिशीलयाम; तत् विहाय सर्वगणः एकैव समूहः |)
यथासामान्यं, यत्र अङ्गम् अनदन्तम्, अत्रापि क्र्यादिगणे सिद्ध-तिङ्प्रत्ययानां भागचतुष्टयम् अस्ति— हलादिपितः, अजादिपितः, हलाद्यपितः, अजाद्यपितः च | किञ्च एतत् भागचतुष्टयम् अवलम्ब्य क्र्यादिगणे कार्यम् किञ्चित् भिन्नं भवति—
हलादिषु पित्सु = किमपि कार्यं नास्ति, केवलं योजनम् | अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति | क्रीणा + ति → क्रीणाति
अजादिषु पित्सु = केवलं सन्धिकार्यम् | क्रीणा + आनि → क्रीणानि
हलादिषु अपित्सु = श्ना-प्रत्ययस्य आकार-स्थाने ई-कारादेशः (ई हल्यघोः इति सूत्रेण) | क्रीणा + तः → क्रीणीतः
अजादिषु अपित्सु = श्ना-प्रत्ययस्य आकार-लोपः (श्नाभ्यस्तयोरातः इति सूत्रेण) | क्रीणा + अन्ति → क्रीणन्ति
श्नाभ्यस्तयोरातः (६.४.११२)
श्नाभ्यस्तयोरातः (६.४.११२) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | श्नसोरल्लोपः (६.४.१११) इत्यस्मात् लोपः, इत्यस्य अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | अत उत्सार्वधातुके (६.४.११०) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके |
अभ्यस्तसंज्ञकम् अङ्गं यथा जुहोत्यादिगणे मा-धातुः → मिमा इति अङ्गम् | मिमा + अते → मिम् + अते → मिमते |
अनेन सूत्रेण न केवलम् अजाद्यपिति अपि तु हलाद्यपिति अपि कार्यं विहितं, किन्तु हलादिषु अपित्सु ई हल्यघोः इति सूत्रम् एतत् कार्यं प्रबाध्य आकारस्य स्थाने ई-कारादेशं विदधाति |
ई हल्यघोः (६.४.११३)
ई हल्यघोः (६.४.११३) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ई-कारादेशः भवति, किति ङिति हलादिसार्वधातुकप्रत्यये परे—परन्तु घुसंज्ञक-धातुः चेत्, न भवति (घुसंज्ञक-धातुः नाम दा धा च धातू) | न घुः अघुः, तस्य अघोः | ई लुप्तप्रथमाकं पदं, हलि सप्तम्यन्तम्, अघोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | श्नाभ्यस्तयोरातः (६.४.११२) इत्यस्मात् श्नाभ्यस्तयोः, आतः चेत्यनयोः अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः; अत उत्सार्वधातुके (६.४.११०) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य श्नाभ्यस्तयोः आतः ई क्ङिति हलि सार्वधातुके अघोः |
अभ्यस्तसंज्ञकम् अङ्गं यथा जुहोत्यादिगणे मा-धातुः → मिमा इति अङ्गम् | मिमा + ते → मिमीते |
A. परस्मैपदे लट्
A. परस्मैपदे लट्— (स्थूलाक्षरैः लिखिताः प्रत्ययाः पितः इति | अन्ये अपितः |)
ति, तः, अन्ति
सि, थः, थ
मि, वः, मः
परस्मैपदे लटि क्री धातुः
क्रीञ् + श्ना → क्री + ना → क्रीणा इत्यङ्गम् | अधः सर्वत्र क्रीणा इत्यङ्गम् अधिकृत्य कार्यम् अग्रे सरति |
क्रीणा + ति →
क्रीणा + तः →
क्रीणा + अन्ति →
क्रीणा + सि →
क्रीणा + थः →
क्रीणा + थ →
क्रीणा + मि →
क्रीणा + वः →
क्रीणा + मः →
B. आत्मनेपदे लट्
B. आत्मनेपदे लट्—
ते आते अते
से आथे ध्वे
ए वहे महे
आत्मनेपदे लटि क्री धातुः
क्रीञ् + श्ना → क्री + ना → क्रीणा इत्यङ्गम् | अधः सर्वत्र क्रीणा इत्यङ्गं स्वीकृत्य कार्यम् अग्रे सरति |
क्रीणा + ते →
क्रीणा + आते →
क्रीणा + अते →
क्रीणा + से →
क्रीणा + आथे →
क्रीणा + ध्वे →
क्रीणा + ए →
क्रीणा + वहे →
क्रीणा + महे →
आदेशप्रत्यययोः (८.३.५९) = इण्-प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्, तर्हि तस्य सकारस्य स्थाने षकारादेशो भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्, ठ्, ड्, ढ्, ण्, ष् इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्, अतः षकारः एव आदिष्टः भवति | नुम्, विसर्गः, शर्-प्रत्याहारस्थ-वर्णः च मध्ये सन्ति चेत् अपि कार्यं भवति | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम् एकपदमिदं सूत्रम् | सहे साडः सः (८.३.५६) इत्यस्मात् सः इत्यस्य अनुवृत्तिः | नुंविसर्जनीयशर्व्यवायेऽपि (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | इण्कोः (८.३.५७), अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि |
C. विशेषः — हि-प्रत्ययः
अत्र, लोट्-लकारस्य मध्यमपुरुषैकवचने, धातूनां समूहद्वयं वर्तते, हलन्तधातवः अजन्तधातवः च | अजन्तधातवः सामान्याः, हलन्तधातवः अपवादभूताः च |
धातुः अजन्तः चेत्, सामान्यक्रमः | हि-प्रत्ययः हलाद्यपित् (सेर्ह्यपिच्च इति सूत्रेण) |
यथा—
क्रीणा + हि → हलादिषु अपित्सु श्ना-प्रत्ययस्य आकार-स्थाने ई-कारादेशः (ई हल्यघोः इति सूत्रेण) → क्रीणी + हि → क्रीणीहि |
तथैव ज्ञा → जानीहि, मी → मीनीहि, प्री → प्रीणीहि, द्रू → द्रूणीहि, वृ → वृणीहि |
परन्तु हौ परे हलन्तधातुपूर्वकः यः श्ना, तस्य स्थाने शानच्-आदेशः भवति; अनुबन्ध-लोपे आन इति आदेशः |
हलः श्नः शानज्झौ (३.१.८३)
हलः श्नः शानज्झौ (३.१.८३) = हलुत्तरस्य श्ना-स्थाने शानच्-आदेशः भवति, हि-प्रत्यये परे | शानच् इत्यस्मिन् शकारलोपः लशक्वतद्धिते इति सूत्रेण, चकारलोपः हलन्त्यम् इति सूत्रेण, आन अवशिष्यते | झलां जशोऽन्ते (८.२.३९), झयो होऽन्यतरस्याम् (८.४.६२) [झयः उत्तरस्य हकारस्य पूर्वसवर्णादेशः] इत्याभ्यां शानच् + हौ → शानज्झौ | हलः पञ्चम्यन्तं, श्नः षष्ठ्यन्तं, शानच् प्रथमान्तम्, हौ सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— हलः श्नः शानच् हौ |
धेयं यत् क्र्यादिगणे अङ्गम् अनदन्तम्, अतः हि-लोपः न भवति | परन्तु यदा श्ना-स्थाने शानच् आदेशः भवति, तदा अङ्गम् अदन्तं जातम् यतः शानच् (आन) अकारान्तः प्रत्ययः | अतः 'आन' इत्यस्य योजनेन हि-लोपः (लुक्) भवति |
ग्रह् + हि → ग्रह् + श्ना + हि → हलः श्नः शानज्झौ (३.१.८३) → ग्रह् + शानच् + हि → ग्रह् + आन + हि → ङिति सम्प्रसारणम् → गृह् + आन + हि → गृहान + हि → अङ्गम् अदन्तम् अतः हि लोपः (अतो हेः इति सूत्रेण) → णत्वम् → गृहाण
अतो हेः (६.४.१०५)
अतो हेः (६.४.१०५) = ह्रस्व-अकारात् अङ्गात् परस्य हि इत्यस्य लुक् (लोपः) भवति | अतः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | चिणो लुक् (६.४.१०४) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः (अत्र अङ्गात् भवति विभक्तिपरिणाम इति सिद्धान्तेन) | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गात् हेः लुक् |
यथा मुष् + शानच् + हि → मुष्+ आन + हि → मुष् + आन + हि → मुषाण
तथैव—
मृद् + आन + हि → मृदान
बध् + आन + हि → बधान
मथ् + आन + हि → मथान
ग्रथ् + आन + हि → ग्रथान
पुष् + आन + हि → पुषाण
कुथ् + आन + हि → कुथान
इति क्र्यादिगणस्य समग्रं चिन्तनम् | अधुना क्र्यादिगणीयेषु यः कोऽपि भवतु नाम, सार्वधातुकलकारेषु वयं सर्वाणि रूपाणि जानिमः |
क्र्यादिगणे ६१ धातवः
अजन्तधातवः [36 धातवः]
सामान्याः अजन्तधातवः [13 धातवः]
औपदेशिकधातुः/अनुबन्धरहितधातुः/अङ्गम्/लट्लकाररूपम्
षिञ् बन्धने सि सिना सिनाति/सिनीते
व्री वरणे व्री व्रीणा व्रीणाति
भ्री भये भ्री भ्रीणा भ्रीणाति
क्षीष् हिंसायाम् क्षी क्षीणा क्षीणाति
डुक्रीञ् द्रव्यविनिमये क्री क्रीणा क्रीणाति
प्रीञ् तर्पणे प्री प्रीणा प्रीणाति/प्रीणीते
श्रीञ् पाके श्री श्रीणा श्रीणाति/श्रीणीते
मीञ् हिंसायां मी मीना मीनाति/मीनीते
स्कुञ् आप्रवणे स्कु स्कुना स्कुनाति/स्कुनीते
युञ् बन्धने यु युना युनाति/युनीते
क्नूञ् शब्दे क्नू क्नूना क्नूनाति/क्नूनीते
द्रूञ् हिंसायाम् द्रू द्रूणा द्रूणाति/द्रूणीते
वृङ् सम्भक्तौ वृ वृणा वृणीते
विशेषाः अजन्तधातवः [23 धातवः]
प्वादि-अन्तर्गणः [22 धातवः]
पूञ् पवने पू पुना पुनाति/पुनीते
लूञ् छेदने लू लुना लुनाति/लुनीते
धूञ् कम्पने धू धुना धुनाति/धुनीते
ज्या वयोहानौ ज्या जिना जिनाति [सम्प्रसारणी धातुः]
री गतिरेषणयोः री रिणा रिणाति
ली श्लेषणे ली लिना लिनाति
व्ली वरणे व्ली व्लिना व्लिनाति
प्ली गतौ प्ली प्लिना प्लिनाति
स्तॄञ् आच्छादने स्तॄ स्तृणा स्तृणाति/स्तृणीते
कॄञ् हिंसायाम् कॄ कृणा कृणाति/कृणीते
वॄञ् वरणे वॄ वृणा वृणाति/वृणीते
शॄ हिंसायाम् शॄ शृणा शृणाति
पॄ पालनपूरणयोः पॄ पृणा पृणाति
वॄ वरणे भरण इत्येके वॄ वृणा वृणाति
भॄ भर्त्सने भॄ भृणा भृणाति
मॄ हिंसायाम् मॄ मृणा मृणाति
दॄ विदारणे दॄ दृणा दृणाति
जॄ वयोहानौ जॄ जृणा जृणाति ( अत्र ॠत इद्धातोः (७.१.१००) इत्यस्य कार्यं न भवति यतोहि प्वादीनां ह्रस्वः (७.३.८०) इति सूत्रस्य कार्यं नित्यमस्ति ॠत इद्धातोः (७.१.१००) इत्यस्य अपेक्षया | )
नॄ नये नॄ नृणा नृणाति
कॄ हिंसायाम् कॄ कृणा कृणाति
ॠ गतौ ॠ ऋणा ऋणाति
गॄ शब्दे गॄ गृणा गृणाति
इति प्वादि-अन्तर्गणः समाप्तः
ज्ञा अवबोधने ज्ञा जाना जानाति/जानीते [ज्ञाजनोर्जा (७.३.७९) इत्यनेन ज्ञा, जन्-धात्वोः जा-आदेशः शिति परे]
हलन्तधातवः [25 धातवः]
सामान्याः हलन्तधातवः [18 धातवः]
खच भूतप्रादुर्भावे खच् खच्ञा खच्ञाति
हेठ भूतप्रादुर्भावे हेठ् हेठना हेठ्नाति
मृड क्षोदे सुखे च मृड् मृड्णा मृड्णाति
मृद क्षोदे मृद् मृद्ना मृद्नाति
गुध रोषे गुध् गुध्ना गुध्नाति
क्षुभ सञ्चलने क्षुभ् क्षुभ्ना क्षुभ्नाति —> अत्र क्षुभ्नादिषु च (८.४.३९) इत्यस्य चिन्तनं कुर्यात् |
णभ हिंसायाम् नभ् नभ्ना नभ्नाति
तुभ हिंसायाम् तुभ् तुभ्ना तुभ्नाति
क्लिशू विबाधने क्लिश् क्लिश्ना क्लिश्नाति
अश भोजने अश् अश्ना अश्नाति
कुष निष्कर्षे बहिष्करणम् कुष् कुष्णा कुष्णाति
इष अभीक्ष्ण्ये पौनः पुन्यम् इष् इष्णा इष्णाति
विष विप्रयोगे विष् विष्णा विष्णाति
प्रुष स्नेहन-सेवनपूरणेषु प्रुष् प्रुष्णा प्रुष्णाति
प्लुष स्नेहन-सेवनपूरणेषु प्लुष् प्लुष्णा प्लुष्णाति
पुष पुष्टौ पुष् पुष्णा पुष्णाति
मुष स्तेये मुष् मुष्णा मुष्णाति
उँध्रस उञ्छे ध्रस् ध्रस्ना ध्रस्नाति
उध्रस् उध्रस्ना उध्रस्नाति
अत्र उ धात्वयवः न तु इत्संज्ञकः इति केषाञ्चन पण्डिनां मतम् |
सम्प्रसारणी धातुः
ग्रह उपादाने ग्रह् गृह्णा गृह्णाति
अनिदित्-धातवः [6 धातवः]
बन्ध बन्धने बन्ध् बध्ना बध्नाति
श्रन्थ विमोचन-प्रतिहर्षयोः श्रन्थ् श्रथ्ना श्रथ्नाति
मन्थ विलोडने मन्थ् मथ्ना मथ्नाति
श्रन्थ सन्दर्भे श्रन्थ् श्रथ्ना श्रथ्नाति
ग्रन्थ सन्दर्भे ग्रन्थ् ग्रथ्ना ग्रथ्नाति
कुन्थ संश्लेषणे कुन्थ् कुथ्ना कुथ्नाति
इति क्र्यादिगणे समग्रं तिङ्-सम्बद्धं सार्वधातुकप्रकरण-चिन्तनं समाप्तम् |
File:४ - क्र्यादिगणः (c).pdf (92k) Swarup Bhai, Mar 31, 2019, 7:54 AM v.1
Swarup – July 2013 (Updated November 2015)