6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(2 intermediate revisions by the same user not shown)
Line 658:
<big>दीधी + ईत → दीध्‌ + ईत → दीधीत</big>
 
<big>'''दीधीवेवीटाम्‌''' (१.१.६) = दीधी, वेवी इति धातू, इडागमः चेत्येषां गुणः वृद्धिश्च न भवतः | अनेन इडागमस्य गुणः न कदापि भवति— यथा भू + तास् + लुट् → भू + इत् + आ → भविता ( भू-धातोः लुट्लकारस्य रूपं, सम्पूर्णा प्रक्रिया न प्रदर्शिता); तस्य वृद्धिकार्यं न कुत्रापि विहितम्‌ | दीधीश्च वेवीश्च इट्‌ च तेषामितरेतरद्वन्द्वः दीधीवेवीटः, तेषां दीधीवेवीटाम्‌ | दीधीवेवीटां षष्ट्यन्तंषष्ठ्यन्तं पदम्‌, एकपदमिदं सूत्रम्‌ | '''इको गुणवृद्धी''' (१.१.३) इत्यस्मात्‌ '''गुणवृद्धी''' इत्यस्य अनुवृत्तिः | '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''दीधीवेवीटाम्‌ न गुणवृद्धी''' |</big>
 
 
Line 831:
 
 
<big>'''तुरुस्तुशम्यमः सार्वधातुके''' (७.३.९५) = तु, रु, स्तु, शम्‌, अम्‌ एभ्यः धातुभ्यः हलादि-सार्वधातुक-तिङ्‌प्रत्ययस्य विकल्पेन ईट्‌-आगमो भवति | तु गतिवृद्धिहिंसासु इति धातुः सौत्रः अस्ति | अर्थात् उल्लेखः धातुपाठे नास्ति, केवलं सूत्रेषु एव उच्यते | शमुँ उपशमे अयम् दिवादिगणस्य धातुः अस्ति, अमँ इति भ्वादिगणस्य धातुः अस्ति | अनयोः धात्वोः विषये ईडागमः केवलं छन्दसि एव भवति न तु लोके यतोहि लोके मध्ये विकरणप्रत्ययः आयाति | किन्तु वेदे तु विकरणस्य लोपः भवितुम् अर्हति '''बहुलं छन्दसि''' (२.४.७३) इत्यनेन सूत्रेण | तुश्च रुश्च स्तुश्च शमिश्च अम्‌ च तेषां समाहारद्वन्द्वः तुरुस्तुशम्यम्‌, तस्मात्‌ तुरुस्तुशम्यमः | तुरुस्तुशम्यमः पञ्चम्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''भूस्तुवोस्तिङि''' (७.३.८८) इत्यस्मात्‌ '''तिङि''' इत्यस्य अनुवृत्तिः; '''ब्रुव ईट्‌''' (७.३.९३) इत्यस्मात्‌ '''ईट्‌''' इत्यस्य अनुवृत्तिः; '''यङो वा''' (७.३.९४) इत्यस्मात्‌ '''वा''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''तुरुस्तुशम्यमः अङ्गात्‌ ईट्‌ वा हलि सार्वधातुके तिङि''' |</big>
 
 
Line 1,055:
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/a0/a906/%E0%A5%AB_-_%E0%A4%85%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%85%E0%A4%9C%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83_%28c%2983.pdf ५ - अदादिगणे अजन्तधातवः (c).pdf] (168k) Swarup Bhai, Sep 4, 2019, 1:54 AM v.1
 
<big>Swarup – August 2013 (Updated March 2016)</big>
page_and_link_managers, Administrators
5,152

edits