page_and_link_managers, Administrators
5,097
edits
No edit summary |
No edit summary |
||
(17 intermediate revisions by 4 users not shown) | |||
Line 1:
{{DISPLAYTITLE: 05A- अदादिगणे अजन्तधातवः}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि
|-
|<big>'''2017 वर्गः'''</big>
|-
|<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/93_adAdigaNaH---paricayaH__AkArAnta-dhAtavaH_2017-08-30.mp3 १) adAdigaNaH---paricayaH_+_AkArAnta-dhAtavaH_2017-08-30]</big>
Line 27:
|<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/103_adAdigaNaH---__juhotyAdigaNaH---paricayaH__dvitvam-abhyAsakAryam_2017-11-08.mp3 ११) adAdigaNaH---जागृ_+_juhotyAdigaNaH---paricayaH_+_dvitvam-abhyAsakAryam_2017-11-08]</big>
|-
|<big>
|-
|<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/58_adAdigaNaH-1_paricayaH__AkArAnta-dhAtavaH_2015-12-22.mp3 १) adAdigaNaH-1_paricayaH_+_AkArAnta-dhAtavaH_2015-12-22]</big>
Line 47:
<big>अदादिगणे ७२ धातवः सन्ति | यथा सर्वेषु गणेषु, कर्त्रर्थके सार्वधातुकप्रत्यये परे, '''कर्तरि शप्''' (३.१.६८) इत्यनेन शप् विहितः अस्ति | तदा '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इत्यनेन शपः लुक् (लोपः) भवति | स्थितस्य शप्-प्रत्ययस्य लुक्, अतः व्यावहारिकत्वेन अदादिगणे कोऽपि विकरणप्रत्ययः नास्ति |</big>
<big>'''अदिप्रभृतिभ्यः शपः''' (२.४.७२) = अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्-प्रत्ययस्य लुक् (लोपः) भवति | अदिः प्रभृतिः (आदिः) येषां ते अदिप्रभृतयः बहुव्रीहिः, तेभ्यः अदिप्रभृतिभ्यः | अदिप्रभृतिभ्यः पञ्चम्यन्तं, शपः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''ण्यक्षत्रियार्षञितो यूनि लुगणिञोः''' (२.४.५८) इत्यस्मात् '''लुक्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अदिप्रभृतिभ्यः शपः लुक्''' |</big>
Line 78 ⟶ 76:
<big>'''न लुमताऽङ्गस्य''' (१.१.६३) = लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् |</big>
<big>अदादिगणे विकरणप्रत्ययः शप् आसीत्, अनन्तरं तस्य लुक् अभवत् | लुमता शपः अदर्शनं जातम्, अतः धात्वङ्गे शप्-निमित्तकम् अङ्गकार्यं नार्हम् |</big>
Line 119 ⟶ 115:
<big>अदादिगणे अङ्गम् अनदन्तम्, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः भवन्ति | धातुद्वयस्य (दरिद्रा, जागृ) कृते विशेषकार्यं वर्तते | अस्मिन् पाठे यत्र तयोः विवरणम् अस्ति, तत्रैव इदं कार्यं प्रदर्शयिष्यते | तौ द्वौ विहाय यत्र अङ्गम् अनदन्तं, तत्र यथा सर्वेषां धातूनां कृते सिद्ध-तिङ्संज्ञकप्रत्ययाः तथा अत्रापि | अतः अदादिगणे सिद्ध-तिङ्प्रत्ययाः एते एव—</big>
<big> <u>परस्मैपदम्</u> <u>आत्मनेपदम्</u></big>
Line 131 ⟶ 125:
<big> '''मि''' वः मः ए वहे महे</big>
Line 142 ⟶ 135:
<big> '''आनि आव आम ऐ आवहै आमहै'''</big>
Line 153 ⟶ 145:
<big> '''अम्''' व म इ वहि महि</big>
Line 164 ⟶ 155:
<big> याम् याव याम ईय ईवहि ईमहि</big>
<big>३. <u>तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्</u></big>
<big>अत्र कार्यं वर्तते, यत्र प्राप्तिः अस्ति | अष्टप्रकारकाः अजन्तधातवः सन्ति (अदादिगणे षट्, यतः अकारान्तधातवः, ॠकारान्तधातवः च न सन्ति) |</big>
<big>1. <u>आकारान्तधातवः</u> (15 = या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा, ला, दा, ख्या, प्रा, मा, दरिद्रा)</big>
Line 179 ⟶ 171:
<big>'''लङः शाकटायनस्यैव''' (३.४.१११) = आकारान्तात् धातोः लङि झेः जुस् आदेशः भवति शाकटायनस्य मतेन | शाकटायनः कश्चन वैयाकरणः आसीत्, पाणिनेः पूर्वम् | अनेन परस्मैपदे लङि प्रथमपुरुषबहुवचने विकल्पेन अन्, उः,
<big>'''लङः शाकटायनस्यैव''' ''(''३.४.१११) इत्यनेन जुस्-आदेशः कथं न भवति लोटि इत्यस्मिन् विषये महती चर्चा | केचन वदन्ति यत् '''''विदो लटो वा''''' (३.४.८३) इत्यस्मात् वा इत्यस्य अनुवृत्तिः अनयोः सूत्रयोः येन लोटि अप्रसक्तेः अनुमतिः स्यात्; अन्ये वदन्ति यत् लङ्वत् इत्यस्मिन् वति-प्रत्ययः 'न नित्यः'; 'वतिपदघटितम् अनित्यम्' इति प्रसिद्धवाक्यम् | अत्र 'न नित्यः' इत्यस्य सारांशः एवं यत् लोटि लङः स्वभावः अध्यारोप्यते, किन्तु लक्ष्यम् अधिकृत्य— यत्र फलं नापेक्षते, तत्र प्रसक्तिः न भवति | अतः '''लङः''' '''शाकटायनस्यैव''' (३.४.१११) इति सूत्रेण कार्यं भवति लङि किन्तु लोटि न अपेक्षते, अतः 'लङ्वत्' इति तत्र न गच्छति |</big>
<big>'''उस्यपदान्तात्''' (६.१.९६) = अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूपम् एकादेशः भवति; आद्गुणस्य अपवादः | अवा + उः → अव् + उः → अवुः | न पदान्तम् अपदान्तं, तस्मात् अपदान्तात् | उसि सप्तम्यन्तम्, अपदान्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''आद्गुणः''' (६.१.८७) इत्यस्मात् '''आत्''' इत्यस्य अनुवृत्तिः | '''इको यणचि''' (६.१.७७) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः; अनुवर्तते अत्र यतोहि परेषु सूत्रेष्वपि तस्य आवश्यकता | '''एङि पररूपम्''' (६.१.९४) इत्यस्मात् '''पररूपम्''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपम् संहितायाम्''' |</big>▼
▲<big>'''उस्यपदान्तात्''' (६.१.९६) = अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूपम् एकादेशः भवति; आद्गुणस्य अपवादः | अवा + उः → अव् + उः → अवुः | न पदान्तम् अपदान्तं, तस्मात् अपदान्तात् | उसि सप्तम्यन्तम्, अपदान्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''आद्गुणः''' (६.१.८७) इत्यस्मात् '''आत्''' इत्यस्य अनुवृत्तिः | '''इको यणचि''' (६.१.७७) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः; अनुवर्तते अत्र यतोहि परेषु सूत्रेष्वपि तस्य आवश्यकता | '''एङि पररूपम्''' (६.१.९४) इत्यस्मात् '''पररूपम्''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपम् संहितायाम्''' |</big>
<big>अन्यत्र सन्धिः एव भवति |</big>
Line 193 ⟶ 187:
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
Line 208 ⟶ 201:
<big>या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा ला, दा, ख्या, प्रा, मा एतेषां धातूनां सार्वधातुलकारेषु तिङन्तरूपाणि अपि तथैव भवन्ति |</big>
<big>B. आत्मनेपदे गा धातुः भ्वादिगणे, परन्तु रूपाणि अदादिगणीयानि सन्ति |</big>
Line 223 ⟶ 214:
<big>विधिलिङि—</big>
<big>C. दरिद्रा धातुः</big>
Line 234 ⟶ 223:
<big>'''उभे अभ्यस्तम्''' (६.१.५) इति सूत्रेण यदा धातोः द्वित्वं भवति, तदा मिलित्वा द्वयोः भागयोः नाम 'अभ्यस्तं' भवति | '''जक्षित्यादयः षट्''' (६.१.६) इत्यनेन जक्षित्यादीनां धातूनाम् अद्वित्वे सत्यपि अभस्त-संज्ञा भवति |</big>
<big>एषां सप्तानां धातूनां तिङन्तसिद्ध्यर्थं चत्वारि कार्याणि—</big>▼
<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''झोऽन्तः''' (७.१.३) इत्यस्मात् '''झः''' (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः
▲<big>एषां सप्तानां धातूनां तिङन्तसिद्ध्यर्थं चत्वारि कार्याणि—</big>
▲<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''झोऽन्तः''' (७.१.३) इत्यस्मात् '''झः''' (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्''' (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत्''' |</big>
<big>धेयं यत् अत्-आदेशस्य तकारः '''हलन्त्यम्''' (१.३.३) इति सूत्रेण इत्-संज्ञकः न, यतोहि अत् तु विभक्तिसंज्ञक-झि-प्रत्ययस्य अवयवस्य आदेशः अतः '''न विभक्तौ तुस्माः''' (१.३.४) इत्यनेन '''हलन्त्यम्''' (१.३.३) बाधितम् |</big>
<big>'''अदभ्यस्तात्''' (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्-स्थाने अत् आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |</big>
Line 251 ⟶ 238:
<big>अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्-आदेशः | जुस् इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि आहत्य अभ्यस्तसंज्ञकः धातुः अस्ति चेत्, लङि अन्-स्थाने उः इति प्रत्ययः भवति |</big>
<big>३) '''इद् दरिद्रस्य''' (६.४.११४) = दरिद्रा-धातोः आकारस्य स्थाने इ-आदेशो भवति, हलादौ किति ङिति सार्वधातुकप्रत्यये परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन दरिद्रा-धातोः अन्तिमवर्णस्य आकारस्य स्थाने इकारः | इत् प्रथमान्तं, दरिद्रस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''ई हल्यघोः''' (६.४.११३) इत्यस्मात् '''हलि''' इत्यस्य अनुवृत्तिः | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''दरिद्रस्य अङ्गस्य इत् हलि क्ङिति सार्वधातुके''' |</big>
<big>यथा दरिद्रा + तः → दरिद्रि + तः → दरिद्रितः | दरिद्रा + वः → दरिद्रि + वः → दरिद्रिवः |</big>
<big>४) '''श्नाभ्यस्तयोरातः''' (६.४.११२) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्मात् '''लोपः''', इत्यस्य अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके''' |</big>
<big>'''श्नाभ्यस्तयोरातः''' (६.४.११२) इति सूत्रेण न केवलम् अजाद्यपिति अपि तु हलाद्यपिति अपि कार्यं विहितं, किन्तु हलाद्यपित्सु परेषु '''ई हल्यघोः''' (६.४.११३) इत्यनेन आकारस्य लोपकार्यं प्रबाध्य आकारस्य स्थाने ई-कारादेशः विधीयते | तदा हलाद्यपित्सु '''ई हल्यघोः''' इत्यस्य बाधकं सूत्रम् '''इद् दरिद्रस्य''' (६.४.११४), येन आ-स्थाने इकारादिष्टः | आहत्य '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन आकारस्य लोपः केवलम् अजाद्यपित्सु भवति | अजाद्यपित्सु कार्यं भवति यथा दरिद्रा + अति →
▲<big>'''श्नाभ्यस्तयोरातः''' (६.४.११२) इति सूत्रेण न केवलम् अजाद्यपिति अपि तु हलाद्यपिति अपि कार्यं विहितं, किन्तु हलाद्यपित्सु परेषु '''ई हल्यघोः''' (६.४.११३) इत्यनेन आकारस्य लोपकार्यं प्रबाध्य आकारस्य स्थाने ई-कारादेशः विधीयते | तदा हलाद्यपित्सु '''ई हल्यघोः''' इत्यस्य बाधकं सूत्रम् '''इद् दरिद्रस्य''' (६.४.११४), येन आ-स्थाने इकारादिष्टः | आहत्य '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन आकारस्य लोपः केवलम् अजाद्यपित्सु भवति | अजाद्यपित्सु कार्यं भवति यथा दरिद्रा + अति → दरिद्र् + अति → दरिद्रति | दरिद्रा + अतु → दरिद्र् + अतु → दरिद्रतु |</big>
<big>अवशिष्ट-स्थलेषु दरिद्रा-धातोः तिङन्तरूपाणि वा-धातुवत् भवन्ति |</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
Line 286 ⟶ 274:
<big>A. इण् गतौ इति धातुः</big>
<big>१) हलादि पित्सु = गुणः | इ + ति → एति</big>
Line 319 ⟶ 308:
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
Line 331 ⟶ 321:
<big>'''आडजादीनाम्''' (६.४.७२) = लुङ् लङ् लृङ् च परे चेत्, अजादिधातुरूपि-अङ्गस्य आट्-आगमो भवति; स च
Line 359 ⟶ 349:
<big>किन्तु इह कश्चन नूतनसिद्धान्तः आनेतव्यः | इण्-धातु-विषयकतया प्रतिपदोक्तत्वम् | व्याकरणशास्त्रे प्रतिपदम् इत्युच्यते यत्र साक्षात् नाम्ना आह्वानं भवति; प्रतिपदम् इत्यनेन नामग्रहणम् | अस्मिन् सिद्धान्ते शीघ्रावस्थितिकत्वमेव बीजम् | यथा 'एकः छात्रः आगच्छतु' इत्यनेन कञ्चन छात्रम् आह्वातुं शक्नुमः; 'चैत्र आगच्छ' इत्यपि रीत्या आह्वातुं शक्नुमः | उभयत्र छात्रस्य आह्वानम् | 'कश्चन छात्रः आगच्छातु' इत्यस्य अपेक्षया 'चैत्र आगच्छ' इत्यनेन शीघ्रं प्रवृत्तिर्भवति | कुतः इति चेत्, तस्य वाचकपदम् | प्रतिपदेन उक्तं → प्रतिपदोक्तम् | छात्रत्वावच्छिनः यः कोऽपि छात्रः भवितुम् अर्हति; किन्तु 'चैत्रत्वम् आगच्छ' इत्यनेन विशेषतया तस्य वाचकं यत् पदं, तस्य विशिष्टोच्चारणात् प्रतिपदोक्तं भवति | 'कश्चन छात्रः आगच्छातु' इत्यस्य कथनेन 'अहं न, अन्यः कश्चन छात्रः स्यात्' इति शङ्कातः शीघ्रम् उपस्थितिर्न भवति | किन्तु 'चैत्र आगच्छ' इत्यस्य कथनेन विलम्बः न भवति अपि तु शीघ्रोपस्थितिः |</big>
<big>प्रतिपदम् | पदं पदं प्रतिपदम् | तन्मात्रवृत्तिधर्मविशिष्टं पदम् | वीप्सया तत्पदमात्रवृत्तिधर्मपुरस्कारवैशिष्ट्यम् | तत्पदमात्रवृत्तिधर्मपुरस्कारेण ग्रहणं यत्र, तत् प्रतिपदम् इत्युच्यते | तदनुकूलव्यवच्छिन्नतया नाम इति अर्थः गृह्यते | यथा '''इणो यण्''' (६.४.८१) इत्यनेन यण्-आदेशः प्रतिपदोक्तः | '''इको यणचि''' (६.१.७७) इत्यनेन यण्-आदेशः लाक्षणिकः | '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इत्यनेनापि यण्-आदेशः लाक्षणिकः |</big>
Line 372 ⟶ 362:
<big>कुतः बलवत्वम् इति चेत्, तस्य बुद्धौ शीघ्रम् उपस्थितिर्भवति | अनेन प्रतिपदोक्तं सर्वतो बलवत् | यत्र 'अपवादः' इति साक्षात् वक्तुं न शक्यते, तत्र विशिष्टत्वात् प्रतिपदोक्तत्वात् बलवत्वम् इति वदने सामर्थम् | ततः उच्यते यत् प्रतिपदोक्तम् अपवादसदृशम् | अपवादः बाधते, तद्वत् प्रतिपदोक्तम् अपि बाधते | कुतः इति चेत् तस्य नामग्रहणपूर्वक-विधिरस्ति, अनेन शीघ्रं प्रवृत्तिर्भवति |</big>
<big>अतः अत्र यद्यपि '''इणो यण्''' (६.४.८१) इत्यस्य कार्यस्थलम् '''आटश्च''' (६.१.८९) इति कर्यस्थलात् भिन्नम् इति कारणतः तस्य अपवादभूतत्वम् इति वक्तुं न शक्येत, तथापि प्रतिपदोक्तत्वस्य बलेन बाधकत्वम् | तुल्यबलविरोधस्याभावात् प्रतिपदोक्तत्वात् बाधकत्वम् इत्युच्यते | तर्हि प्रतिपदोक्तत्वस्य बलवत्वे '''इणो यण्''' (६.४.८१) | '''इणो यण्''' (६.४.८१) इत्यस्य प्रतिपदोक्तत्वात् इण्-धातुं ग्रहीत्वा यण्-आदेशः विधीयते—</big>
Line 396 ⟶ 386:
<big>'''असिद्धवदत्राभात्''' (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति
Line 418 ⟶ 408:
<big>प्रथमपक्षस्य परित्यजने, अन्यत् कारणमपि उक्तम् महाभाष्ये | किमिति चेत्, धातुः नाम क्रियावाचकः | क्रियायाः स्वाश्रयाकाङ्क्षा भवति; नो चेत् क्रिया न प्रतीयते | धातुरेव क्रियां न बोधयति | क्रियायाः स्वाश्रयसमवधाने एव धातुः क्रियां बोधयेत् | कर्तृबोधकप्रत्ययः परः यदा भवति, तदानीम् अयं धातुः परिपूर्णतया क्रियां बोधयितुं समर्थः भवति | क्रियायाः आश्रयबोधकप्रत्ययः नास्ति चेत् धातुः क्रियां कथं वा बोधयेत् ? लकारः आश्रयबोधकप्रत्ययः | तं विना 'अयं धातुः' इति व्यवहारः एव वस्तुतः न कर्तव्यः | कुतः इति चेत्, क्रियां न बोधयति | तर्हि कदा बोधयति ? स्वबोध्यक्रियायाः आश्रयः अस्ति चेदेव धातुः क्रियां बोधयति | भू-धातोः लट् इति प्रयोगे 'भू-धातुः' अर्थविज्ञानपदम् | इतः परं यदा लट्-प्रत्ययः करिष्यते, तदानीं परिपूर्णधातुः अयम् | प्रत्ययस्य उत्पत्तेः पूर्वम् 'अयं धातुः' इति व्यवहारः गौणः | अनेन लकार-प्रत्ययस्य उपस्थितिः आदौ भवति, तन्निमित्तककार्याणि च आदौ भवन्ति इति वक्तव्यम् | अस्मात् कारणादपि लावस्थायाम् अट् इति पक्षः परित्यक्तः |</big>
<big>आहत्य कारणत्रयेण '''इणो यण्''' (६.४.८१) सर्वप्रथमम् आयाति— १) आभीयपाठस्य सार्थक्यार्थम्; २) प्रतिपदोक्तत्वात्; ३) विशिष्टधातोः क्रियाबोधकत्वात् |</big>
Line 432 ⟶ 420:
<big>१) (लङि) अडागमः आडागमः च | '''आडजादीनाम्''' (६.४.७२) इति सूत्रं लावस्थायां विधीयते, अतः इदं सूत्रं सामान्यरूपेण
<big>२) तिङ्-निमित्तम् अङ्गकार्यम् | अङ्गकार्यम् इदम्, अतः बलवत् |</big>
Line 474 ⟶ 462:
<big>B. इक् स्मरणे इति धातुः</big>
<big>इक् स्मरणे नित्यम् अधि-उपसर्गपूर्वकः धातुः, परस्मैपदी च |</big>
Line 504 ⟶ 492:
<big>इङ्-धातुः ङित् अतः आत्मनेपदिधातुः, नित्यम् अधि-पूर्वः च |</big>
<big>१) हलादि पित्सु = आत्मनेपदिधातुषु नास्ति एव |</big>
Line 578 ⟶ 567:
<big>अनुबन्धलोपे
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>▼
▲<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
Line 598 ⟶ 587:
<big>वस्तुतः '''शीङः सार्वधातुके गुणः''' (७.४.२१) कुत्रापि स्वतन्त्रतया कार्यं न करोति; कुत्रचित् गुणं प्रबाध्य, कुत्रचित् गुणनिषेधं प्रबाध्य च स्वकार्यं करोति |</big>
Line 640 ⟶ 628:
<big>F. दीधीङ् दीप्तिदेवनयोः इति धातुः |</big>
<big>दीप्तिः इति प्रकाशः; देवनम् इति दुःखम् | छान्दसि (वेदे) | आत्मनेपदिधातुः |</big>
Line 653 ⟶ 639:
<big>'''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) = असंयोगपूर्व-अनेकाच्-इकारान्ताङस्य यण्-आदेशो भवति अचि परे |</big>
Line 669 ⟶ 654:
<big>इकारादिप्रत्ययेषु '''यीवर्णयोर्दीधीवेव्योः''' (७.४.५३) इत्यनेन दिधी-धातोः अन्त्यवर्ण-इकारस्य लोपः भवति |</big>
<big>दीधी + ईत → दीध् + ईत → दीधीत</big>
<big>'''दीधीवेवीटाम्''' (१.१.६) = दीधी, वेवी इति धातू, इडागमः चेत्येषां गुणः वृद्धिश्च न भवतः | अनेन इडागमस्य गुणः न कदापि भवति— यथा
▲<big>'''दीधीवेवीटाम्''' (१.१.६) = दीधी, वेवी इति धातू, इडागमः चेत्येषां गुणः वृद्धिश्च न भवतः | अनेन इडागमस्य गुणः न कदापि भवति— यथा गम् + इ + स्यति → गमिष्यति; तस्य वृद्धिकार्यं न कुत्रापि विहितम् | दिधीश्च वेवीश्च इट् च तेषामितरेतरद्वन्द्वः दीधीवेवीतः, तेषां दीधीवेवीटाम् | दीधीवेवीटां षष्ट्यन्तं पदम्, एकपदमिदं सूत्रम् | '''इको गुणवृद्धी''' (१.१.३) इत्यस्मात् '''गुणवृद्धी''' इत्यस्य अनुवृत्तिः | '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात् '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''दीधीवेवीटाम् न गुणवृद्धी''' |</big>
Line 679 ⟶ 664:
<big>'''यीवर्णयोर्दीधीवेव्योः''' (७.४.५३) = दीधी, वेवी इति धात्वोः अन्त्यवर्ण-इकारस्य लोपो भवति
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
Line 702 ⟶ 684:
<big>छान्दसि (वेदे) | आत्मनेपदिधातुः |</big>
<big>सर्वाणी सूत्राणि कार्याणि च दीधीङ्-धातोरिव |</big>
Line 726 ⟶ 709:
<big>१) हलादि पित्सु = '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यनेन
<big>२) अजादि पित्सु = गुणः, अवादेशः ('''एचोऽयवायावः''') | यु + आनि → यो + आनि → य् + अव् + आनि → यवानि</big>
Line 739 ⟶ 722:
<big>यथा— यु + ति → कर्त्रर्थे सार्वधातुकप्रत्यये परे '''कर्तरि शप्''' → यु + शप् + ति → शपः लुक् '''अदिप्रभृतिभ्यः शपः''' → यु + ति → '''उतो वृद्धिर्लुकि हलि''' इत्यनेन वृद्धिः → य् + औ + ति → यौति</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
Line 756 ⟶ 739:
<big>एवमेव अवशिष्टाः अष्टौ सामान्य-धातवः—</big>
<big>कु शब्दे → कौति, क्षु शब्दे → क्षौति, क्ष्णु तेजने → क्ष्णौति, णु स्तुतौ → नौति, द्यु अभिगमने → द्यौति, षुप्रसवैश्वर्योः → सौति, ष्णु प्रस्रवणे → स्नौति | ह्नु अपनयने, ङिद्वात् आत्मनेपदे → ह्नुते |</big>▼
▲<big>कु शब्दे → कौति, क्षु शब्दे → क्षौति, क्ष्णु तेजने → क्ष्णौति, णु स्तुतौ → नौति, द्यु अभिगमने → द्यौति,
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्, भ्रू प्रातिपदिकम् च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकर-उकरः स्यात् इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि''' |</big>
Line 763 ⟶ 746:
<big>B. ऊर्णुञ् आच्छादने इति धातुः</big>
Line 801 ⟶ 783:
<big>ञिद्वात् ऊर्णुञ्-धातुः उभयपदी; आत्मनेपदे ऊर्णुते, ऊर्णुवाते, ऊर्णुवते इत्यादीनि रूपाणि |</big>
<big>C. रु शब्दे इति धातुः</big>
<big>'''तुरुस्तुशम्यमः सार्वधातुके''' (७.३.९५) = तु, रु, स्तु, शम्, अम् एभ्यः धातुभ्यः हलादि-सार्वधातुक-तिङ्प्रत्ययस्य विकल्पेन ईट्-आगमः भवति | प्रत्ययः पित् वा अपित् वा, हलादिः अस्ति चेत् ईडागमस्य विकल्पः |</big>
<big>१) ईडागमः नास्ति चेत् तर्हि यु-धातुरिव रूपाणि भवन्ति | रु + ति → रौति; रु + तः → रुतः; रु + अन्ति → रुवन्ति |</big>
Line 814 ⟶ 797:
<big>रु + ति → रु + ईट् + ति → रु + ईति → ति हलादिः पित् आसीत् अतः '''उतो वृद्धिर्लुकि हलि''' इत्यनेन वृद्धिः भवति स्म | अधुना प्रत्ययः "ईति" जातः | अस्मिन् तिपः पित्त्वं तु अस्ति एव, परन्तु अजादिः जातः अतः ईति अजादि-पित् अस्ति | तर्हि अजादि-पितः सामान्यकार्यं भवति अत्र | रु + ईति → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → रो + ईति → '''एचोऽयवायावः''' इत्यनेन अव्-आदेशः →
<big>रु + तः → रु + ईट् + तः → रु + ईतः → तः हलाद्यपित् आसीत्; किन्तु अधुना ईतः अजाद्यपित् अस्ति | अजाद्यपित् अतः '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन उवङ्-आदेशः →
<big>प्रत्ययः अजादिः अस्ति चेत् ईडागमः न भवति | यथा अजाद्यपित् 'अन्ति', अथवा अजादि-पित् 'आनि' इति |</big>
<big>रु + अन्ति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन उवङ्-आदेशः |
<big>रु + आनि → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → रो + आनि → '''एचोऽयवायावः''' इत्यनेन अव्-आदेशः →
▲<big>रु + अन्ति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन उवङ्-आदेशः | र् + उव् + अन्ति → रुवन्ति</big>
▲<big>रु + आनि → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → रो + आनि → '''एचोऽयवायावः''' इत्यनेन अव्-आदेशः → र् + अव् + आनि → रवाणि</big>
<big>तर्हि सारांशः अत्र यत् तु, रु, स्तु, शम्, अम् इत्येषां धातूनां रूपाणि द्विविधा भवन्ति—ईडागमः अस्ति चेत्, अपि च ईडागमः नास्ति चेत् |</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
Line 848 ⟶ 828:
<big>ष्टुञ्-धातुः स्तुतौ अपि अदादौ; कार्यं तथैव—ईट्-अपक्षे यु-धातुवत् स्तौति, ईट्-पक्षे स्तवीति इत्यादीनि रूपाणि |</big>
<big>तु-धातुः सौत्रो
<big>'''तुरुस्तुशम्यमः सार्वधातुके''' (७.३.९५) = तु, रु, स्तु, शम्, अम् एभ्यः धातुभ्यः हलादि-सार्वधातुक-तिङ्प्रत्ययस्य विकल्पेन ईट्-आगमो भवति | तु गतिवृद्धिहिंसासु इति धातुः सौत्रः अस्ति | अर्थात् उल्लेखः धातुपाठे नास्ति, केवलं सूत्रेषु एव उच्यते | शमुँ उपशमे अयम् दिवादिगणस्य धातुः अस्ति, अमँ इति भ्वादिगणस्य धातुः अस्ति | अनयोः धात्वोः विषये ईडागमः केवलं छन्दसि एव भवति न तु लोके यतोहि लोके मध्ये विकरणप्रत्ययः आयाति | किन्तु वेदे तु विकरणस्य लोपः भवितुम् अर्हति '''बहुलं छन्दसि''' (२.४.७३) इत्यनेन सूत्रेण | तुश्च रुश्च स्तुश्च शमिश्च
<big>D. ह्नुङ् अपनयने इति धातुः</big>
Line 936 ⟶ 915:
<big>'''ब्रुव ईट्''' (७.३.९३) = ब्रू-धातुतः हलादि-पित्-प्रत्ययस्य ईट्-आगमो भवति | ब्रुवः पञ्चम्यन्तम्, ईट् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात् '''हलि''' इत्यस्य अनुवृत्तिः | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात् '''पिति, सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''
Line 942 ⟶ 921:
<big>'''आहस्थः''' (८.२.३५) = आह् इत्यस्य हकारस्य स्थाने थकारादेशो भवति झलि परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन आह्-धातोः अन्तिमवर्णस्य हकारस्य स्थाने थकारः | आहः षष्ठ्यन्तं, थः प्रथमान्तं, द्विपदमिदं
<big>F. षूङ् प्राणि-गर्भविमोचने (सू-धातुः)</big>
<big>'''भूसुवोस्तिङि''' (७.३.८८) = भू सू इति धातुभ्यां सार्वधातुके तिङ्प्रत्यये परे गुणनिषेधः भवति | भू-धातुः भ्वादिगणे, यथा लुङ्-लकारे भू-धातोः परे तिङ् साक्षात् आयाति | तत्र इकः गुणः भवति स्म, परन्तु अनेन सूत्रेण गुणनिषेधः, अभूत् इति रूपम् | सू-धातुः अदादिगणे; अनेन सूत्रेण पिति परे अपि गुणः न | भूश्च सूश्च भूसुवौ इतरेतरद्वन्द्वः, तयोः भूसुवोः | भूसुवोः षष्ठ्यन्तं, तिङि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात् '''न, सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात् '''गुणः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''भूसुवोः न गुणः सार्वधातुके तिङि''' |</big>
<big>षूङ्-धातुः ङित् अतः आत्मनेपदी—</big>
Line 987 ⟶ 967:
<big>तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयम्—</big>
<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''झोऽन्तः''' (७.१.३) इत्यस्मात् '''झः''' (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्''' (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत्''' |</big>
<big>२) '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात् '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्''' (३.४.१०८) इत्यस्मात् '''झेः जुस्''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस्''' |</big>
<big>तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्—</big>▼
▲<big>तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्—</big>
<big>१) हलादि पित्सु = गुणः | ऋ →
<big>२) अजादि पित्सु = गुणः | जागृ + आनि →
<big>३) हलाद्यपित्सु = क्ङिति च, गुणनिषेदः | जागृ + तः → जागृतः</big>
Line 1,009 ⟶ 989:
<big>लङि विशिष्टं कार्यद्वयम्—</big>
<big>१) अजागृ + त् → गुणः →
<big>अजागृ + स् → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' इत्यनेन स्-लोपः →
<big>२) अजागृ + जुस् → अजागृ + उः → '''जुसि च''' इत्यनेन गुणः →
Line 1,022 ⟶ 1,002:
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः |
<big>अजागृ + स् → अजागः</big>
<big>'''जुसि च''' (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | '''क्सस्याचि''' (७.३.७२) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः | '''मिदेर्गुणः''' (७.३.८२) त्यस्मात् '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इति परिभाषासूत्रेण '''इकः''' स्थानी भवति | अनुवृत्ति-सहितसूत्रम्— '''इकः अङ्गस्य गुणः अचि जुसि च''' |</big>
Line 1,041 ⟶ 1,021:
<big>जागृ + णिच् → '''अचो ञ्णिति''' (७.२.११५) इति प्रबाध्य '''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन गुणः →
▲<big>जागृ + णिच् → '''अचो ञ्णिति''' (७.२.११५) इति प्रबाध्य '''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन गुणः → जागर् + इ → जागरि इति णिजन्तधातुः → जागरयति</big>
Line 1,048 ⟶ 1,028:
<big>जागृ + क्त → '''क्क्ङिति च''' (१.१.५) इति प्रबाध्य '''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन गुणः →
Line 1,054 ⟶ 1,034:
<big>जागृ + ति → '''सार्वधातुकार्धधातुकयोः''' (७.२.११५) इति प्रबाध्य '''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन गुणः →
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
Line 1,075 ⟶ 1,054:
<big>Swarup – August 2013 (Updated March 2016)</big>▼
[https://static.miraheze.org/samskritavyakaranamwiki/
▲<big>Swarup – August 2013 (Updated March 2016)</big>
▲[https://static.miraheze.org/samskritavyakaranamwiki/a/a9/%E0%A5%AB_-_%E0%A4%85%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%85%E0%A4%9C%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83_%28c%29.pdf ५ - अदादिगणे अजन्तधातवः (c).pdf] (168k) Swarup Bhai, Sep 4, 2019, 1:54 AM v.1
|