6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH: Difference between revisions

no edit summary
m (Protected "05A- अदादिगणे अजन्तधातवः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
 
(9 intermediate revisions by the same user not shown)
Line 102:
 
<big>३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</big>
 
 
 
<big>१. <u>विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌</u></big>
Line 169 ⟶ 171:
 
 
<big>'''लङः शाकटायनस्यैव''' (३.४.१११) = आकारान्तात्‌ धातोः लङि झेः जुस्‌ आदेशः भवति शाकटायनस्य मतेन | शाकटायनः कश्चन वैयाकरणः आसीत्‌, पाणिनेः पूर्वम्‌ | अनेन परस्मैपदे लङि प्रथमपुरुषबहुवचने विकल्पेन अन्‌, उः, इत्येतयौइत्येतौ तिङ्‌-प्रत्ययौ भवतः | लङः षष्ठ्यन्तं, शाकटायनस्य षष्ठ्यन्तम्‌, एव अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''आतः''' (३.४.११०) इति सूत्रस्य अनुवृत्तिः, '''झेर्जुस्‌''' (३.४.१०८) इत्यस्मात्‌ '''झेः''', '''जुस्‌''' इत्यनयोः अनुवृत्तिः | '''धातोः''' (३.१.९१) इत्यस्य अधिकारः, पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌; अत्र “'''आतः धातोः'''" अस्मिन्‌ सूत्रे आयाति | अनुवृत्ति-सहितसूत्रम्‌— '''शाकटायनस्य एव (मते) लङः आतः धातोः झेः जुस्‌''' |</big>
 
<big>'''लङः शाकटायनस्यैव''' ''(''३.४.१११) इत्यनेन जुस्‌-आदेशः कथं न भवति लोटि इत्यस्मिन्‌ विषये महती चर्चा | केचन वदन्ति यत्‌ '''''विदो लटो वा''''' (३.४.८३) इत्यस्मात्‌ वा इत्यस्य अनुवृत्तिः अनयोः सूत्रयोः येन लोटि अप्रसक्तेः अनुमतिः स्यात्‌; अन्ये वदन्ति यत्‌ लङ्वत्‌ इत्यस्मिन्‌ वति-प्रत्ययः 'न नित्यः'; 'वतिपदघटितम्‌ अनित्यम्‌' इति प्रसिद्धवाक्यम्‌ | अत्र 'न नित्यः' इत्यस्य सारांशः एवं यत्‌ लोटि लङः स्वभावः अध्यारोप्यते, किन्तु लक्ष्यम्‌ अधिकृत्य— यत्र फलं नापेक्षते, तत्र प्रसक्तिः न भवति | अतः '''लङः''' '''शाकटायनस्यैव''' (३.४.१११) इति सूत्रेण कार्यं भवति लङि किन्तु लोटि न अपेक्षते, अतः 'लङ्वत्‌' इति तत्र न गच्छति |</big>
 
 
Line 222 ⟶ 226:
 
 
<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति | अत्‌ प्रथमान्तम्‌, अभ्यस्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झोऽन्तः''' (७.१.३) इत्यस्मात्‌ '''झः''' (षष्ठ्यन्तम्‌) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगांफढखच्छगां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तात्‌ अङ्गात्‌ प्रत्ययादेः झः अत्‌''' |</big>
 
 
Line 245 ⟶ 249:
<big>४) '''श्नाभ्यस्तयोरातः''' (६.४.११२) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्‌, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्मात्‌ '''लोपः''', इत्यस्य अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात्‌ '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके''' |</big>
 
<big>'''श्नाभ्यस्तयोरातः''' (६.४.११२) इति सूत्रेण न केवलम्‌ अजाद्यपिति अपि तु हलाद्यपिति अपि कार्यं विहितं, किन्तु हलाद्यपित्सु परेषु '''ई हल्यघोः''' (६.४.११३) इत्यनेन आकारस्य लोपकार्यं प्रबाध्य आकारस्य स्थाने ई-कारादेशः विधीयते | तदा हलाद्यपित्सु '''ई हल्यघोः''' इत्यस्य बाधकं सूत्रम्‌ '''इद्‌ दरिद्रस्य''' (६.४.११४), येन आ-स्थाने इकारादिष्टः | आहत्य '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन आकारस्य लोपः केवलम्‌ अजाद्यपित्सु भवति | अजाद्यपित्सु कार्यं भवति यथा दरिद्रा + अति → दरिद्र्‍दरिद्र् + अति → दरिद्रति | दरिद्रा + अतु → दरिद्र्‍दरिद्र् + अतु → दरिद्रतु |</big>
 
 
Line 317 ⟶ 321:
 
 
<big>'''आडजादीनाम्‌''' (६.४.७२) = लुङ्‌ लङ्‌ लृङ्‌ च परे चेत्‌, अजादिधातुरूपि-अङ्गस्य आट्‌-आगमो भवति; स च अडागमःआडागमः उदात्त-संज्ञकः | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन अङ्गात्‌ प्राक्‌ आयाति | अच्‌ आदिर्येषां ते, अजादयः बहुव्रीहिः; तेषाम्‌ अजादीनाम्‌ | आट्‌ प्रथमान्तम्‌, अजादीनाम्‌ षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''लुङ्लङ्लृङ्क्ष्वडुदात्तः''' (६.४.७१) इत्यस्मात्‌ '''लुङ्‌लङ्‌लृङ्क्षु''', '''उदात्तः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अजादीनाम्‌ अङ्गस्य आट्‌ उदात्तः लुङ्‌लङ्‌लृङ्क्षु''' |</big>
 
 
Line 382 ⟶ 386:
 
 
<big>'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यषष्ठाध्यायस्य अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌ (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम्‌ | असिद्धवत्‌ अव्यपदयम्‌, अत्र अव्यपदयम्‌, आ अव्यपदयं, भात्‌ पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | 'असिद्धवत्‌' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्‌' अतः 'असिद्धवत्‌' इत्युक्तम्‌ | ‘समानाश्रितं कार्यम्‌' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन्‌ + त्रल्‌ → 'अत्र' | 'अस्मिन्‌' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम्‌ इति आशयः | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
 
Line 416 ⟶ 420:
 
 
<big>१) (लङि) अडागमः आडागमः च | '''आडजादीनाम्‌''' (६.४.७२) इति सूत्रं लावस्थायां विधीयते, अतः इदं सूत्रं सामान्यरूपेण सर्वाप्रथमंसर्वप्रथमं भवेत्‌ |</big>
 
<big>२) तिङ्‌-निमित्तम्‌ अङ्गकार्यम्‌ | अङ्गकार्यम्‌ इदम्‌, अतः बलवत्‌ |</big>
Line 563 ⟶ 567:
 
 
<big>अनुबन्धलोपे र्‍र् इति आगमः | अते → रते | अताम्‌ → रताम्‌ | अत → रत |</big>
 
 
Line 654 ⟶ 658:
<big>दीधी + ईत → दीध्‌ + ईत → दीधीत</big>
 
<big>'''दीधीवेवीटाम्‌''' (१.१.६) = दीधी, वेवी इति धातू, इडागमः चेत्येषां गुणः वृद्धिश्च न भवतः | अनेन इडागमस्य गुणः न कदापि भवति— यथा गम्‌भू + तास् + स्यतिलुट्गमिष्यतिभू + इत् + आ → भविता ( भू-धातोः लुट्लकारस्य रूपं, सम्पूर्णा प्रक्रिया न प्रदर्शिता); तस्य वृद्धिकार्यं न कुत्रापि विहितम्‌ | दिधीश्चदीधीश्च वेवीश्च इट्‌ च तेषामितरेतरद्वन्द्वः दीधीवेवीतःदीधीवेवीटः, तेषां दीधीवेवीटाम्‌ | दीधीवेवीटां षष्ट्यन्तंषष्ठ्यन्तं पदम्‌, एकपदमिदं सूत्रम्‌ | '''इको गुणवृद्धी''' (१.१.३) इत्यस्मात्‌ '''गुणवृद्धी''' इत्यस्य अनुवृत्तिः | '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''दीधीवेवीटाम्‌ न गुणवृद्धी''' |</big>
 
 
Line 660 ⟶ 664:
 
 
<big>'''यीवर्णयोर्दीधीवेव्योः''' (७.४.५३) = दीधी, वेवी इति धात्वोः अन्त्यवर्ण-इकारस्य लोपो भवति यकारादि-प्रत्ययेयकारादौ इवर्णेइवर्णादौ च परे | यकारे तु इकारः उच्चारणार्थः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अल्‌-वर्णस्य लोपः | यिश्च इवर्णश्च यीवर्णौ इतरेतरद्वन्द्वः, तयोः यीवर्णयोः | दीधीश्च वेवीश्च दीधीवेव्यौ इतरेतरद्वन्द्वः, तयोः दीधीवेव्योः | यीवर्णयोः सप्तम्यन्तं, दीधीवेव्योः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''तासस्त्योर्लोपः''' (७.४.५०) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''दीधीवेव्योः अङ्गस्य लोपः यीवर्णयोः''' |</big>
 
 
Line 705 ⟶ 709:
 
 
<big>१) हलादि पित्सु = '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यनेन वृद्धिवृद्धिः | यु + ति → य्‌ + औ + ति → यौति</big>
 
<big>२) अजादि पित्सु = गुणः, अवादेशः ('''एचोऽयवायावः''') | यु + आनि → यो + आनि → य्‌ + अव्‌‌ + आनि → यवानि</big>
Line 736 ⟶ 740:
 
 
<big>कु शब्दे → कौति, क्षु शब्दे → क्षौति, क्ष्णु तेजने → क्ष्णौति, णु स्तुतौ → नौति, द्यु अभिगमने → द्यौति, षुप्रसवैश्वर्योःषु प्रसवैश्वर्योः → सौति, ष्णु प्रस्रवणे → स्नौति | ह्‌नु अपनयने, ङिद्वात्‌ आत्मनेपदे → ह्नुते |</big>
 
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्‌, भ्रू प्रातिपदिकम्‌ च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकर-उकरः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि''' |</big>
Line 793 ⟶ 797:
 
 
<big>रु + ति → रु + ईट्‌ + ति → रु + ईति → ति हलादिः पित्‌ आसीत्‌ अतः '''उतो वृद्धिर्लुकि हलि''' इत्यनेन वृद्धिः भवति स्म | अधुना प्रत्ययः "ईति" जातः | अस्मिन्‌ तिपः पित्त्वं तु अस्ति एव, परन्तु अजादिः जातः अतः ईति अजादि-पित्‌ अस्ति | तर्हि अजादि-पितः सामान्यकार्यं भवति अत्र | रु + ईति → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → रो + ईति → '''एचोऽयवायावः''' इत्यनेन अव्‌-आदेशः → र्‍र् + अव्‌ + ईति → रवीति</big>
 
 
<big>रु + तः → रु + ईट्‌ + तः → रु + ईतः → तः हलाद्यपित्‌ आसीत्‌; किन्तु अधुना ईतः अजाद्यपित्‌ अस्ति | अजाद्यपित्‌ अतः '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन उवङ्‌-आदेशः → र्‍र् + उव्‌ + ईतः → रुवीतः</big>
 
 
<big>प्रत्ययः अजादिः अस्ति चेत्‌ ईडागमः न भवति | यथा अजाद्यपित्‌ 'अन्ति', अथवा अजादि-पित्‌ 'आनि' इति |</big>
 
<big>रु + अन्ति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन उवङ्‌-आदेशः | र्‍र् + उव्‌ + अन्ति → रुवन्ति</big>
 
<big>रु + आनि → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → रो + आनि → '''एचोऽयवायावः''' इत्यनेन अव्‌-आदेशः → र्‍र् + अव्‌ + आनि → रवाणि</big>
 
 
Line 824 ⟶ 828:
<big>ष्टुञ्‌-धातुः स्तुतौ अपि अदादौ; कार्यं तथैव—ईट्‌-अपक्षे यु-धातुवत्‌ स्तौति, ईट्‌-पक्षे स्तवीति इत्यादीनि रूपाणि |</big>
 
<big>तु-धातुः सौत्रो धातुर्गतिवृद्धिइंसासुधातुर्गतिवृद्धिहिंसासु इति धातुपाठे नास्ति, किन्तु अदादिगणीयः इति मन्यन्ते | रूपाणि रु-धातुवत्‌, तौति, तवीति इत्यादिकम्‌ |</big>
 
 
<big>'''तुरुस्तुशम्यमः सार्वधातुके''' (७.३.९५) = तु, रु, स्तु, शम्‌, अम्‌ एभ्यः धातुभ्यः हलादि-सार्वधातुक-तिङ्‌प्रत्ययस्य विकल्पेन ईट्‌-आगमो भवति | तु गतिवृद्धिहिंसासु इति धातुः सौत्रः अस्ति | अर्थात् उल्लेखः धातुपाठे नास्ति, केवलं सूत्रेषु एव उच्यते | शमुँ उपशमे अयम् दिवादिगणस्य धातुः अस्ति, अमँ इति भ्वादिगणस्य धातुः अस्ति | अनयोः धात्वोः विषये ईडागमः केवलं छन्दसि एव भवति न तु लोके यतोहि लोके मध्ये विकरणप्रत्ययः आयाति | किन्तु वेदे तु विकरणस्य लोपः भवितुम् अर्हति '''बहुलं छन्दसि''' (२.४.७३) इत्यनेन सूत्रेण | तुश्च रुश्च स्तुश्च शमिश्च आम्‌अम्‌ च तेषां समाहारद्वन्द्वः तुरुस्तुशम्यम्‌, तस्मात्‌ तुरुस्तुशम्यमः | तुरुस्तुशम्यमः पञ्चम्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''भूस्तुवोस्तिङि''' (७.३.८८) इत्यस्मात्‌ '''तिङि''' इत्यस्य अनुवृत्तिः; '''ब्रुव ईट्‌''' (७.३.९३) इत्यस्मात्‌ '''ईट्‌''' इत्यस्य अनुवृत्तिः; '''यङो वा''' (७.३.९४) इत्यस्मात्‌ '''वा''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''तुरुस्तुशम्यमः अङ्गात्‌ ईट्‌ वा हलि सार्वधातुके तिङि''' |</big>
 
 
Line 911 ⟶ 915:
 
 
<big>'''ब्रुव ईट्''' (७.३.९३) = ब्रू-धातुतः हलादि-पित्‌-प्रत्ययस्य ईट्‌-आगमो भवति | ब्रुवः पञ्चम्यन्तम्‌, ईट्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात्‌ '''पिति, सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ब्रुवब्रुवः अङ्गात्‌ ईट् हलि पिति सार्वधातुके''' |</big>
 
 
Line 917 ⟶ 921:
 
 
<big>'''आहस्थः''' (८.२.३५) = आह्‌ इत्यस्य हकारस्य स्थाने थकारादेशो भवति झलि परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन आह्‌-धातोः अन्तिमवर्णस्य हकारस्य स्थाने थकारः | आहः षष्ठ्यन्तं, थः प्रथमान्तं, द्विपदमिदं सीत्रम्‌सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''आहः थः झलि''' |</big>
 
 
Line 974 ⟶ 978:
<big>तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌—</big>
 
<big>१) हलादि पित्सु = गुणः | ऋ → अर्‍अर् | जागृ + ति → जागर्‍जागर् + ति → जागर्ति</big>
 
<big>२) अजादि पित्सु = गुणः | जागृ + आनि → जागर्‍जागर् + आनि → जागराणि</big>
 
<big>३) हलाद्यपित्सु = क्ङिति च, गुणनिषेदः | जागृ + तः → जागृतः</big>
Line 985 ⟶ 989:
<big>लङि विशिष्टं कार्यद्वयम्‌—</big>
 
<big>१) अजागृ + त्‌ → गुणः → अजागर्‍अजागर् + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' इत्यनेन त्‌-लोपः → अजागर्‍अजागर् → '''खरवासयोर्विसर्जनीयः''' इत्यनेन र्‍र्-स्थाने विसर्गः → अजागः</big>
 
<big>अजागृ + स्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' इत्यनेन स्‌-लोपः → अजागर्‍अजागर् → '''खरवासयोर्विसर्जनीयः''' इत्यनेन र्‍र्-स्थाने विसर्गः → अजागः</big>
 
<big>२) अजागृ + जुस्‌ → अजागृ + उः → '''जुसि च''' इत्यनेन गुणः → अजागर्‍अजागर् + उः → अजागरुः</big>
 
 
Line 998 ⟶ 1,002:
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात्‌ '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम्''' |</big>
 
 
Line 1,017 ⟶ 1,021:
 
 
<big>जागृ + णिच्‌ → '''अचो ञ्णिति''' (७.२.११५) इति प्रबाध्य '''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन गुणः → जागर्‍जागर् + इ → जागरि इति णिजन्तधातुः → जागरयति</big>
 
 
Line 1,024 ⟶ 1,028:
 
 
<big>जागृ + क्त → '''क्क्ङिति च''' (१.१.५) इति प्रबाध्य '''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन गुणः → जागर्‍जागर् + क्त → '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन आर्धधतुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति → जागर्‍जागर् + इ + त → जागरितः</big>
 
 
Line 1,030 ⟶ 1,034:
 
 
<big>जागृ + ति → '''सार्वधातुकार्धधातुकयोः''' (७.२.११५) इति प्रबाध्य '''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन गुणः → जागर्‍जागर् + ति → जागर्ति</big>
 
 
Line 1,051 ⟶ 1,055:
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/a0/a906/%E0%A5%AB_-_%E0%A4%85%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%85%E0%A4%9C%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83_%28c%2983.pdf ५ - अदादिगणे अजन्तधातवः (c).pdf] (168k) Swarup Bhai, Sep 4, 2019, 1:54 AM v.1
 
<big>Swarup – August 2013 (Updated March 2016)</big>
page_and_link_managers, Administrators
5,097

edits