6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH (view source)
Revision as of 18:27, 22 May 2021
, 3 years agono edit summary
No edit summary |
No edit summary |
||
Line 50:
<big>'''अदिप्रभृतिभ्यः शपः''' (२.४.७२) = अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्-प्रत्ययस्य लुक् (लोपः) भवति | अदिः प्रभृतिः (आदिः) येषां ते अदिप्रभृतयः बहुव्रीहिः, तेभ्यः अदिप्रभृतिभ्यः | अदिप्रभृतिभ्यः पञ्चम्यन्तं, शपः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''ण्यक्षत्रियार्षञितो यूनि लुगणिञोः''' (२.४.५८) इत्यस्मात् '''लुक्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अदिप्रभृतिभ्यः शपः लुक्''' |</big>
<big>१. अत्र प्रश्नः उदेति यत् लोप-लुक् इत्यनयोः भेदः कः ? द्वाभ्यां प्रत्ययस्य अपगमनम् | लोपः इत्युक्ते प्रत्ययः गतः, परन्तु अनुपस्थितौ अपि कार्यं कर्तुम् अर्हति | एतदर्थं सूत्रम् अस्ति '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२); अनेन प्रत्ययस्य लोपे सत्यपि लुप्तप्रत्ययस्य लक्षणम् अस्त्येव | "लक्षणम् अस्ति" इत्युक्ते लुप्त-प्रत्ययः यद्यपि न दृश्यते, परन्तु तस्य प्रभावम् अनुसृत्य यत् किमपि कार्यं प्रसक्तम् अस्ति, तत् कार्यं भवति |</big>
<big>'''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात् | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन् प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणम्, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— '''प्रत्ययलोपे प्रत्ययलक्षणम्''' |</big>
<big>तर्हि प्रत्यये लुप्ते तदाश्रितं कार्यं भवति | लुक् न तथा; प्रत्ययस्य लुक् भवति चेत् न केवलं प्रत्ययः गच्छति, अपि तु तदाश्रितं कार्यमपि न स्यात् | तद्विधायकं सूत्रम् अस्ति '''न लुमताऽङ्गस्य''' (१.१.६३) |</big>
<big>'''न लुमताऽङ्गस्य''' (१.१.६३) = यस्मिन् शब्दे 'लु' अस्ति, तेन शब्देन प्रत्ययादर्शनं विहितं चेत्, सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात् | लुः अस्य अस्ति इति लुमान्, तेन लुमता | न अव्ययपदं, लुमता तृतीयान्तम्, अङ्गस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न |</big>
<big>अस्मिन् सूत्रे लुमता, लुमत् इति प्रातिपदिकस्य तृतीयाविभक्त्यन्तं रूपम् | इदं मतुप्-प्रत्ययान्तं; प्रथमाविभक्तौ लुमान् | मतुप्-प्रत्ययस्य अर्थः अस्य अस्मिन् वा; यथा बुद्धिमान् इत्युक्ते बुद्धिः अस्य अस्मिन् वा, सः बुद्धिमान् | तर्हि 'लु' अस्य अस्मिन् वा, सः लुमान् | व्याकरणे त्रयः लुमन्तः सन्ति— लुक्, श्लु, लुप् चेति | इदं सूत्रं वक्ति यत् येन अदर्शनं भवति, सः लुमान् अस्ति चेत्, तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति | अनुवृत्ति-सहितसूत्रं तथैव— '''(यदा) लुमता प्रत्ययलोपे (तदा) अङ्गस्य प्रत्ययलक्षणं न''' | अतः '''न लुमताऽङ्गस्य''' (१.१.६३) इति सूत्रं '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यस्य बाधकसूत्रम् | तर्हि अत्र सारांशः एवं यत् लुक् इत्यनेन कस्यचित् प्रत्ययस्य अदर्शनं भवति चेत्, यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः, तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति |</big>
<big>आहत्य लोपप्रकरणे चत्वारि सूत्राणि | क्रमेण—</big>
Line 78 ⟶ 87:
<big>'''न लुमताऽङ्गस्य''' (१.१.६३) = लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् |</big>
<big>अदादिगणे विकरणप्रत्ययः शप् आसीत्, अनन्तरं तस्य लुक् अभवत् | लुमता शपः अदर्शनं जातम्, अतः धात्वङ्गे शप्-निमित्तकम् अङ्गकार्यं नार्हम् |</big>
<big>अधुना नूतनबिन्दुः—यद्यपि शपः लुक् जातम् अतः शप्-निमित्तकम् अङ्गकार्यं निषिद्धं, परन्तु कुत्रचित् लुक्-निमित्तं विशिष्टकार्यं सञ्जायते | यत्र लुकः सङ्केतः सूत्रेषु भवति तत्र एतादृशं कार्यम् "अदादिगणे" भवति इति बोध्यम् | यथा— '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इति सूत्रं द्रक्ष्यामः | लुकः विषये, हलादि पिति उदन्ताङ्गस्य वृद्धिः (पित् परे अस्ति अतः गुणः भवति स्म, परन्तु गुणं प्रबाध्य वृद्धिः) | अस्मिन् सूत्रे 'लुक्' अस्ति, अतः अदादिगणे तस्य प्रसक्तिः | यथा, यु + ति → य् + औ + ति → यौति | अन्यत्र—यत्र शपः लोपः जातः किन्तु लुक् इत्यनेन न—तत्र अस्य सूत्रस्य प्रसक्तिः न भवति | तर्हि सारांशः अत्र यत् अदादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते, परन्तु विकरणप्रत्ययस्य यया रीत्या अदर्शनं कृतं, तया विशिष्टकार्यम् अपि भवति—यथा अत्र वृद्धिः |</big>
<big>२. अदादिगणे विकरणप्रत्ययः न दृश्यते अतः धातोः साक्षात् परे तिङ्प्रत्ययाः विहिताः भवन्ति | यथा पा + ति → पाति | प्रथमवारम् अस्माभिः एतादृशी गतिः अवलोकिता | एतावता धातुः कुत्रापि तिङ्प्रत्ययेन न प्रभावितः | भ्वादिगणे, दिवादिगणे, तुदादिगणे, स्वादिगणे, तनादिगणे, क्र्यादिगणे च धात्वङ्गे अङ्गकार्यस्य निमित्तं विकरणप्रत्ययः एव | परन्तु अदादौ न तथा | यथा इण्-धातुः, इ + ति → एति; इ + तः → इतः | सारांशः एवं यत् अदादौ धातोः अङ्गकार्यं साक्षात् तिङ्प्रत्ययेन | तिङ्प्रत्ययाः परिवर्तन्ते, अतः अङ्गकार्यमपि परिवर्तते |</big>
<big>३. वयं जानीमः यत् दश धातुगणाः विभक्ताः तिङ्प्रत्यय-निमित्तकस्य अङ्गस्य अन्तिमवर्णस्य अनुसारम् | येषु धातुगणेषु अङ्गम् अदन्तं भवति, ते धातुगणाः प्रथमगणसमूहे वर्तन्ते | येषु धातुगणेषु अङ्गम् अनदन्तं भवति, ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते | तर्हि अत्र प्रश्नः उदेति यत् अदादिगणः कस्मिन् गणसमूहे अस्ति अपि च किमर्थम् ? सामान्यतया धातुगणेषु विकरणप्रत्ययाः सन्ति; तत्र विकरणप्रत्ययस्य अन्तिमवर्णः एव अङ्गस्य अन्तिमवर्णः | यथा भ्वादौ शप् इति विकरणप्रत्ययः; भू-धातोः भव इत्यङ्गम्; अङ्गस्य अन्तिमवर्णः ह्रस्व-अकारः (शपः एव अन्तिमवर्णः) | अतः अङ्गम् अदन्तम् | स्वादौ श्नु इति विकरणप्रत्ययः; चि-धातोः चिनु इत्यङ्गम्; अङ्गस्य अन्तिमवर्णः उकारः (श्नोः एव अन्तिमवर्णः) | अतः अङ्गम् अनदन्तम् | अधुना अदादौ कथं भवति ? विकरणप्रत्ययस्तु नास्त्येव; तर्हि केन आधारेण अङ्गं ज्ञायते ? अङ्गम् अदन्तं वा अनदन्तं वा इत्यत्र कथं निर्णीयते ? उत्तरं तु अस्माभिः प्रायः बुद्धमेव | अदादौ धातुरेव अङ्गम् अतः धातोः यः अन्तिमवर्णः, स एव अङ्गस्यापि | अदादौ अस्-धातुः सकारान्तः (अतः अङ्गमपि सकारान्तं), पा-धातुः आकारान्तः (अतः अङ्गमपि आकारान्तं), यु-धातुः उकारान्तः (अतः अङ्गमपि उकारान्तम्) | अदादौ यथा धातुः तथा अङ्गम् | अपि च अदादौ अकारान्तधातवः न सन्त्येव, अतः सर्वाणि अङ्गानि अनदन्तानि | अत एव अदादिगणः द्वितीयगणसमूहे वर्तते |</big>
<big>४. तिङन्तपदानां सिद्ध्यर्थम् अदादिगणः वर्गद्वये विभक्तः—अजन्तधातवः हलन्तधातवः च | अधुना अजन्तधातूनां तिङन्तरूपाणि साधयाम | अदादिगणे हलन्तधातूनां कृते प्रथमतया हल्-सन्धिः पठनीयः | साधारणभाषाज्ञानार्थं यः हल्-सन्धिः, सः तु न; पदस्य व्युत्पत्त्यर्थं हल्-सन्धिः | अस्माकं पाठे अपरेषु गणेषु हलन्तधातवः आसन्, परन्तु एतावता धातु-तिङ्प्रत्यययोः मध्ये विकरणप्रत्ययः भवति स्म, अपि च विकरणप्रत्ययाः सर्वे अजन्ताः सन्ति अतः अङ्ग-तिङ्प्रत्यययोः संयोजने हल्-हल् इत्यनयोः मेलनं न जातम् | हल्-सन्धेः च अवसरः न जातः | दिवादिगणे (य), स्वादिगणे (नु), क्र्यादिगणे (ना) च विकरणप्रत्ययः स्वयं हलादिः अतः हलन्तधातु-हलादिविकरणयोः संयोजनं तु भवति, परन्तु तत्र केवलं मेलनं भवति | इत्युक्ते तत्र हल्-हल् इत्यनयोः संयोजने विकारः न भवति अतः केवलं मेलनं न तु सन्धिः |</big>
<big>अदादिगणे यथा वच्-धातुः अस्ति, तत्र साक्षात् परे ति आयाति वच् + ति → वक्ति | अत्र चकारः ककारः जातः, विषयः च हल्-सन्धिः इति | जुहोत्यादिगणे रुधादिगणे चापि तादृशः हल्-सन्धेः विषयः आयाति, अतः प्रथमम् अदादिगणस्य अजन्तधातवः अस्माभिः करिष्यन्ते, तदा जुहोत्यादिगणस्य अजन्तधातवः | परं हल्-सन्धिः इति विषयः परिशीलनीयः | अनन्तरम् अदादिगणस्य, जुहोत्यादिगणस्य, रुधादिगणस्य च हलन्तधातवः अवलोकनीयाः | (रुधादिगणे अजन्तधातवः न सन्त्येव |)</big>
Line 106 ⟶ 131:
<big>३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्</big>
<big>१. <u>विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्</u></big>
<big>कुत्रापि किमपि कार्यं नास्ति यतः शप्-विकरणप्रत्ययस्य लुक् भवति अतः शप् न दृश्यते न वा अङ्गकार्यस्य निमित्तं भवति |</big>
<big>२. <u>तिङ्प्रत्यय-सिद्धिः</u></big>
<big>अदादिगणे अङ्गम् अनदन्तम्, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः भवन्ति | धातुद्वयस्य (दरिद्रा, जागृ) कृते विशेषकार्यं वर्तते | अस्मिन् पाठे यत्र तयोः विवरणम् अस्ति, तत्रैव इदं कार्यं प्रदर्शयिष्यते | तौ द्वौ विहाय यत्र अङ्गम् अनदन्तं, तत्र यथा सर्वेषां धातूनां कृते सिद्ध-तिङ्संज्ञकप्रत्ययाः तथा अत्रापि | अतः अदादिगणे सिद्ध-तिङ्प्रत्ययाः एते एव—</big>
Line 127 ⟶ 161:
<big> <u>लट्-लकारः</u></big>
<big> '''ति''' तः अन्ति ते आते अते</big>
<big> '''सि''' थः थ से आथे ध्वे</big>
<big> '''मि''' वः मः ए वहे महे</big>
Line 139 ⟶ 174:
<big> '''तु''', तात् ताम् अन्तु ताम् आताम् अताम्</big>
<big>
▲<big> '''आनि आव आम ऐ आवहै आमहै'''</big>
Line 152 ⟶ 188:
<big> '''अम्''' व म इ वहि महि</big>
Line 167 ⟶ 204:
<big>अत्र कार्यं वर्तते, यत्र प्राप्तिः अस्ति | अष्टप्रकारकाः अजन्तधातवः सन्ति (अदादिगणे षट्, यतः अकारान्तधातवः, ॠकारान्तधातवः च न सन्ति) |</big>
<big>1. <u>आकारान्तधातवः</u> (15 = या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा, ला, दा, ख्या, प्रा, मा, दरिद्रा)</big>
<big>A. सामान्य-आकारान्तधातवः (14 = या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा, ला, दा, ख्या, प्रा, मा)</big>
Line 180 ⟶ 222:
<big>'''उस्यपदान्तात्''' (६.१.९६) = अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूपम् एकादेशः भवति; आद्गुणस्य अपवादः | अवा + उः → अव् + उः → अवुः | न पदान्तम् अपदान्तं, तस्मात् अपदान्तात् | उसि सप्तम्यन्तम्, अपदान्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''आद्गुणः''' (६.१.८७) इत्यस्मात् '''आत्''' इत्यस्य अनुवृत्तिः | '''इको यणचि''' (६.१.७७) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः; अनुवर्तते अत्र यतोहि परेषु सूत्रेष्वपि तस्य आवश्यकता | '''एङि पररूपम्''' (६.१.९४) इत्यस्मात् '''पररूपम्''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपम् संहितायाम्''' |</big>
<big>अन्यत्र सन्धिः एव भवति |</big>
Line 207 ⟶ 249:
<big>या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा ला, दा, ख्या, प्रा, मा एतेषां धातूनां सार्वधातुलकारेषु तिङन्तरूपाणि अपि तथैव भवन्ति |</big>
<big>B. आत्मनेपदे गा धातुः भ्वादिगणे, परन्तु रूपाणि अदादिगणीयानि सन्ति |</big>
Line 222 ⟶ 268:
<big>विधिलिङि—</big>
<big>C. दरिद्रा धातुः</big>
Line 247 ⟶ 297:
<big>२) '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात् '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्''' (३.४.१०८) इत्यस्मात् '''झेः जुस्''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस्''' |</big>
<big>अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्-आदेशः | जुस् इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि आहत्य अभ्यस्तसंज्ञकः धातुः अस्ति चेत्, लङि अन्-स्थाने उः इति प्रत्ययः भवति |</big>
|