6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH (view source)
Revision as of 19:48, 22 May 2021
, 3 years agono edit summary
No edit summary |
No edit summary |
||
Line 50:
<big>'''अदिप्रभृतिभ्यः शपः''' (२.४.७२) = अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्-प्रत्ययस्य लुक् (लोपः) भवति | अदिः प्रभृतिः (आदिः) येषां ते अदिप्रभृतयः बहुव्रीहिः, तेभ्यः अदिप्रभृतिभ्यः | अदिप्रभृतिभ्यः पञ्चम्यन्तं, शपः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''ण्यक्षत्रियार्षञितो यूनि लुगणिञोः''' (२.४.५८) इत्यस्मात् '''लुक्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अदिप्रभृतिभ्यः शपः लुक्''' |</big>
<big>१. अत्र प्रश्नः उदेति यत् लोप-लुक् इत्यनयोः भेदः कः ? द्वाभ्यां प्रत्ययस्य अपगमनम् | लोपः इत्युक्ते प्रत्ययः गतः, परन्तु अनुपस्थितौ अपि कार्यं कर्तुम् अर्हति | एतदर्थं सूत्रम् अस्ति '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२); अनेन प्रत्ययस्य लोपे सत्यपि लुप्तप्रत्ययस्य लक्षणम् अस्त्येव | "लक्षणम् अस्ति" इत्युक्ते लुप्त-प्रत्ययः यद्यपि न दृश्यते, परन्तु तस्य प्रभावम् अनुसृत्य यत् किमपि कार्यं प्रसक्तम् अस्ति, तत् कार्यं भवति |</big>
<big>'''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात् | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन् प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणम्, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— '''प्रत्ययलोपे प्रत्ययलक्षणम्''' |</big>
<big>तर्हि प्रत्यये लुप्ते तदाश्रितं कार्यं भवति | लुक् न तथा; प्रत्ययस्य लुक् भवति चेत् न केवलं प्रत्ययः गच्छति, अपि तु तदाश्रितं कार्यमपि न स्यात् | तद्विधायकं सूत्रम् अस्ति '''न लुमताऽङ्गस्य''' (१.१.६३) |</big>
<big>'''न लुमताऽङ्गस्य''' (१.१.६३) = यस्मिन् शब्दे 'लु' अस्ति, तेन शब्देन प्रत्ययादर्शनं विहितं चेत्, सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात् | लुः अस्य अस्ति इति लुमान्, तेन लुमता | न अव्ययपदं, लुमता तृतीयान्तम्, अङ्गस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न |</big>
<big>अस्मिन् सूत्रे लुमता, लुमत् इति प्रातिपदिकस्य तृतीयाविभक्त्यन्तं रूपम् | इदं मतुप्-प्रत्ययान्तं; प्रथमाविभक्तौ लुमान् | मतुप्-प्रत्ययस्य अर्थः अस्य अस्मिन् वा; यथा बुद्धिमान् इत्युक्ते बुद्धिः अस्य अस्मिन् वा, सः बुद्धिमान् | तर्हि 'लु' अस्य अस्मिन् वा, सः लुमान् | व्याकरणे त्रयः लुमन्तः सन्ति— लुक्, श्लु, लुप् चेति | इदं सूत्रं वक्ति यत् येन अदर्शनं भवति, सः लुमान् अस्ति चेत्, तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति | अनुवृत्ति-सहितसूत्रं तथैव— '''(यदा) लुमता प्रत्ययलोपे (तदा) अङ्गस्य प्रत्ययलक्षणं न''' | अतः '''न लुमताऽङ्गस्य''' (१.१.६३) इति सूत्रं '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यस्य बाधकसूत्रम् | तर्हि अत्र सारांशः एवं यत् लुक् इत्यनेन कस्यचित् प्रत्ययस्य अदर्शनं भवति चेत्, यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः, तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति |</big>
<big>आहत्य लोपप्रकरणे चत्वारि सूत्राणि | क्रमेण—</big>
Line 87 ⟶ 77:
<big>'''न लुमताऽङ्गस्य''' (१.१.६३) = लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् |</big>
<big>अदादिगणे विकरणप्रत्ययः शप् आसीत्, अनन्तरं तस्य लुक् अभवत् | लुमता शपः अदर्शनं जातम्, अतः धात्वङ्गे शप्-निमित्तकम् अङ्गकार्यं नार्हम् |</big>
<big>अधुना नूतनबिन्दुः—यद्यपि शपः लुक् जातम् अतः शप्-निमित्तकम् अङ्गकार्यं निषिद्धं, परन्तु कुत्रचित् लुक्-निमित्तं विशिष्टकार्यं सञ्जायते | यत्र लुकः सङ्केतः सूत्रेषु भवति तत्र एतादृशं कार्यम् "अदादिगणे" भवति इति बोध्यम् | यथा— '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इति सूत्रं द्रक्ष्यामः | लुकः विषये, हलादि पिति उदन्ताङ्गस्य वृद्धिः (पित् परे अस्ति अतः गुणः भवति स्म, परन्तु गुणं प्रबाध्य वृद्धिः) | अस्मिन् सूत्रे 'लुक्' अस्ति, अतः अदादिगणे तस्य प्रसक्तिः | यथा, यु + ति → य् + औ + ति → यौति | अन्यत्र—यत्र शपः लोपः जातः किन्तु लुक् इत्यनेन न—तत्र अस्य सूत्रस्य प्रसक्तिः न भवति | तर्हि सारांशः अत्र यत् अदादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते, परन्तु विकरणप्रत्ययस्य यया रीत्या अदर्शनं कृतं, तया विशिष्टकार्यम् अपि भवति—यथा अत्र वृद्धिः |</big>
<big>२. अदादिगणे विकरणप्रत्ययः न दृश्यते अतः धातोः साक्षात् परे तिङ्प्रत्ययाः विहिताः भवन्ति | यथा पा + ति → पाति | प्रथमवारम् अस्माभिः एतादृशी गतिः अवलोकिता | एतावता धातुः कुत्रापि तिङ्प्रत्ययेन न प्रभावितः | भ्वादिगणे, दिवादिगणे, तुदादिगणे, स्वादिगणे, तनादिगणे, क्र्यादिगणे च धात्वङ्गे अङ्गकार्यस्य निमित्तं विकरणप्रत्ययः एव | परन्तु अदादौ न तथा | यथा इण्-धातुः, इ + ति → एति; इ + तः → इतः | सारांशः एवं यत् अदादौ धातोः अङ्गकार्यं साक्षात् तिङ्प्रत्ययेन | तिङ्प्रत्ययाः परिवर्तन्ते, अतः अङ्गकार्यमपि परिवर्तते |</big>
<big>३. वयं जानीमः यत् दश धातुगणाः विभक्ताः तिङ्प्रत्यय-निमित्तकस्य अङ्गस्य अन्तिमवर्णस्य अनुसारम् | येषु धातुगणेषु अङ्गम् अदन्तं भवति, ते धातुगणाः प्रथमगणसमूहे वर्तन्ते | येषु धातुगणेषु अङ्गम् अनदन्तं भवति, ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते | तर्हि अत्र प्रश्नः उदेति यत् अदादिगणः कस्मिन् गणसमूहे अस्ति अपि च किमर्थम् ? सामान्यतया धातुगणेषु विकरणप्रत्ययाः सन्ति; तत्र विकरणप्रत्ययस्य अन्तिमवर्णः एव अङ्गस्य अन्तिमवर्णः | यथा भ्वादौ शप् इति विकरणप्रत्ययः; भू-धातोः भव इत्यङ्गम्; अङ्गस्य अन्तिमवर्णः ह्रस्व-अकारः (शपः एव अन्तिमवर्णः) | अतः अङ्गम् अदन्तम् | स्वादौ श्नु इति विकरणप्रत्ययः; चि-धातोः चिनु इत्यङ्गम्; अङ्गस्य अन्तिमवर्णः उकारः (श्नोः एव अन्तिमवर्णः) | अतः अङ्गम् अनदन्तम् | अधुना अदादौ कथं भवति ? विकरणप्रत्ययस्तु नास्त्येव; तर्हि केन आधारेण अङ्गं ज्ञायते ? अङ्गम् अदन्तं वा अनदन्तं वा इत्यत्र कथं निर्णीयते ? उत्तरं तु अस्माभिः प्रायः बुद्धमेव | अदादौ धातुरेव अङ्गम् अतः धातोः यः अन्तिमवर्णः, स एव अङ्गस्यापि | अदादौ अस्-धातुः सकारान्तः (अतः अङ्गमपि सकारान्तं), पा-धातुः आकारान्तः (अतः अङ्गमपि आकारान्तं), यु-धातुः उकारान्तः (अतः अङ्गमपि उकारान्तम्) | अदादौ यथा धातुः तथा अङ्गम् | अपि च अदादौ अकारान्तधातवः न सन्त्येव, अतः सर्वाणि अङ्गानि अनदन्तानि | अत एव अदादिगणः द्वितीयगणसमूहे वर्तते |</big>
<big>४. तिङन्तपदानां सिद्ध्यर्थम् अदादिगणः वर्गद्वये विभक्तः—अजन्तधातवः हलन्तधातवः च | अधुना अजन्तधातूनां तिङन्तरूपाणि साधयाम | अदादिगणे हलन्तधातूनां कृते प्रथमतया हल्-सन्धिः पठनीयः | साधारणभाषाज्ञानार्थं यः हल्-सन्धिः, सः तु न; पदस्य व्युत्पत्त्यर्थं हल्-सन्धिः | अस्माकं पाठे अपरेषु गणेषु हलन्तधातवः आसन्, परन्तु एतावता धातु-तिङ्प्रत्यययोः मध्ये विकरणप्रत्ययः भवति स्म, अपि च विकरणप्रत्ययाः सर्वे अजन्ताः सन्ति अतः अङ्ग-तिङ्प्रत्यययोः संयोजने हल्-हल् इत्यनयोः मेलनं न जातम् | हल्-सन्धेः च अवसरः न जातः | दिवादिगणे (य), स्वादिगणे (नु), क्र्यादिगणे (ना) च विकरणप्रत्ययः स्वयं हलादिः अतः हलन्तधातु-हलादिविकरणयोः संयोजनं तु भवति, परन्तु तत्र केवलं मेलनं भवति | इत्युक्ते तत्र हल्-हल् इत्यनयोः संयोजने विकारः न भवति अतः केवलं मेलनं न तु सन्धिः |</big>
<big>अदादिगणे यथा वच्-धातुः अस्ति, तत्र साक्षात् परे ति आयाति वच् + ति → वक्ति | अत्र चकारः ककारः जातः, विषयः च हल्-सन्धिः इति | जुहोत्यादिगणे रुधादिगणे चापि तादृशः हल्-सन्धेः विषयः आयाति, अतः प्रथमम् अदादिगणस्य अजन्तधातवः अस्माभिः करिष्यन्ते, तदा जुहोत्यादिगणस्य अजन्तधातवः | परं हल्-सन्धिः इति विषयः परिशीलनीयः | अनन्तरम् अदादिगणस्य, जुहोत्यादिगणस्य, रुधादिगणस्य च हलन्तधातवः अवलोकनीयाः | (रुधादिगणे अजन्तधातवः न सन्त्येव |)</big>
Line 131 ⟶ 105:
<big>३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्</big>
<big>१. <u>विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्</u></big>
<big>कुत्रापि किमपि कार्यं नास्ति यतः शप्-विकरणप्रत्ययस्य लुक् भवति अतः शप् न दृश्यते न वा अङ्गकार्यस्य निमित्तं भवति |</big>
<big>२. <u>तिङ्प्रत्यय-सिद्धिः</u></big>
<big>अदादिगणे अङ्गम् अनदन्तम्, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः भवन्ति | धातुद्वयस्य (दरिद्रा, जागृ) कृते विशेषकार्यं वर्तते | अस्मिन् पाठे यत्र तयोः विवरणम् अस्ति, तत्रैव इदं कार्यं प्रदर्शयिष्यते | तौ द्वौ विहाय यत्र अङ्गम् अनदन्तं, तत्र यथा सर्वेषां धातूनां कृते सिद्ध-तिङ्संज्ञकप्रत्ययाः तथा अत्रापि | अतः अदादिगणे सिद्ध-तिङ्प्रत्ययाः एते एव—</big>
Line 199 ⟶ 163:
<big> याम् याव याम ईय ईवहि ईमहि</big>
Line 204 ⟶ 171:
<big>अत्र कार्यं वर्तते, यत्र प्राप्तिः अस्ति | अष्टप्रकारकाः अजन्तधातवः सन्ति (अदादिगणे षट्, यतः अकारान्तधातवः, ॠकारान्तधातवः च न सन्ति) |</big>
<big>1. <u>आकारान्तधातवः</u> (15 = या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा, ला, दा, ख्या, प्रा, मा, दरिद्रा)</big>
Line 216 ⟶ 180:
<big>'''लङः शाकटायनस्यैव''' (३.४.१११) = आकारान्तात् धातोः लङि झेः जुस् आदेशः भवति शाकटायनस्य मतेन | शाकटायनः कश्चन वैयाकरणः आसीत्, पाणिनेः पूर्वम् | अनेन परस्मैपदे लङि प्रथमपुरुषबहुवचने विकल्पेन अन्, उः, इत्येतयौ तिङ्-प्रत्ययौ भवतः | लङः षष्ठ्यन्तं, शाकटायनस्य षष्ठ्यन्तम्, एव अव्ययपदं, त्रिपदमिदं सूत्रम् | '''आतः''' (३.४.११०) इति सूत्रस्य अनुवृत्तिः, '''झेर्जुस्''' (३.४.१०८) इत्यस्मात् '''झेः''', '''जुस्''' इत्यनयोः अनुवृत्तिः | '''धातोः''' (३.१.९१) इत्यस्य अधिकारः, पञ्चम्यन्तम् एकपदमिदं सूत्रम्; अत्र “'''आतः धातोः'''" अस्मिन् सूत्रे आयाति | अनुवृत्ति-सहितसूत्रम्— '''शाकटायनस्य एव (मते) लङः आतः धातोः झेः जुस्''' |</big>
<big>'''उस्यपदान्तात्''' (६.१.९६) = अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूपम् एकादेशः भवति; आद्गुणस्य अपवादः | अवा + उः → अव् + उः → अवुः | न पदान्तम् अपदान्तं, तस्मात् अपदान्तात् | उसि सप्तम्यन्तम्, अपदान्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''आद्गुणः''' (६.१.८७) इत्यस्मात् '''आत्''' इत्यस्य अनुवृत्तिः | '''इको यणचि''' (६.१.७७) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः; अनुवर्तते अत्र यतोहि परेषु सूत्रेष्वपि तस्य आवश्यकता | '''एङि पररूपम्''' (६.१.९४) इत्यस्मात् '''पररूपम्''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपम् संहितायाम्''' |</big>
<big>अन्यत्र सन्धिः एव भवति |</big>
Line 249 ⟶ 211:
<big>या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा ला, दा, ख्या, प्रा, मा एतेषां धातूनां सार्वधातुलकारेषु तिङन्तरूपाणि अपि तथैव भवन्ति |</big>
<big>B. आत्मनेपदे गा धातुः भ्वादिगणे, परन्तु रूपाणि अदादिगणीयानि सन्ति |</big>
Line 268 ⟶ 226:
<big>विधिलिङि—</big>
<big>C. दरिद्रा धातुः</big>
<big>'''जक्षित्यादयः षट्''' (६.१.६) = जक्षित्यादीनां धातूनाम् अभ्यस्त-संज्ञा भवति | अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्त धातवः सन्ति— जक्ष्, जागृ, दरिद्रा, चकास्, शास्, दीधीङ्, वेवीङ् च | इति-शब्देन जक्ष्-धातोः परामर्शः | इति आदिः येषां ते इत्यादयः बहुव्रीहिः | जक्ष् प्रथमान्तम्, इत्यादयः प्रथमान्तं, षट् प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''उभे अभ्यस्तम्''' (६.१.५) इत्यस्मात् '''अभ्यस्तम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''जक्षित्यादयः षट् अभ्यस्तम्''' |</big>
Line 288 ⟶ 244:
<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''झोऽन्तः''' (७.१.३) इत्यस्मात् '''झः''' (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्''' (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत्''' |</big>
Line 297 ⟶ 254:
<big>२) '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात् '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्''' (३.४.१०८) इत्यस्मात् '''झेः जुस्''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस्''' |</big>
Line 305 ⟶ 260:
<big>३) '''इद् दरिद्रस्य''' (६.४.११४) = दरिद्रा-धातोः आकारस्य स्थाने इ-आदेशो भवति, हलादौ किति ङिति सार्वधातुकप्रत्यये परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन दरिद्रा-धातोः अन्तिमवर्णस्य आकारस्य स्थाने इकारः | इत् प्रथमान्तं, दरिद्रस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''ई हल्यघोः''' (६.४.११३) इत्यस्मात् '''हलि''' इत्यस्य अनुवृत्तिः | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''दरिद्रस्य अङ्गस्य इत् हलि क्ङिति सार्वधातुके''' |</big>
Line 315 ⟶ 269:
<big>४) '''श्नाभ्यस्तयोरातः''' (६.४.११२) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्मात् '''लोपः''', इत्यस्य अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके''' |</big>
Line 325 ⟶ 280:
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
Line 408 ⟶ 364:
<big>अपि च एकवारं यदा आगमः आगतः, तदा धेयं यत् तस्य आगमस्य अनन्तरम् आगमनिमित्तं कार्यं (यथा '''आटश्च''') साक्षात् भवेत् इति नास्ति | केवलम् आगमः भवति; तदा सूत्रबलात् अग्रे कार्यस्य क्रमो भवतु | तर्हि अधुना स्थितिरस्ति एवम्—</big>
<big>इ + लङ-लकारः → '''आडजादीनाम्''' (६.४.७२) इत्यनेन आडागमः → आ + इ + लङ् → प्रथमपुरुषस्य बहुवचने तिङ्-आदेशः झि → आ + इ + झि → '''झोऽन्तः''' (७.१.३) इत्यनेन अन्त्-आदेशः, अन्ति; '''इतश्च''' (३.४.१००) इत्यनेन ङित्-लकारस्य स्थाने यः परस्मैपद-ह्रस्व-इकारान्त-तिङ्प्रत्ययः, तस्य अन्त्य-इकारस्य लोपः, अन्त्; '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदान्ते संयोगस्य अन्तिमवर्णलोपः → आ + इ + अन्</big>
<big>अत्र '''आटश्च''' (६.१.८९), '''इणो यण्''' (६.४.८१) च द्वयोः प्रसक्तिः | '''आटश्च''' (६.१.८९) इत्यनेन आडागमात् अचि परे पूर्वपरयोः वृद्धिरेकादेशो भवति | '''इणो यण्''' (६.४.८१) इत्यनेन इण्-धातोः यण्-आदेशः भवति अजादिप्रत्यये परे |</big>
<big>यथापूर्वम् अत्रापि तुल्यबलविरोधः नास्ति यतोहि कार्यस्थलं भिन्नम् | '''आटश्च''' (६.१.८९) इत्यस्य आ + इ इति स्थलम्; '''इणो यण्''' (६.४.८१) इत्यस्य इ + अन् इति स्थलम् | धेयं यत् समानस्थले कार्यं न जायमानम् | समानकाले, किन्तु समानस्थले न | अतः '''अन्यत्रान्यत्रलब्धावकाशयोरेकत्रप्राप्तिस्तुल्यबलविरोधः''' इत्यनेन तुल्यबलविरोधो न भवति | अपि च समानस्थलाभावात् अपवादस्य प्रश्नः नोदेति | कार्यस्थलं समानं नास्ति चेत् अपवादस्य अवकाशो नास्ति | तदर्थं न तुल्यबलविरोधः, न वा अपवादभूतत्वम् | तर्हि अत्र '''पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः''' इति परिभाषया साक्षात् निर्णयः कर्तुं न शक्यते |</big>
<big>किन्तु इह कश्चन नूतनसिद्धान्तः आनेतव्यः | इण्-धातु-विषयकतया प्रतिपदोक्तत्वम् | व्याकरणशास्त्रे प्रतिपदम् इत्युच्यते यत्र साक्षात् नाम्ना आह्वानं भवति; प्रतिपदम् इत्यनेन नामग्रहणम् | अस्मिन् सिद्धान्ते शीघ्रावस्थितिकत्वमेव बीजम् | यथा 'एकः छात्रः आगच्छतु' इत्यनेन कञ्चन छात्रम् आह्वातुं शक्नुमः; 'चैत्र आगच्छ' इत्यपि रीत्या आह्वातुं शक्नुमः | उभयत्र छात्रस्य आह्वानम् | 'कश्चन छात्रः आगच्छातु' इत्यस्य अपेक्षया 'चैत्र आगच्छ' इत्यनेन शीघ्रं प्रवृत्तिर्भवति | कुतः इति चेत्, तस्य वाचकपदम् | प्रतिपदेन उक्तं → प्रतिपदोक्तम् | छात्रत्वावच्छिनः यः कोऽपि छात्रः भवितुम् अर्हति; किन्तु 'चैत्रत्वम् आगच्छ' इत्यनेन विशेषतया तस्य वाचकं यत् पदं, तस्य विशिष्टोच्चारणात् प्रतिपदोक्तं भवति | 'कश्चन छात्रः आगच्छातु' इत्यस्य कथनेन 'अहं न, अन्यः कश्चन छात्रः स्यात्' इति शङ्कातः शीघ्रम् उपस्थितिर्न भवति | किन्तु 'चैत्र आगच्छ' इत्यस्य कथनेन विलम्बः न भवति अपि तु शीघ्रोपस्थितिः |</big>
<big>प्रतिपदम् | पदं पदं प्रतिपदम् | तन्मात्रवृत्तिधर्मविशिष्टं पदम् | वीप्सया तत्पदमात्रवृत्तिधर्मपुरस्कारवैशिष्ट्यम् | तत्पदमात्रवृत्तिधर्मपुरस्कारेण ग्रहणं यत्र, तत् प्रतिपदम् इत्युच्यते | तदनुकूलव्यवच्छिन्नतया नाम इति अर्थः गृह्यते | यथा '''इणो यण्''' (६.४.८१) इत्यनेन यण्-आदेशः प्रतिपदोक्तः | '''इको यणचि''' (६.१.७७) इत्यनेन यण्-आदेशः लाक्षणिकः | '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इत्यनेनापि यण्-आदेशः लाक्षणिकः |</big>
<big>इतिवत् अत्र प्रकृतौ '''इणो यण्''' (६.४.८१) इत्यनेन इण्-धातोरेव यण्-आदेशो विधीयते; यस्य कस्यापि यण्-आदेशः इति न | किन्तु '''आटश्च''' (६.१.८९) इत्यनेन आडागमात् यस्मिन् कस्मिन्नपि अचि परे पूर्वपरयोः वृद्धिरेकादेशो भवति | अतः प्रतिपदोक्तस्य ग्रहणेन '''आटश्च''' (६.१.८९) इत्यस्य अपेक्षया '''इणो यण्''' (६.४.८१) इत्यस्य शीघ्रोपस्थितिः |</big>
<big>'''लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्''' इति परिभाषायाः आधारेण '''प्रतिपदोक्तस्य बलवत्वम्''' इत्युच्यते | इयं परिभाषा सम्पूर्णरीत्या स्वीक्रियते चेत् तस्याः कार्यम् प्रसङ्गश्च अन्यत्र | अतः अत्र तस्य समग्रप्रतिपादनं न दीयते; किन्तु सारांशः अस्ति यत् लक्षणस्य अपेक्षया प्रतिपदोक्तस्य ग्रहणं, नाम बलवत्वम् | '''आटश्च''' (६.१.८९) इयि सूत्रे निमित्तं लक्षणरूपेण एव दीयते; '''इणो यण्''' (६.४.८१) इति सूत्रे प्रतिपदोक्तम् अस्ति |</big>
<big>कुतः बलवत्वम् इति चेत्, तस्य बुद्धौ शीघ्रम् उपस्थितिर्भवति | अनेन प्रतिपदोक्तं सर्वतो बलवत् | यत्र 'अपवादः' इति साक्षात् वक्तुं न शक्यते, तत्र विशिष्टत्वात् प्रतिपदोक्तत्वात् बलवत्वम् इति वदने सामर्थम् | ततः उच्यते यत् प्रतिपदोक्तम् अपवादसदृशम् | अपवादः बाधते, तद्वत् प्रतिपदोक्तम् अपि बाधते | कुतः इति चेत् तस्य नामग्रहणपूर्वक-विधिरस्ति, अनेन शीघ्रं प्रवृत्तिर्भवति |</big>
<big>अतः अत्र यद्यपि '''इणो यण्''' (६.४.८१) इत्यस्य कार्यस्थलम् '''आटश्च''' (६.१.८९) इति कर्यस्थलात् भिन्नम् इति कारणतः तस्य अपवादभूतत्वम् इति वक्तुं न शक्येत, तथापि प्रतिपदोक्तत्वस्य बलेन बाधकत्वम् | तुल्यबलविरोधस्याभावात् प्रतिपदोक्तत्वात् बाधकत्वम् इत्युच्यते | तर्हि प्रतिपदोक्तत्वस्य बलवत्वे '''इणो यण्''' (६.४.८१) | '''इणो यण्''' (६.४.८१) इत्यस्य प्रतिपदोक्तत्वात् इण्-धातुं ग्रहीत्वा यण्-आदेशः विधीयते—</big>
<big>आहत्य इ + लङ-लकारः → '''आडजादीनाम्''' (६.४.७२) इत्यनेन आडागमः → आ + इ + लङ् → तिङ्-आदेशः च प्रथमपुरुषस्य बहुवचने सिद्धतिङ्-प्रत्ययः अन् → आ + इ + अन् → '''इणो यण्''' (६.४.८१) इत्यनेन यणादेशः → आ + य् + अन् → ('''आटश्च''' (६.१.८९) इत्यस्य अधुना प्रसङ्गो नास्ति →) आयन्</big>
<big>द्वयोः सूत्रयोर्मध्ये '''इणो यण्''' (६.४.८१) प्रथमं; तदा '''आटश्च''' (६.१.८९) इत्यभविष्यत् किन्तु तावता प्रसङ्गो नास्त्येव आगमोत्तरस्य अचः अभावात् |</big>
<big>आ + इ + अन् | अत्र '''आटश्च''' (६.१.८९), '''इणो यण्''' (६.४.८१) च द्वयोः प्रसक्तिः | अत्र प्रतिपदोक्तत्वात् '''इणो यण्''' (६.४.८१) इत्युक्तम् | परन्तु अत्र '''वार्णादाङ्गं बलीयः''' इत्यपि कार्यं करोति अत्र | द्वयोः परस्परसमर्थनं; द्वयोः कारणकथने न काऽपि समस्या |</big>
<big>'''वार्णादाङ्गं बलीयः''' | [परिभाषा ५५] – वर्णस्य इदं वार्णम्; वर्णं निमित्तीकृत्य जायमानं कार्यम् | वर्णसम्बद्धं वार्णम् | अङ्गस्य इदम् आङ्गम् | अङ्गनिमित्तिकं वा अङ्गोद्दिशिकं वा कार्यम् आङ्गम् | अङ्गसम्बद्धम् आङ्गम् | वर्णनिमित्तिक-कार्यापेक्षया अङ्गाधिकारस्य कार्यं प्रबलम् |</big>
<big>इति सामान्यचिन्तनम् | वस्तुतः अत्र पक्षद्वयं वर्तते | एकस्मिन् पक्षे इ + लङ → लावस्थायाम् '''आडजादीनाम्''' (६.४.७२) इत्यनेन आडागमः → ततः अग्रे यथोक्तम् | अपरस्मिन् पक्षे इ + लङ् → इ + झि, अन्ति, अन्त्, अन् → '''इणो यण्''' (६.४.८१) इत्यनेन अजादौ प्रत्यये परे यणादेशः → य् + अन् → '''असिद्धवदत्राभात्''' (६.४.२२) इत्यनेन यणादेशस्य असिद्धत्वात् अजादित्वम् आश्रित्य '''आडजादीनाम्''' (६.४.७२) इत्यनेन आडागमः → आ + य् + अन् → ('''आटश्च''' (६.१.८९) इत्यस्य अधुना प्रसङ्गो नास्ति →) आयन्</big>
<big>'''आडजादीनाम्''' (६.४.७२), '''इणो यण्''' (६.४.८१) इत्यनयोः कार्यम् आभीयकार्यम्—</big>
<big>'''असिद्धवदत्राभात्''' (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्य अन्तपर्यन्तम् | '''असिद्धवदत्राभात्''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम् (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम् | असिद्धवत् अव्यपदयम्, अत्र अव्यपदयम्, आ अव्यपदयं, भात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | 'असिद्धवत्' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्' अतः 'असिद्धवत्' इत्युक्तम् | ‘समानाश्रितं कार्यम्' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन् + त्रल् → 'अत्र' | 'अस्मिन्' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम् इति आशयः | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत् अत्र आ भात्''' |</big>
<big>अन्-प्रत्ययम् आश्रित्य '''आडजादीनाम्''' (६.४.७२), '''इणो यण्''' (६.४.८१) इत्यनयोः कार्यं भवति | अत्र इण्-धातोः 'इ' इत्यपि द्वयोः आश्रयः | '''आडजादीनाम्''' (६.४.७२) इति सूत्रमपि, '''इणो यण्''' (६.४.८१) इति सूत्रमपि षष्ठाध्यायस्य चतुर्थपादस्य द्वाविंशसूत्रमारभ्य षष्ठाध्यायस्य अन्तः इति यावत्, अस्मिन् गोचरे अस्ति इति कृत्वा आडागमः अपि यणादेशः अपि आभीयकार्यम् |</big>
<big>'''आडजादीनाम्''' (६.४.७२) = लुङ् लङ् लृङ् च परे चेत्, अजादिधातुरूपि-अङ्गस्य आट्-आगमो भवति; स च अडागमः उदात्त-संज्ञकः | अनुवृत्ति-सहितसूत्रम्— '''अजादीनाम् अङ्गस्य आट् उदात्तः लुङ्लङ्लृङ्क्षु''' |</big>
<big>'''इणो यण्''' (६.४.८१) = इण्-धातोः यण्-आदेशः भवति अजादिप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''इणः अङ्गस्य यण् अचि''' |</big>
<big>तर्हि अस्मिन् पक्षे लकार-प्रत्ययस्य उपस्थितिः आदौ भवति, तन्निमित्तकादेशाः च आदौ भवन्ति, ततः परम् अजादिप्रत्ययत्वम् आदाय '''इणो यण्''' (६.४.८१) इत्यनेन यणादेशः, तस्य च असिद्धत्वात् '''आडजादीनाम्''' (६.४.७२) इत्यनेन आडागमः |</big>
<big>अत्र प्रश्नः उदेति, एकवारम् आरम्भे '''इणो यण्''' (६.४.८१) इति शास्त्रम् उपस्थितं भवति चेत्, तस्य असिद्धत्वात् '''आडजादीनाम्''' (६.४.७२) इत्यनेन आडागमः भवेत् | किन्तु कस्य बलेन आडागमात् प्राक् यण्-आदेशो विधीयेत ? '''आडजादीनाम्''' (६.४.७२) इति लावस्थायाम् | '''इणो यण्''' (६.४.८१) इति सिद्धतिङ्प्रत्ययसाधनानन्तरमेव | अपि च लावस्थायाम् आडागमः इति पक्षे '''असिद्धवदत्राभात्''' (६.४.२२) इति शास्त्रम् नापेक्षते | साक्षात् '''आडजादीनाम्''' (६.४.७२) इत्यनेन आडागमः, तदा प्रतिपदोक्तत्वात् '''इणो यण्''' (६.४.८१), फलतः आयन् इति रूपम् | अतः अत्र लाघवम् | '''असिद्धवदत्राभात्''' (६.४.२२) इत्यस्य अपेक्षा एव नास्ति |</big>
<big>तर्हि द्वितीये पक्षे कस्य बलेन आडागमात् प्राक् यण्-आदेशो विधीयेत ? लावस्थायाम् आडागमः इति पक्षे लाघवम् इति सत्यं; किन्तु तथा सति '''असिद्धवदत्राभात्''' (६.४.२२) इत्यस्य पाठः कुतः इति प्रश्नः | आभीयपाठस्य का गतिः ? '''इणो यण्''' (६.४.८१) '''आडजादीनाम्''' (६.४.७२) इति सूत्रद्वयम् आभीयशास्त्रे अन्तर्गतं, तस्य च कारणं स्यात् | '''इणो यण्''' (६.४.८१) सर्वप्रथमं न भवति चेत्, किमर्थम् आभीयकार्यम् इदम् | इदमेव आभीयपाठस्य सार्थक्यम् | अत्र भाष्यकारस्य कथनमिदं यत् तेन ज्ञायते आदौ लकारनिमित्तकार्याणि, ततः परमेव आडागमः |</big>
<big>प्रथमपक्षस्य परित्यजने, अन्यत् कारणमपि उक्तम् महाभाष्ये | किमिति चेत्, धातुः नाम क्रियावाचकः | क्रियायाः स्वाश्रयाकाङ्क्षा भवति; नो चेत् क्रिया न प्रतीयते | धातुरेव क्रियां न बोधयति | क्रियायाः स्वाश्रयसमवधाने एव धातुः क्रियां बोधयेत् | कर्तृबोधकप्रत्ययः परः यदा भवति, तदानीम् अयं धातुः परिपूर्णतया क्रियां बोधयितुं समर्थः भवति | क्रियायाः आश्रयबोधकप्रत्ययः नास्ति चेत् धातुः क्रियां कथं वा बोधयेत् ? लकारः आश्रयबोधकप्रत्ययः | तं विना 'अयं धातुः' इति व्यवहारः एव वस्तुतः न कर्तव्यः | कुतः इति चेत्, क्रियां न बोधयति | तर्हि कदा बोधयति ? स्वबोध्यक्रियायाः आश्रयः अस्ति चेदेव धातुः क्रियां बोधयति | भू-धातोः लट् इति प्रयोगे 'भू-धातुः' अर्थविज्ञानपदम् | इतः परं यदा लट्-प्रत्ययः करिष्यते, तदानीं परिपूर्णधातुः अयम् | प्रत्ययस्य उत्पत्तेः पूर्वम् 'अयं धातुः' इति व्यवहारः गौणः | अनेन लकार-प्रत्ययस्य उपस्थितिः आदौ भवति, तन्निमित्तककार्याणि च आदौ भवन्ति इति वक्तव्यम् | अस्मात् कारणादपि लावस्थायाम् अट् इति पक्षः परित्यक्तः |</big>
<big>आहत्य कारणत्रयेण '''इणो यण्''' (६.४.८१) सर्वप्रथमम् आयाति— १) आभीयपाठस्य सार्थक्यार्थम्; २) प्रतिपदोक्तत्वात्; ३) विशिष्टधातोः क्रियाबोधकत्वात् |</big>
Line 477 ⟶ 448:
<big>चिन्तयामः चेत्, अयं क्रमः स्वाभाविकः |</big>
<big>१) (लङि) अडागमः आडागमः च | '''आडजादीनाम्''' (६.४.७२) इति सूत्रं लावस्थायां विधीयते, अतः इदं सूत्रं सामान्यरूपेण सर्वाप्रथमं भवेत् |</big>
<big>२) तिङ्-निमित्तम् अङ्गकार्यम् | अङ्गकार्यम् इदम्, अतः बलवत् |</big>
<big>३) (लङि) आडागमे सति वृद्धि-कार्यम् | '''आटश्च''' (६.१.८९) वर्णनिमित्तकं कार्यम्, अतः अनन्तरं स्यात् | किन्तु अन्तरङ्गत्वात् तिङ्प्रत्यय-योजनात् प्राक् |</big>
<big>४) तिङ्प्रत्यय-योजनं, तत्सम्बद्ध-सन्धिकार्यम् | परम्परया अपि अन्तिमं कार्यम् | किन्तु आधिक्येन तृतीयचतुर्थयोर्मध्ये किं प्रथमम् इत्यस्मिन् महत्त्वं नास्ति | अवदत् | ऐच्छत् | ऐधत् |</big>
<big>भिन्नरीत्या चिन्त्यते केवलं इण्-धातोः अस्-धातोः प्रसङ्गे च | '''इणो यण्''' (६.४.८१) इत्यनेन इ-धातुः → आयन् | '''श्नसोरल्लोपः''' (६.४.१११) इत्यनेन अस्-धातुः → आसीत् |</big>
<big>2) इ + लङ् → इ + त् → '''आडजादीनाम्''' (६.४.७२) → आ + इ + त्</big>
<big>अत्र प्रथमं '''आटश्च''' (६.१.८९) इति क्रियते चेत्, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य आवश्यकता एव नास्ति | प्रथमं '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति क्रियते चेत्, अनन्तरं '''आटश्च''' (६.१.८९) इति भवति | द्वाभ्यां मार्गाभ्यां ऐत् इति रूपं सिध्यति | तर्हि किं साधु ?</big>
<big>'''आटश्च''' (६.१.८९) = आडागमात् अचि परे पूर्वपरयोः वृद्धिरेकादेशो भवति | अनुवृत्ति-सहितसूत्रम्— '''आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम्''' |</big>
<big>'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः''' |</big>
<big>अत्र कृताकृतप्रसङ्गः '''आटश्च''' (६.१.८९) इत्यस्य,
<big>'''पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम्''' | यस्य कार्यस्य निमित्तं पूर्वम् उपस्थितं, तदन्तरङ्गम् |</big>
<big>'''आटश्च''' (६.१.८९) इत्यस्य इ-धातोः इ-कारः इति निमित्तं पूर्वम् उपस्थितः | '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य यः त्-प्रत्ययः इति निमित्तम् अनन्तरम् | अतः '''पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम्''' इत्यनेन '''आटश्च''' (६.१.८९) इत्यस्य अन्तरङ्गत्वम् |</big>
<big>'''पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः''' इति परिभाषया नित्यापेक्षया अन्तरङ्गत्वं बलवत् | अतः 'नित्यम्' इत्यस्य बलेन '''आटश्च''' (६.१.८९) इति न, अपि तु अन्तरङ्गत्वम् इत्यस्य बलेन '''आटश्च''' (६.१.८९) प्रथमं भवतु |</big>
<big>किन्तु अन्ततो गत्वा '''वार्णादाङ्गं बलीयः''' इत्यनेन '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) प्रथमं भवति | '''पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम्''' इत्यस्मात् '''वार्णादाङ्गं बलीयः''' इति परिभाषा बलवती | तदर्थं प्रथमं '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य प्राप्तिः, तदा एव '''आटश्च''' (६.१.८९) |</big>
<big>3) चिन्तनार्थं भाष्यकारः प्रतिपादयति यत् '''आडजादीनाम्''' (६.४.७२), '''आटश्च''' (६.१.८९) इत्यनयोः अष्टाध्याय्याम् आवश्यकता एव नास्ति | लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) च ''''अटश्च'''<nowiki/>' च इत्येव पर्याप्तम्; आभ्यां सर्वाणि रूपाणि सिध्येरन् | ऐच्छत्, ऐधत् | चिन्तनस्य विषयः !</big>
<big>B. इक् स्मरणे इति धातुः</big>
Line 518 ⟶ 493:
<big>इक् स्मरणे नित्यम् अधि-उपसर्गपूर्वकः धातुः, परस्मैपदी च |</big>
<big>अत्र अवधेयं यत् यथापूर्वं, कार्यस्य एकः क्रमः वर्तते | तं क्रमम् आधारीकृत्य प्रक्रिया प्रवर्तनीया— १) (लङि) अडागमः आडागमः च | २) तिङ्-निमित्तम् अङ्गकार्यम् | ३) (लङि) आडागमे सति वृद्धि-कार्यम् | ४) तिङ्प्रत्यय-योजनं, तत्सम्बद्ध-सन्धिकार्यम् | यथासामान्यम्, अङ्गकार्यं सन्धिकार्यम् इत्यनयोः मध्ये प्रथमम् अङ्गकार्यं, तदा एव सन्धिकार्यम् |</big>
<big>इक् स्मरणे इति धातौ '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य प्रसक्तिः न तु '''इणो यण्''' (६.४.८१), नाम इयङ्-आदेशः प्रसक्तः न तु यण्-आदेशः | तर्हि अजाद्यपित्सु इयङ् कृत्वा अधि + इ + अन्ति → अधि + इय् + अन्ति → अधीयन्ति इति भवेत् | किन्तु तथा न भवति, अधियन्ति इत्येव भवति | अत्र धेयं यत् एकं गणसूत्रं वर्तते '''इण्वदिक इति वक्तव्यम्''' | अनेन इक्-धातुः इण-धातुवदेव भवति | अतः अत्र अधि + इक्, इण्वत् भवति | प्रथमम् इण्-धातोः रूपं निर्मातु, तदा अधि योजयतु, अपि च यथा आवश्यकता सन्धिकार्यं करोतु | आहत्य इक्-धातोः अजाद्यपित्सु इयङ्-आदेशो न भवति अपि तु इण्-वत् यण्-आदेश एव भवति |</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big>रूपाणि</big>
Line 538 ⟶ 515:
<big>C. इङ् अध्ययने इति धातुः</big>
<big>इङ्-धातुः ङित् अतः आत्मनेपदिधातुः, नित्यम् अधि-पूर्वः च |</big>
Line 548 ⟶ 527:
<big>३) हलाद्यपित्सु = क्ङिति च, गुणनिषेधः | अधि + इ + ते → अकः सवर्णे दीर्घः → अधीते</big>
<big>४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यस्य प्रसक्तिः | अधि + इ + आते → अधि + इय् + आते → अधि + इयाते → अकः सवर्णे दीर्घः → अधीयाते</big>
<big>अत्र अवधेयं यत् यथापूर्वं, कार्यस्य एकः क्रमः वर्तते | तं क्रमम् आधारीकृत्य प्रक्रिया प्रवर्तनीया— १) (लङि) अडागमः आडागमः च | २) तिङ्-निमित्तम् अङ्गकार्यम् | ३) (लङि) आडागमे सति वृद्धि-कार्यम् | ४) तिङ्प्रत्यय-योजनं, तत्सम्बद्ध-सन्धिकार्यम् | ५) उपसर्ग-योजनं, तत्सम्बद्ध-सन्धिकार्यम् |</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
Line 568 ⟶ 548:
<big>D. वी-धातुः गतिव्याप्ति-प्रजनकान्त्यसन-खादनेषु</big>
<big>१) हलादि पित्सु = गुणः | वी + ति → वेति</big>
Line 575 ⟶ 556:
<big>३) हलाद्यपित्सु = क्ङिति च, गुणनिषेधः | वी + तः → वीतः</big>
<big>४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन इयङ् आदेशः | वी + अन्ति → व् + इय् + अन्ति → वियन्ति</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
Line 593 ⟶ 575:
<big>E. शीङ् स्वप्ने इति धातुः</big>
<big>'''शीङः सार्वधातुके गुणः''' (७.४.२१) = शीङ्-धातोः गुणः भवति सार्वधातुकप्रत्यये परे | अनेन सूत्रेण शीङ्-धातोः गुणः भवति न केवलं पित्सु अपि तु अपित्सु अपि | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम्, अतः अत्र ईकारः स्थानी भवति | शीङः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, गुणः प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''शीङः अङ्गस्य गुणः सार्वधातुके''' |</big>
<big>अपित्सु प्रत्ययेषु '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः आदिश्यते, तदा '''क्क्ङिति च''' (१.१.५) इत्यनेन गुण-निषेधः | तदा '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यनेन पुनः गुणः | अत्र '''क्क्ङिति च''' (१.१.५), '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यनयोः कः सम्बन्धः ? '''क्क्ङिति च''' (१.१.५) इति प्रबाध्य '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यनेन गुणो वा ? इति चेत् '''शीङः सार्वधातुके गुणः''' (७.४.२१), '''क्क्ङिति च''' (१.१.५) इत्यस्य अपवादः इति वा ?</big>
<big>१) हलादि पित्सु = आत्मनेपदिधातुषु नास्ति एव |</big>
Line 607 ⟶ 590:
<big>'''शीङो रुट्''' (७.१.६) = शीङ्-धातुतः झ्-प्रत्ययावयवस्य स्थाने यः अत्, तस्य रुट्-आगमो भवति | '''आद्यन्तौ टकितौ''' इत्यनेन अत् इत्यस्य आद्यवयवः | शीङः पञ्चम्यन्तं, रुट् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''झोऽन्तः''' (७.१.३) इत्यस्मात् '''झः''' इत्यस्य अनुवृत्तिः; '''अदभ्यस्तात्''' (७.१.४) इत्यस्मात् षष्ठ्यन्तस्य विभक्तिपरिणामेन '''अतः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''शीङः अङ्गात् झः अतः रुट्''' |</big>
<big>अनुबन्धलोपे र् इति आगमः | अते → रते | अताम् → रताम् | अत → रत |</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
Line 623 ⟶ 609:
<big>विधिलिङि—</big>
'''********start here**********'''
|