6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH (view source)
Revision as of 17:31, 24 May 2021
, 3 years agono edit summary
No edit summary |
No edit summary |
||
Line 62:
<big>'''न लुमताऽङ्गस्य''' (१.१.६३) = यस्मिन् शब्दे 'लु' अस्ति, तेन शब्देन प्रत्ययादर्शनं विहितं चेत्, सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात् | लुः अस्य अस्ति इति लुमान्, तेन लुमता | न अव्ययपदं, लुमता तृतीयान्तम्, अङ्गस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न''' |</big>
Line 172:
<big>अत्र कार्यं वर्तते, यत्र प्राप्तिः अस्ति | अष्टप्रकारकाः अजन्तधातवः सन्ति (अदादिगणे षट्, यतः अकारान्तधातवः, ॠकारान्तधातवः च न सन्ति) |</big>
<big>1. <u>आकारान्तधातवः</u> (15 = या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा, ला, दा, ख्या, प्रा, मा, दरिद्रा)</big>
Line 232 ⟶ 230:
<big>'''जक्षित्यादयः षट्''' (६.१.६) = जक्षित्यादीनां धातूनाम् अभ्यस्त-संज्ञा भवति | अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्त धातवः सन्ति— जक्ष्, जागृ, दरिद्रा, चकास्, शास्, दीधीङ्, वेवीङ् च | इति-शब्देन जक्ष्-धातोः परामर्शः | इति आदिः येषां ते इत्यादयः बहुव्रीहिः | जक्ष् प्रथमान्तम्, इत्यादयः प्रथमान्तं, षट् प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''उभे अभ्यस्तम्''' (६.१.५) इत्यस्मात् '''अभ्यस्तम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''जक्षित्यादयः षट् अभ्यस्तम्''' |</big>
<big>'''उभे अभ्यस्तम्''' (६.१.५) इति सूत्रेण यदा धातोः द्वित्वं भवति, तदा मिलित्वा द्वयोः भागयोः नाम 'अभ्यस्तं' भवति | '''जक्षित्यादयः षट्''' (६.१.६) इत्यनेन जक्षित्यादीनां धातूनाम् अद्वित्वे सत्यपि अभस्त-संज्ञा भवति |</big>
<big>एषां सप्तानां धातूनां तिङन्तसिद्ध्यर्थं चत्वारि कार्याणि—</big>
<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''झोऽन्तः''' (७.१.३) इत्यस्मात् '''झः''' (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्''' (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत्''' |</big>
Line 247 ⟶ 248:
<big>२) '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात् '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्''' (३.४.१०८) इत्यस्मात् '''झेः जुस्''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस्''' |</big>
<big>अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्-आदेशः | जुस् इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि आहत्य अभ्यस्तसंज्ञकः धातुः अस्ति चेत्, लङि अन्-स्थाने उः इति प्रत्ययः भवति |</big>
<big>३) '''इद् दरिद्रस्य''' (६.४.११४) = दरिद्रा-धातोः आकारस्य स्थाने इ-आदेशो भवति, हलादौ किति ङिति सार्वधातुकप्रत्यये परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन दरिद्रा-धातोः अन्तिमवर्णस्य आकारस्य स्थाने इकारः | इत् प्रथमान्तं, दरिद्रस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''ई हल्यघोः''' (६.४.११३) इत्यस्मात् '''हलि''' इत्यस्य अनुवृत्तिः | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''दरिद्रस्य अङ्गस्य इत् हलि क्ङिति सार्वधातुके''' |</big>
<big>यथा दरिद्रा + तः → दरिद्रि + तः → दरिद्रितः | दरिद्रा + वः → दरिद्रि + वः → दरिद्रिवः |</big>
<big>४) '''श्नाभ्यस्तयोरातः''' (६.४.११२) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्मात् '''लोपः''', इत्यस्य अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके''' |</big>
<big>'''श्नाभ्यस्तयोरातः''' (६.४.११२) इति सूत्रेण न केवलम् अजाद्यपिति अपि तु हलाद्यपिति अपि कार्यं विहितं, किन्तु हलाद्यपित्सु परेषु '''ई हल्यघोः''' (६.४.११३) इत्यनेन आकारस्य लोपकार्यं प्रबाध्य आकारस्य स्थाने ई-कारादेशः विधीयते | तदा हलाद्यपित्सु '''ई हल्यघोः''' इत्यस्य बाधकं सूत्रम् '''इद् दरिद्रस्य''' (६.४.११४), येन आ-स्थाने इकारादिष्टः | आहत्य '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन आकारस्य लोपः केवलम् अजाद्यपित्सु भवति | अजाद्यपित्सु कार्यं भवति यथा दरिद्रा + अति → दरिद्र् + अति → दरिद्रति | दरिद्रा + अतु → दरिद्र् + अतु → दरिद्रतु |</big>
<big>अवशिष्ट-स्थलेषु दरिद्रा-धातोः तिङन्तरूपाणि वा-धातुवत् भवन्ति |</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
Line 284 ⟶ 291:
<big>२) अजादि पित्सु = गुणः, अयादेशः | इ + आनि → ए + आनि → अय् + आनि → अयानि</big>
<big>३) हलाद्यपित्सु =
<big>४) अजाद्यपित्सु = '''क्क्ङिति च''', गुणनिषेधः | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यस्य प्रसक्तिः अस्ति; अनेन इयङ्-आदेशः भवति स्म | परन्तु इदं सूत्रं प्रबाध्य '''इणो यण्''' इत्यनेन यण्-आदेशः | इ + अन्ति → यन्ति</big>
Line 298 ⟶ 305:
<big>'''इणो यण्''' (६.४.८१) = इण्-धातोः यण्-आदेशः भवति अजादिप्रत्यये परे | इणः षष्ठ्यन्तं, यण् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''इणः अङ्गस्य यण् अचि''' |</big>
Line 312 ⟶ 319:
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
Line 351 ⟶ 356:
<big>यथापूर्वम् अत्रापि तुल्यबलविरोधः नास्ति यतोहि कार्यस्थलं भिन्नम् | '''आटश्च''' (६.१.८९) इत्यस्य आ + इ इति स्थलम्; '''इणो यण्''' (६.४.८१) इत्यस्य इ + अन् इति स्थलम् | धेयं यत् समानस्थले कार्यं न जायमानम् | समानकाले, किन्तु समानस्थले न | अतः '''अन्यत्रान्यत्रलब्धावकाशयोरेकत्रप्राप्तिस्तुल्यबलविरोधः''' इत्यनेन तुल्यबलविरोधो न भवति | अपि च समानस्थलाभावात् अपवादस्य प्रश्नः नोदेति | कार्यस्थलं समानं नास्ति चेत् अपवादस्य अवकाशो नास्ति | तदर्थं न तुल्यबलविरोधः, न वा अपवादभूतत्वम् | तर्हि अत्र '''पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः''' इति परिभाषया साक्षात् निर्णयः कर्तुं न शक्यते |</big>
<big>किन्तु इह कश्चन नूतनसिद्धान्तः आनेतव्यः | इण्-धातु-विषयकतया प्रतिपदोक्तत्वम् | व्याकरणशास्त्रे प्रतिपदम् इत्युच्यते यत्र साक्षात् नाम्ना आह्वानं भवति; प्रतिपदम् इत्यनेन नामग्रहणम् | अस्मिन् सिद्धान्ते शीघ्रावस्थितिकत्वमेव बीजम् | यथा 'एकः छात्रः आगच्छतु' इत्यनेन कञ्चन छात्रम् आह्वातुं शक्नुमः; 'चैत्र आगच्छ' इत्यपि रीत्या आह्वातुं शक्नुमः | उभयत्र छात्रस्य आह्वानम् | 'कश्चन छात्रः आगच्छातु' इत्यस्य अपेक्षया 'चैत्र आगच्छ' इत्यनेन शीघ्रं प्रवृत्तिर्भवति | कुतः इति चेत्, तस्य वाचकपदम् | प्रतिपदेन उक्तं → प्रतिपदोक्तम् | छात्रत्वावच्छिनः यः कोऽपि छात्रः भवितुम् अर्हति; किन्तु 'चैत्रत्वम् आगच्छ' इत्यनेन विशेषतया तस्य वाचकं यत् पदं, तस्य विशिष्टोच्चारणात् प्रतिपदोक्तं भवति | 'कश्चन छात्रः आगच्छातु' इत्यस्य कथनेन 'अहं न, अन्यः कश्चन छात्रः स्यात्' इति शङ्कातः शीघ्रम् उपस्थितिर्न भवति | किन्तु 'चैत्र आगच्छ' इत्यस्य कथनेन विलम्बः न भवति अपि तु शीघ्रोपस्थितिः |</big>
Line 362 ⟶ 369:
<big>'''लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्''' इति परिभाषायाः आधारेण '''प्रतिपदोक्तस्य बलवत्वम्''' इत्युच्यते | इयं परिभाषा सम्पूर्णरीत्या स्वीक्रियते चेत् तस्याः कार्यम् प्रसङ्गश्च अन्यत्र | अतः अत्र तस्य समग्रप्रतिपादनं न दीयते; किन्तु सारांशः अस्ति यत् लक्षणस्य अपेक्षया प्रतिपदोक्तस्य ग्रहणं, नाम बलवत्वम् | '''आटश्च''' (६.१.८९) इयि सूत्रे निमित्तं लक्षणरूपेण एव दीयते; '''इणो यण्''' (६.४.८१) इति सूत्रे प्रतिपदोक्तम् अस्ति |</big>
<big>कुतः बलवत्वम् इति चेत्, तस्य बुद्धौ शीघ्रम् उपस्थितिर्भवति | अनेन प्रतिपदोक्तं सर्वतो बलवत् | यत्र 'अपवादः' इति साक्षात् वक्तुं न शक्यते, तत्र विशिष्टत्वात् प्रतिपदोक्तत्वात् बलवत्वम् इति वदने सामर्थम् | ततः उच्यते यत् प्रतिपदोक्तम् अपवादसदृशम् | अपवादः बाधते, तद्वत् प्रतिपदोक्तम् अपि बाधते | कुतः इति चेत् तस्य नामग्रहणपूर्वक-विधिरस्ति, अनेन शीघ्रं प्रवृत्तिर्भवति |</big>
Line 406 ⟶ 415:
<big>तर्हि द्वितीये पक्षे कस्य बलेन आडागमात् प्राक् यण्-आदेशो विधीयेत ? लावस्थायाम् आडागमः इति पक्षे लाघवम् इति सत्यं; किन्तु तथा सति '''असिद्धवदत्राभात्''' (६.४.२२) इत्यस्य पाठः कुतः इति प्रश्नः | आभीयपाठस्य का गतिः ? '''इणो यण्''' (६.४.८१) '''आडजादीनाम्''' (६.४.७२) इति सूत्रद्वयम् आभीयशास्त्रे अन्तर्गतं, तस्य च कारणं स्यात् | '''इणो यण्''' (६.४.८१) सर्वप्रथमं न भवति चेत्, किमर्थम् आभीयकार्यम् इदम् | इदमेव आभीयपाठस्य सार्थक्यम् | अत्र भाष्यकारस्य कथनमिदं यत् तेन ज्ञायते आदौ लकारनिमित्तकार्याणि, ततः परमेव आडागमः |</big>
<big>प्रथमपक्षस्य परित्यजने, अन्यत् कारणमपि उक्तम् महाभाष्ये | किमिति चेत्, धातुः नाम क्रियावाचकः | क्रियायाः स्वाश्रयाकाङ्क्षा भवति; नो चेत् क्रिया न प्रतीयते | धातुरेव क्रियां न बोधयति | क्रियायाः स्वाश्रयसमवधाने एव धातुः क्रियां बोधयेत् | कर्तृबोधकप्रत्ययः परः यदा भवति, तदानीम् अयं धातुः परिपूर्णतया क्रियां बोधयितुं समर्थः भवति | क्रियायाः आश्रयबोधकप्रत्ययः नास्ति चेत् धातुः क्रियां कथं वा बोधयेत् ? लकारः आश्रयबोधकप्रत्ययः | तं विना 'अयं धातुः' इति व्यवहारः एव वस्तुतः न कर्तव्यः | कुतः इति चेत्, क्रियां न बोधयति | तर्हि कदा बोधयति ? स्वबोध्यक्रियायाः आश्रयः अस्ति चेदेव धातुः क्रियां बोधयति | भू-धातोः लट् इति प्रयोगे 'भू-धातुः' अर्थविज्ञानपदम् | इतः परं यदा लट्-प्रत्ययः करिष्यते, तदानीं परिपूर्णधातुः अयम् | प्रत्ययस्य उत्पत्तेः पूर्वम् 'अयं धातुः' इति व्यवहारः गौणः | अनेन लकार-प्रत्ययस्य उपस्थितिः आदौ भवति, तन्निमित्तककार्याणि च आदौ भवन्ति इति वक्तव्यम् | अस्मात् कारणादपि लावस्थायाम् अट् इति पक्षः परित्यक्तः |</big>
<big>आहत्य कारणत्रयेण '''इणो यण्''' (६.४.८१) सर्वप्रथमम् आयाति— १) आभीयपाठस्य सार्थक्यार्थम्; २) प्रतिपदोक्तत्वात्; ३) विशिष्टधातोः क्रियाबोधकत्वात् |</big>
<big>द्वौ प्रश्नौ अवशिष्टौ—</big>
Line 458 ⟶ 470:
<big>3) चिन्तनार्थं भाष्यकारः प्रतिपादयति यत् '''आडजादीनाम्''' (६.४.७२), '''आटश्च''' (६.१.८९) इत्यनयोः अष्टाध्याय्याम् आवश्यकता एव नास्ति | '''लुङ्लङ्लृङ्क्ष्वडुदात्तः''' (६.४.७१) च ''''अटश्च'''<nowiki/>' च इत्येव पर्याप्तम्; आभ्यां सर्वाणि रूपाणि सिध्येरन् | ऐच्छत्, ऐधत् | चिन्तनस्य विषयः !</big>
<big>B. इक् स्मरणे इति धातुः</big>
Line 470 ⟶ 484:
<big>इक् स्मरणे इति धातौ '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य प्रसक्तिः न तु '''इणो यण्''' (६.४.८१), नाम इयङ्-आदेशः प्रसक्तः न तु यण्-आदेशः | तर्हि अजाद्यपित्सु इयङ् कृत्वा अधि + इ + अन्ति → अधि + इय् + अन्ति → अधीयन्ति इति भवेत् | किन्तु तथा न भवति, अधियन्ति इत्येव भवति | अत्र धेयं यत् एकं गणसूत्रं वर्तते '''इण्वदिक इति वक्तव्यम्''' | अनेन इक्-धातुः इण-धातुवदेव भवति | अतः अत्र अधि + इक्, इण्वत् भवति | प्रथमम् इण्-धातोः रूपं निर्मातु, तदा अधि योजयतु, अपि च यथा आवश्यकता सन्धिकार्यं करोतु | आहत्य इक्-धातोः अजाद्यपित्सु इयङ्-आदेशो न भवति अपि तु इण्-वत् यण्-आदेश एव भवति |</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
<big>लटि —</big>
Line 549 ⟶ 564:
<big>अपित्सु प्रत्ययेषु '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः आदिश्यते, तदा '''क्क्ङिति च''' (१.१.५) इत्यनेन गुण-निषेधः | तदा '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यनेन पुनः गुणः | अत्र '''क्क्ङिति च''' (१.१.५), '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यनयोः कः सम्बन्धः ? '''क्क्ङिति च''' (१.१.५) इति प्रबाध्य '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यनेन गुणो वा ? इति चेत् '''शीङः सार्वधातुके गुणः''' (७.४.२१), '''क्क्ङिति च''' (१.१.५) इत्यस्य अपवादः इति वा ?</big>
<big>१) हलादि पित्सु = आत्मनेपदिधातुषु नास्ति एव |</big>
Line 563 ⟶ 579:
<big>अनुबन्धलोपे र् इति आगमः | अते → रते | अताम् → रताम् | अत → रत |</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
Line 581 ⟶ 595:
<big>तर्हि प्रश्नः आगतः आसीत् यत् '''क्क्ङिति च''' (१.१.५) इति प्रबाध्य '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यनेन गुणो वा ? इति चेत् '''शीङः सार्वधातुके गुणः''' (७.४.२१), '''क्क्ङिति च''' (१.१.५) इत्यस्य अपवादः इति वा ? अत्र त्रयाणां सूत्राणां निमित्तं किमिति ज्ञातव्यम् | '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | '''सार्वधातुकमपित्''' (१.२.४) इत्यनेन अपित् सार्वधातुकं ङिद्वत् अस्ति | '''क्क्ङिति च''' (१.१.५) इत्यनेन यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यनेन शीङ्-धातोः गुणः भवति सार्वधातुकप्रत्यये परे | '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इग्लक्षणगुणः क्रियते; '''क्क्ङिति च''' (१.१.५) इत्यनेन इग्लक्षणगुणः निषेध्यते; पुनः '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यनेन इग्लक्षणगुणः क्रियते | त्रिषु अपि '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम् |</big>
<big>वस्तुतः '''शीङः सार्वधातुके गुणः''' (७.४.२१) कुत्रापि स्वतन्त्रतया कार्यं न करोति; कुत्रचित् गुणं प्रबाध्य, कुत्रचित् गुणनिषेधं प्रबाध्य च स्वकार्यं करोति |</big>
Line 605 ⟶ 621:
<big>महाभाष्यवाक्यम् - '''अन्यत्रान्यत्रलब्धावकाशयोरेकत्रप्राप्तिस्तुल्यबलविरोधः''' | लब्धः अवकाशः यस्य तत्, लब्धावकाशं सूत्रम् | यदि द्वे सूत्रे स्तः ययोः द्वयोरपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशोऽस्ति, अपि च यदि इमे द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छतः, तर्हि इमे द्वे सूत्रे '''तुल्यबले''' इत्युच्यते | अपि च समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परः सङ्घर्षः, सः '''तुल्यबलविरोधः''' इत्युच्यते |</big>
Line 621 ⟶ 637:
<big>धेयं यत् '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यस्य प्रसक्तिः सार्वधातुकप्रत्यये परे एव, अतः णिचि ण्वुलि च अस्य कार्यं नास्ति | तत्र उभयत्र '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः | शाययति, शायकः इति |</big>
<big>F. दीधीङ् दीप्तिदेवनयोः इति धातुः |</big>
Line 651 ⟶ 669:
<big>इकारादिप्रत्ययेषु '''यीवर्णयोर्दीधीवेव्योः''' (७.४.५३) इत्यनेन दिधी-धातोः अन्त्यवर्ण-इकारस्य लोपः भवति |</big>
<big>दीधी + ईत → दीध् + ईत → दीधीत</big>
<big>'''दीधीवेवीटाम्''' (१.१.६) = दीधी, वेवी इति धातू, इडागमः चेत्येषां गुणः वृद्धिश्च न भवतः | अनेन इडागमस्य गुणः न कदापि भवति— यथा गम् + इ + स्यति → गमिष्यति; तस्य वृद्धिकार्यं न कुत्रापि विहितम् | दिधीश्च वेवीश्च इट् च तेषामितरेतरद्वन्द्वः दीधीवेवीतः, तेषां दीधीवेवीटाम् | दीधीवेवीटां षष्ट्यन्तं पदम्, एकपदमिदं सूत्रम् | '''इको गुणवृद्धी''' (१.१.३) इत्यस्मात् '''गुणवृद्धी''' इत्यस्य अनुवृत्तिः | '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात् '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''दीधीवेवीटाम् न गुणवृद्धी''' |</big>
Line 668 ⟶ 684:
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
Line 685 ⟶ 702:
<big>छान्दसि (वेदे) | आत्मनेपदिधातुः |</big>
<big>सर्वाणी सूत्राणि कार्याणि च दीधीङ्-धातोरिव |</big>
Line 724 ⟶ 739:
<big>यथा— यु + ति → कर्त्रर्थे सार्वधातुकप्रत्यये परे '''कर्तरि शप्''' → यु + शप् + ति → शपः लुक् '''अदिप्रभृतिभ्यः शपः''' → यु + ति → '''उतो वृद्धिर्लुकि हलि''' इत्यनेन वृद्धिः → य् + औ + ति → यौति</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
Line 742 ⟶ 755:
<big>एवमेव अवशिष्टाः अष्टौ सामान्य-धातवः—</big>
<big>कु शब्दे → कौति, क्षु शब्दे → क्षौति, क्ष्णु तेजने → क्ष्णौति, णु स्तुतौ → नौति, द्यु अभिगमने → द्यौति, षुप्रसवैश्वर्योः → सौति, ष्णु प्रस्रवणे → स्नौति | ह्नु अपनयने, ङिद्वात् आत्मनेपदे → ह्नुते |</big>
Line 748 ⟶ 760:
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्, भ्रू प्रातिपदिकम् च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकर-उकरः स्यात् इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि''' |</big>
<big>B. ऊर्णुञ् आच्छादने इति धातुः</big>
<big>१) '''ऊर्णोतेर्विभाषा''' (७.३.९०) = ऊर्णु-धातोः उकारस्य विकल्पेन वृद्धिः हलादि-पिति प्रत्यये परे | ऊर्णु + ति → ऊर्णौति / ऊर्णोति |</big>
<big>अस्य अपवादः—</big>
<big>२) '''गुणोऽपृक्ते''' (७.३.९१) = ऊर्णु-धातोः उकारस्य गुणः एव भवति (न तु वृद्धिः) अपृक्ते हलादि-पित्-सार्वधातुकप्रत्यये परे |</big>
<big>'''अपृक्त एकाल् प्रत्ययः''' (१.२.४१) इत्यनेन यस्मिन् प्रत्यये एक एव वर्णः (अल्), तस्य अपृक्त-संज्ञा भवति | हलादिपित्सु लङि त्, स् इति द्वौ प्रत्ययौ स्तः | अतः तयोः परयोः, केवलं गुणः भवति न तु वृद्धिः |</big>
Line 767 ⟶ 778:
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
<big><u>रूपाणि</u></big>
Line 786 ⟶ 798:
<big>'''गुणोऽपृक्ते''' (७.३.९१) = ऊर्णु-धातोः उकारस्य गुणः एव भवति (न तु वृद्धिः) अपृक्ते हलादि-पित्-सार्वधातुकप्रत्यये परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने गुणादेशः | गुणः प्रथमान्तम्, अपृक्ते सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात् '''हलि''' इत्यस्य अनुवृत्तिः | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात् '''पिति, सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''ऊर्णोतेर्विभाषा''' (७.३.९०) इत्यस्मात् '''ऊर्णोतेः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ऊर्णोतेः अङ्गस्य गुणः हलि पिति अपृक्ते सार्वधातुके''' |</big>
<big>ञिद्वात् ऊर्णुञ्-धातुः उभयपदी; आत्मनेपदे ऊर्णुते, ऊर्णुवाते, ऊर्णुवते इत्यादीनि रूपाणि |</big>
Line 794 ⟶ 808:
<big>'''तुरुस्तुशम्यमः सार्वधातुके''' (७.३.९५) = तु, रु, स्तु, शम्, अम् एभ्यः धातुभ्यः हलादि-सार्वधातुक-तिङ्प्रत्ययस्य विकल्पेन ईट्-आगमः भवति | प्रत्ययः पित् वा अपित् वा, हलादिः अस्ति चेत् ईडागमस्य विकल्पः |</big>
<big>१) ईडागमः नास्ति चेत् तर्हि यु-धातुरिव रूपाणि भवन्ति | रु + ति → रौति; रु + तः → रुतः; रु + अन्ति → रुवन्ति |</big>
Line 810 ⟶ 822:
<big>प्रत्ययः अजादिः अस्ति चेत् ईडागमः न भवति | यथा अजाद्यपित् 'अन्ति', अथवा अजादि-पित् 'आनि' इति |</big>
Line 815 ⟶ 828:
<big>रु + आनि → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → रो + आनि → '''एचोऽयवायावः''' इत्यनेन अव्-आदेशः → र् + अव् + आनि → रवाणि</big>
<big>तर्हि सारांशः अत्र यत् तु, रु, स्तु, शम्, अम् इत्येषां धातूनां रूपाणि द्विविधा भवन्ति—ईडागमः अस्ति चेत्, अपि च ईडागमः नास्ति चेत् |</big>
Line 851 ⟶ 862:
<big>१) हलादि पित्सु = आत्मनेपदिधातुषु नास्ति एव |</big>
<big>२) अजादि पित्सु = गुणः, अवादेशः | ह्नु + ऐ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → ह्नो + ऐ → '''एचोऽयवायावः''' इत्यनेन अव्-आदेशः → ह्न् + अव् + ऐ → ह्नवै</big>
<big>३) हलाद्यपित्सु = क्ङिति च, गुणनिषेधः | ह्नु + ते → ह्नुते</big>
<big>४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन उवङ्-आदेशः | ह्नु + आते → ह्न् + उव् + आते → ह्नुवाते</big>
Line 932 ⟶ 943:
<big>'''आहस्थः''' (८.२.३५) = आह् इत्यस्य हकारस्य स्थाने थकारादेशो भवति झलि परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन आह्-धातोः अन्तिमवर्णस्य हकारस्य स्थाने थकारः | आहः षष्ठ्यन्तं, थः प्रथमान्तं, द्विपदमिदं सीत्रम् | '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''आहः थः झलि''' |</big>
<big>F. षूङ् प्राणि-गर्भविमोचने (सू-धातुः)</big>
Line 939 ⟶ 948:
<big>'''भूसुवोस्तिङि''' (७.३.८८) = भू सू इति धातुभ्यां सार्वधातुके तिङ्प्रत्यये परे गुणनिषेधः भवति | भू-धातुः भ्वादिगणे, यथा लुङ्-लकारे भू-धातोः परे तिङ् साक्षात् आयाति | तत्र इकः गुणः भवति स्म, परन्तु अनेन सूत्रेण गुणनिषेधः, अभूत् इति रूपम् | सू-धातुः अदादिगणे; अनेन सूत्रेण पिति परे अपि गुणः न | भूश्च सूश्च भूसुवौ इतरेतरद्वन्द्वः, तयोः भूसुवोः | भूसुवोः षष्ठ्यन्तं, तिङि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात् '''न, सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात् '''गुणः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''भूसुवोः न गुणः सार्वधातुके तिङि''' |</big>
<big>षूङ्-धातुः ङित् अतः आत्मनेपदी—</big>
Line 977 ⟶ 984:
<big>'''जक्षित्यादयः षट्''' (६.१.६) = जागृ-आदयः षट् धातवः, सप्तमश्च जक्ष् इत्येषाम् अभ्यस्त-संज्ञा भवति | अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्त धातवः सन्ति— जक्ष्, जागृ, दरिद्रा, चकास्, शास्, दीधीङ्, वेवीङ् | धातोः द्वित्वं यदा भवति, तदा मिलित्वा द्वयोः नाम अभ्यस्तम् | किन्तु अनेन सूत्रेण एषां धातूनाम् अभ्यस्तसंज्ञा भवति, द्वित्वं विना | षड्धातवोऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः | इति आदिः येषां ते इत्यादयः | इतिशब्देन जक्ष्-परामर्शः | जक्ष् प्रथमान्तम्, इत्यादयः प्रथमान्तम्, षट् प्रथमान्तम्, त्रिपदमिदं सूत्रम् | '''उभे अभ्यस्तम्''' (६.१.५) इत्यस्मात् '''अभ्यस्तम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''जक्षित्यादयः षट् अभ्यस्तम्''' |</big>
<big>तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयम्—</big>
Line 985 ⟶ 994:
<big>२) '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात् '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्''' (३.४.१०८) इत्यस्मात् '''झेः जुस्''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस्''' |</big>
<big>तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्—</big>
Line 1,004 ⟶ 1,011:
<big>१) अजागृ + त् → गुणः → अजागर् + त् → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' इत्यनेन त्-लोपः → अजागर् → '''खरवासयोर्विसर्जनीयः''' इत्यनेन र्-स्थाने विसर्गः → अजागः</big>
<big>अजागृ + स् → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' इत्यनेन स्-लोपः → अजागर् → '''खरवासयोर्विसर्जनीयः''' इत्यनेन र्-स्थाने विसर्गः → अजागः</big>
<big>२) अजागृ + जुस् → अजागृ + उः → '''जुसि च''' इत्यनेन गुणः → अजागर् + उः → अजागरुः</big>
Line 1,016 ⟶ 1,023:
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''रो रि''' (८.३.१४) इत्यस्मात् '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम्''' |</big>
<big>अजागृ + स् → अजागः</big>
Line 1,027 ⟶ 1,036:
<big>'''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) = जागृ-धातोः गुणो भवति वि, चिण्, णल्, ङित् इत्येषां प्रत्ययाणां पर्युदासे | वि इति प्रत्ययविशेषः, चिण् इति लुङ्-लकारस्य, णल् इति लिट्-लकारस्य, ङित् इत्यनेन इत्-संज्ञकः ङकारः यस्य | वि, ङित् इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति | चिण्, णल् इत्यनयोः विषये वृद्धिः इदानीमपि भवति | अन्यत्र सर्वत्र गुणः भवति एव | '''अचो ञ्णिति''' (७.२.११५), '''क्क्ङिति च''' (१.१.५) इत्यनयोः अपवादः | विश्च चिण् च णल् च ङित् च, तेषामितरेतरद्वन्द्वः विचिण्णल्ङितः, न विचिण्णल्ङितः अविचिण्णल्ङितः, तेषु अविचिण्णल्ङित्सु | जाग्रः षष्ठ्यन्तम्, अविचिण्णल्ङित्सु सप्तम्यन्तम् | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात् '''गुणः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''जाग्रः गुणः अविचिण्णल्ङित्सु''' |</big>
<big>यत्र वृद्धिः भवति स्म, तत्र गुणः भवति—</big>
Line 1,044 ⟶ 1,055:
<big>जागृ + ति → '''सार्वधातुकार्धधातुकयोः''' (७.२.११५) इति प्रबाध्य '''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन गुणः → जागर् + ति → जागर्ति</big>
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |</big>
|