6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 179:
 
<big>'''लङः शाकटायनस्यैव''' (३.४.१११) = आकारान्तात्‌ धातोः लङि झेः जुस्‌ आदेशः भवति शाकटायनस्य मतेन | शाकटायनः कश्चन वैयाकरणः आसीत्‌, पाणिनेः पूर्वम्‌ | अनेन परस्मैपदे लङि प्रथमपुरुषबहुवचने विकल्पेन अन्‌, उः, इत्येतयौ तिङ्‌-प्रत्ययौ भवतः | लङः षष्ठ्यन्तं, शाकटायनस्य षष्ठ्यन्तम्‌, एव अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''आतः''' (३.४.११०) इति सूत्रस्य अनुवृत्तिः, '''झेर्जुस्‌''' (३.४.१०८) इत्यस्मात्‌ '''झेः''', '''जुस्‌''' इत्यनयोः अनुवृत्तिः | '''धातोः''' (३.१.९१) इत्यस्य अधिकारः, पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌; अत्र “'''आतः धातोः'''" अस्मिन्‌ सूत्रे आयाति | अनुवृत्ति-सहितसूत्रम्‌— '''शाकटायनस्य एव (मते) लङः आतः धातोः झेः जुस्‌''' |</big>
 
 
<big>'''उस्यपदान्तात्''' (६.१.९६) = अपदान्तात्‌ अकारात्‌ उसि प्रत्यये परे पूर्वपरयोः पररूपम्‌ एकादेशः भवति; आद्गुणस्य अपवादः | अवा + उः → अव्‌ + उः → अवुः | न पदान्तम्‌ अपदान्तं, तस्मात्‌ अपदान्तात्‌ | उसि सप्तम्यन्तम्‌, अपदान्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''आद्गुणः''' (६.१.८७) इत्यस्मात्‌ '''आत्‌''' इत्यस्य अनुवृत्तिः | '''इको यणचि''' (६.१.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; अनुवर्तते अत्र यतोहि परेषु सूत्रेष्वपि तस्य आवश्यकता | '''एङि पररूपम्‌''' (६.१.९४) इत्यस्मात्‌ '''पररूपम्‌''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तात्‌ आत्‌ अचि उसि एकः पूर्वपरयोः पररूपम्‌ संहितायाम्‌''' |</big>
 
 
 
Line 192 ⟶ 194:
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
<big><u>रूपाणि</u></big>
Line 232:
 
<big>'''उभे अभ्यस्तम्‌''' (६.१.५) इति सूत्रेण यदा धातोः द्वित्वं भवति, तदा मिलित्वा द्वयोः भागयोः नाम 'अभ्यस्तं' भवति | '''जक्षित्यादयः षट्‌''' (६.१.६) इत्यनेन जक्षित्यादीनां धातूनाम्‌ अद्वित्वे सत्यपि अभस्त-संज्ञा भवति |</big>
 
 
 
<big>एषां सप्तानां धातूनां तिङन्तसिद्ध्यर्थं चत्वारि कार्याणि—</big>
Line 239 ⟶ 237:
 
<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति | अत्‌ प्रथमान्तम्‌, अभ्यस्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झोऽन्तः''' (७.१.३) इत्यस्मात्‌ '''झः''' (षष्ठ्यन्तम्‌) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तात्‌ अङ्गात्‌ प्रत्ययादेः झः अत्‌''' |</big>
 
 
<big>धेयं यत्‌ अत्‌-आदेशस्य तकारः '''हलन्त्यम्‌''' (१.३.३) इति सूत्रेण इत्‌-संज्ञकः न, यतोहि अत्‌ तु विभक्तिसंज्ञक-झि-प्रत्ययस्य अवयवस्य आदेशः अतः '''न विभक्तौ तुस्माः''' (१.३.४) इत्यनेन '''हलन्त्यम्‌''' (१.३.३) बाधितम्‌ |</big>
 
 
 
Line 250:
 
<big>अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्‌-आदेशः | जुस्‌ इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि आहत्य अभ्यस्तसंज्ञकः धातुः अस्ति चेत्‌, लङि अन्‌-स्थाने उः इति प्रत्ययः भवति |</big>
 
 
 
<big>३) '''इद्‌ दरिद्रस्य''' (६.४.११४) = दरिद्रा-धातोः आकारस्य स्थाने इ-आदेशो भवति, हलादौ किति ङिति सार्वधातुकप्रत्यये परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन दरिद्रा-धातोः अन्तिमवर्णस्य आकारस्य स्थाने इकारः | इत्‌ प्रथमान्तं, दरिद्रस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात्‌ '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''ई हल्यघोः''' (६.४.११३) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दरिद्रस्य अङ्गस्य इत्‌ हलि क्ङिति सार्वधातुके''' |</big>
Line 257 ⟶ 255:
 
<big>यथा दरिद्रा + तः → दरिद्रि + तः → दरिद्रितः | दरिद्रा + वः → दरिद्रि + वः → दरिद्रिवः |</big>
 
 
<big>४) '''श्नाभ्यस्तयोरातः''' (६.४.११२) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्‌, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्मात्‌ '''लोपः''', इत्यस्य अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात्‌ '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके''' |</big>
 
 
 
<big>'''श्नाभ्यस्तयोरातः''' (६.४.११२) इति सूत्रेण न केवलम्‌ अजाद्यपिति अपि तु हलाद्यपिति अपि कार्यं विहितं, किन्तु हलाद्यपित्सु परेषु '''ई हल्यघोः''' (६.४.११३) इत्यनेन आकारस्य लोपकार्यं प्रबाध्य आकारस्य स्थाने ई-कारादेशः विधीयते | तदा हलाद्यपित्सु '''ई हल्यघोः''' इत्यस्य बाधकं सूत्रम्‌ '''इद्‌ दरिद्रस्य''' (६.४.११४), येन आ-स्थाने इकारादिष्टः | आहत्य '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन आकारस्य लोपः केवलम्‌ अजाद्यपित्सु भवति | अजाद्यपित्सु कार्यं भवति यथा दरिद्रा + अति → दरिद्र्‍ + अति → दरिद्रति | दरिद्रा + अतु → दरिद्र्‍ + अतु → दरिद्रतु |</big>
 
 
 
<big>अवशिष्ट-स्थलेषु दरिद्रा-धातोः तिङन्तरूपाणि वा-धातुवत्‌ भवन्ति |</big>
Line 318 ⟶ 316:
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big><u>रूपाणि</u></big>
Line 358 ⟶ 357:
 
<big>किन्तु इह कश्चन नूतनसिद्धान्तः आनेतव्यः | इण्‌-धातु-विषयकतया प्रतिपदोक्तत्वम्‌ | व्याकरणशास्त्रे प्रतिपदम्‌ इत्युच्यते यत्र साक्षात्‌ नाम्ना आह्वानं भवति; प्रतिपदम्‌ इत्यनेन नामग्रहणम्‌ | अस्मिन्‌ सिद्धान्ते शीघ्रावस्थितिकत्वमेव बीजम्‌ | यथा 'एकः छात्रः आगच्छतु' इत्यनेन कञ्चन छात्रम्‌ आह्वातुं शक्नुमः; 'चैत्र आगच्छ' इत्यपि रीत्या आह्वातुं शक्नुमः | उभयत्र छात्रस्य आह्वानम्‌ | 'कश्चन छात्रः आगच्छातु' इत्यस्य अपेक्षया 'चैत्र आगच्छ' इत्यनेन शीघ्रं प्रवृत्तिर्भवति | कुतः इति चेत्, तस्य वाचकपदम्‌ | प्रतिपदेन उक्तं → प्रतिपदोक्तम्‌ | छात्रत्वावच्छिनः यः कोऽपि छात्रः भवितुम्‌ अर्हति; किन्तु 'चैत्रत्वम्‌ आगच्छ' इत्यनेन विशेषतया तस्य वाचकं यत्‌ पदं, तस्य विशिष्टोच्चारणात्‌ प्रतिपदोक्तं भवति | 'कश्चन छात्रः आगच्छातु' इत्यस्य कथनेन 'अहं न, अन्यः कश्चन छात्रः स्यात्‌' इति शङ्कातः शीघ्रम्‌ उपस्थितिर्न भवति | किन्तु 'चैत्र आगच्छ' इत्यस्य कथनेन विलम्बः न भवति अपि तु शीघ्रोपस्थितिः |</big>
 
 
 
<big>प्रतिपदम्‌ | पदं पदं प्रतिपदम्‌ | तन्मात्रवृत्तिधर्मविशिष्टं पदम्‌ | वीप्सया तत्पदमात्रवृत्तिधर्मपुरस्कारवैशिष्ट्यम्‌ | तत्पदमात्रवृत्तिधर्मपुरस्कारेण ग्रहणं यत्र, तत्‌ प्रतिपदम्‌ इत्युच्यते | तदनुकूलव्यवच्छिन्नतया नाम इति अर्थः गृह्यते | यथा '''इणो यण्''' (६.४.८१) इत्यनेन यण्‌-आदेशः प्रतिपदोक्तः | '''इको यणचि''' (६.१.७७) इत्यनेन यण्‌-आदेशः लाक्षणिकः | '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इत्यनेनापि यण्‌-आदेशः लाक्षणिकः |</big>
Line 371 ⟶ 368:
 
<big>कुतः बलवत्वम्‌ इति चेत्‌, तस्य बुद्धौ शीघ्रम्‌ उपस्थितिर्भवति | अनेन प्रतिपदोक्तं सर्वतो बलवत्‌ | यत्र 'अपवादः' इति साक्षात्‌ वक्तुं न शक्यते, तत्र विशिष्टत्वात्‌ प्रतिपदोक्तत्वात्‌ बलवत्वम्‌ इति वदने सामर्थम्‌ | ततः उच्यते यत्‌ प्रतिपदोक्तम्‌ अपवादसदृशम्‌ | अपवादः बाधते, तद्वत्‌ प्रतिपदोक्तम्‌ अपि बाधते | कुतः इति चेत्‌ तस्य नामग्रहणपूर्वक-विधिरस्ति, अनेन शीघ्रं प्रवृत्तिर्भवति |</big>
 
 
 
<big>अतः अत्र यद्यपि '''इणो यण्''' (६.४.८१) इत्यस्य कार्यस्थलम्‌ '''आटश्च''' (६.१.८९) इति कर्यस्थलात्‌ भिन्नम्‌ इति कारणतः तस्य अपवादभूतत्वम्‌ इति वक्तुं न शक्येत, तथापि प्रतिपदोक्तत्वस्य बलेन बाधकत्वम्‌ | तुल्यबलविरोधस्याभावात्‌ प्रतिपदोक्तत्वात्‌ बाधकत्वम्‌ इत्युच्यते | तर्हि प्रतिपदोक्तत्वस्य बलवत्वे '''इणो यण्''' (६.४.८१) | '''इणो यण्''' (६.४.८१) इत्यस्य प्रतिपदोक्तत्वात्‌ इण्‌-धातुं ग्रहीत्वा यण्‌-आदेशः विधीयते—</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits