6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 468:
 
<big>B. इक्‌ स्मरणे इति धातुः</big>
 
 
 
<big>इक्‌ स्मरणे नित्यम्‌ अधि-उपसर्गपूर्वकः धातुः, परस्मैपदी च |</big>
Line 498 ⟶ 496:
 
<big>इङ्‌-धातुः ङित्‌ अतः आत्मनेपदिधातुः, नित्यम्‌ अधि-पूर्वः च |</big>
 
 
<big>१) हलादि पित्सु = आत्मनेपदिधातुषु नास्ति एव |</big>
Line 573 ⟶ 572:
 
<big>अनुबन्धलोपे र्‍ इति आगमः | अते → रते | अताम्‌ → रताम्‌ | अत → रत |</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
Line 592 ⟶ 593:
 
<big>वस्तुतः '''शीङः सार्वधातुके गुणः''' (७.४.२१) कुत्रापि स्वतन्त्रतया कार्यं न करोति; कुत्रचित्‌ गुणं प्रबाध्य, कुत्रचित्‌ गुणनिषेधं प्रबाध्य च स्वकार्यं करोति |</big>
 
 
 
<big>शी + लट्‌ → शी + ते → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः → '''क्क्ङिति च''' (१.१.५) इत्यनेन गुण-निषेधः → '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यनेन गुणः |</big>
Line 634 ⟶ 633:
 
<big>F. दीधीङ्‌ दीप्तिदेवनयोः इति धातुः |</big>
 
 
 
<big>दीप्तिः इति प्रकाशः; देवनम्‌ इति दुःखम्‌ | छान्दसि (वेदे) | आत्मनेपदिधातुः |</big>
Line 647 ⟶ 644:
 
<big>'''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) = असंयोगपूर्व-अनेकाच्‌-इकारान्ताङस्य यण्‌-आदेशो भवति अचि परे |</big>
 
 
 
<big>१) हलादि पित्सु = आत्मनेपदिधातुषु नास्ति एव |</big>
Line 663 ⟶ 658:
 
<big>इकारादिप्रत्ययेषु '''यीवर्णयोर्दीधीवेव्योः''' (७.४.५३) इत्यनेन दिधी-धातोः अन्त्यवर्ण-इकारस्य लोपः भवति |</big>
 
 
<big>दीधी + ईत → दीध्‌ + ईत → दीधीत</big>
 
 
 
Line 673 ⟶ 670:
 
 
<big>'''यीवर्णयोर्दीधीवेव्योः''' (७.४.५३) = दीधी, वेवी इति धात्वोः अन्त्यवर्ण-इकारस्य लोपो भवति यकारादि-प्रत्यये इवर्णे च परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अल्‌-वर्णस्य लोपः | यिश्च इवर्णश्च यीवर्णौ इतरेतरद्वन्द्वः, तयोः यीवर्णयोः | दीधीश्च वेवीश्च दीधीवेव्यौ इतरेतरद्वन्द्वः, तयोः दीधीवेव्योः | यीवर्णयोः सप्तम्यन्तं, दीधीवेव्योः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''तासस्त्योर्लोपः''' (७.४.५०) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''दीधीवेव्योः अङ्गस्य लोपः यीवर्णयोः''' |</big>
 
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
<big><u>रूपाणि</u></big>
Line 696 ⟶ 689:
 
<big>छान्दसि (वेदे) | आत्मनेपदिधातुः |</big>
 
 
<big>सर्वाणी सूत्राणि कार्याणि च दीधीङ्‌-धातोरिव |</big>
 
 
 
Line 733 ⟶ 728:
 
<big>यथा— यु + ति → कर्त्रर्थे सार्वधातुकप्रत्यये परे '''कर्तरि शप्''' → यु + शप्‌ + ति → शपः लुक्‌ '''अदिप्रभृतिभ्यः शपः''' → यु + ति → '''उतो वृद्धिर्लुकि हलि''' इत्यनेन वृद्धिः → य्‌ + औ + ति → यौति</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
Line 749 ⟶ 746:
 
<big>एवमेव अवशिष्टाः अष्टौ सामान्य-धातवः—</big>
 
 
<big>कु शब्दे → कौति, क्षु शब्दे → क्षौति, क्ष्णु तेजने → क्ष्णौति, णु स्तुतौ → नौति, द्यु अभिगमने → द्यौति, षुप्रसवैश्वर्योः → सौति, ष्णु प्रस्रवणे → स्नौति | ह्‌नु अपनयने, ङिद्वात्‌ आत्मनेपदे → ह्नुते |</big>
 
 
 
Line 757 ⟶ 756:
 
<big>B. ऊर्णुञ्‌ आच्छादने इति धातुः</big>
 
 
 
<big>१) '''ऊर्णोतेर्विभाषा''' (७.३.९०) = ऊर्णु-धातोः उकारस्य विकल्पेन वृद्धिः हलादि-पिति प्रत्यये परे | ऊर्णु + ति → ऊर्णौति / ऊर्णोति |</big>
Line 795 ⟶ 792:
 
<big>ञिद्वात्‌ ऊर्णुञ्‌-धातुः उभयपदी; आत्मनेपदे ऊर्णुते, ऊर्णुवाते, ऊर्णुवते इत्यादीनि रूपाणि |</big>
 
 
 
<big>C. रु शब्दे इति धातुः</big>
Line 802 ⟶ 797:
 
<big>'''तुरुस्तुशम्यमः सार्वधातुके''' (७.३.९५) = तु, रु, स्तु, शम्‌, अम्‌ एभ्यः धातुभ्यः हलादि-सार्वधातुक-तिङ्‌प्रत्ययस्य विकल्पेन ईट्‌-आगमः भवति | प्रत्ययः पित्‌ वा अपित्‌ वा, हलादिः अस्ति चेत्‌ ईडागमस्य विकल्पः |</big>
 
 
<big>१) ईडागमः नास्ति चेत्‌ तर्हि यु-धातुरिव रूपाणि भवन्ति | रु + ति → रौति; रु + तः → रुतः; रु + अन्ति → रुवन्ति |</big>
Line 812 ⟶ 808:
 
<big>रु + तः → रु + ईट्‌ + तः → रु + ईतः → तः हलाद्यपित्‌ आसीत्‌; किन्तु अधुना ईतः अजाद्यपित्‌ अस्ति | अजाद्यपित्‌ अतः '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन उवङ्‌-आदेशः → र्‍ + उव्‌ + ईतः → रुवीतः</big>
 
 
 
<big>प्रत्ययः अजादिः अस्ति चेत्‌ ईडागमः न भवति | यथा अजाद्यपित्‌ 'अन्ति', अथवा अजादि-पित्‌ 'आनि' इति |</big>
 
 
 
<big>रु + अन्ति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन उवङ्‌-आदेशः | र्‍ + उव्‌ + अन्ति → रुवन्ति</big>
 
<big>रु + आनि → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → रो + आनि → '''एचोऽयवायावः''' इत्यनेन अव्‌-आदेशः → र्‍ + अव्‌ + आनि → रवाणि</big>
 
 
<big>तर्हि सारांशः अत्र यत्‌ तु, रु, स्तु, शम्‌, अम् इत्येषां धातूनां रूपाणि द्विविधा भवन्ति—ईडागमः अस्ति चेत्‌, अपि च ईडागमः नास्ति चेत्‌ |</big>
 
 
 
Line 849 ⟶ 843:
 
<big>D. ह्‌नुङ्‌ अपनयने इति धातुः</big>
 
 
 
<big>ङित्‌ अस्ति अतः आत्मनेपदिधातुः | अन्यत्‌ सर्वं सामान्यमेव |</big>
Line 937 ⟶ 929:
 
<big>'''आहस्थः''' (८.२.३५) = आह्‌ इत्यस्य हकारस्य स्थाने थकारादेशो भवति झलि परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन आह्‌-धातोः अन्तिमवर्णस्य हकारस्य स्थाने थकारः | आहः षष्ठ्यन्तं, थः प्रथमान्तं, द्विपदमिदं सीत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''आहः थः झलि''' |</big>
 
 
<big>F. षूङ्‌ प्राणि-गर्भविमोचने (सू-धातुः)</big>
 
 
 
<big>'''भूसुवोस्तिङि''' (७.३.८८) = भू सू इति धातुभ्यां सार्वधातुके तिङ्‌प्रत्यये परे गुणनिषेधः भवति | भू-धातुः भ्वादिगणे, यथा लुङ्‌-लकारे भू-धातोः परे तिङ्‌ साक्षात्‌ आयाति | तत्र इकः गुणः भवति स्म, परन्तु अनेन सूत्रेण गुणनिषेधः, अभूत्‌ इति रूपम्‌ | सू-धातुः अदादिगणे; अनेन सूत्रेण पिति परे अपि गुणः न | भूश्च सूश्च भूसुवौ इतरेतरद्वन्द्वः, तयोः भूसुवोः | भूसुवोः षष्ठ्यन्तं, तिङि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात्‌ '''न, सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''भूसुवोः न गुणः सार्वधातुके तिङि''' |</big>
 
 
<big>षूङ्‌-धातुः ङित् अतः आत्मनेपदी—</big>
Line 981 ⟶ 976:
 
<big>तिङ्‌प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयम्‌—</big>
 
 
 
<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति | अत्‌ प्रथमान्तम्‌, अभ्यस्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झोऽन्तः''' (७.१.३) इत्यस्मात्‌ '''झः''' (षष्ठ्यन्तम्‌) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तात्‌ अङ्गात्‌ प्रत्ययादेः झः अत्‌''' |</big>
Line 988 ⟶ 981:
 
<big>२) '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्‌-लकारस्य अवस्थायां, सिच्‌-प्रत्ययात्‌, अभ्यस्तसंज्ञकात्‌ धातोः, विद्‌-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्‌-आदेशो भवति | सिच्‌ च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात्‌ '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्‌''' (३.४.१०८) इत्यस्मात्‌ '''झेः जुस्‌''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस्‌''' |</big>
 
 
<big>तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌—</big>
 
 
 
Line 1,020 ⟶ 1,015:
 
<big>अजागृ + स्‌ → अजागः</big>
 
 
 
<big>'''जुसि च''' (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | '''क्सस्याचि''' (७.३.७२) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''मिदेर्गुणः''' (७.३.८२) त्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इति परिभाषासूत्रेण '''इकः''' स्थानी भवति | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः अचि जुसि च''' |</big>
Line 1,033 ⟶ 1,026:
 
<big>यत्र वृद्धिः भवति स्म, तत्र गुणः भवति—</big>
 
 
 
<big>जागृ + णिच्‌ → '''अचो ञ्णिति''' (७.२.११५) इति प्रबाध्य '''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन गुणः → जागर्‍ + इ → जागरि इति णिजन्तधातुः → जागरयति</big>
Line 1,052 ⟶ 1,043:
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
<big><u>रूपाणि</u></big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits