6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(2 intermediate revisions by the same user not shown)
Line 706:
 
 
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तंषष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
 
 
Line 909:
 
 
<big>छकारात्‌ प्राक्‌ यदि ह्रस्ववर्णो नास्ति, कश्चन हल्‌-वर्णः एव भवति | नाम छकारः तुक्‌-सहितः नास्ति चेत्‌, संयोगो भवति एव | (आछि, वाछि, लाछि, एते इदित्‌-धातवः अतः नुमागमः; नुमागमात्‌ संयोगग्रस्तछकारः | उच्छि इति धातौ तुगागमः |) एवं च अन्ते संयोगः अस्ति, तस्यां च दशायां '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदान्ते छकार-लोपो भवति | वाञ्छ्‌-धातुः + क्विप्‌-प्रत्ययः → वाञ्छ्‌ इति प्रातिपदिकम्‌ | प्रथमपुरुषैकवचने वाञ्छ्‌ + सु → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन हलन्तात्‌ सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः → '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदान्ते छकार-लोपः → वान्‌ | एवमेव लङ्‌-लकारे अवावाञ्छ्‌ + तित् → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) → अवावाञ्छ्‌ → '''संयोगान्तस्य लोपः''' (८.२.२३) → अवावान्‌ |</big>
 
 
Line 921:
 
 
<big>'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे तुक्‌-रहित-छकारः यदि मन्यामहे, तर्हि 'पाप्रच्छ्‌ + सि' इति स्थले छकारस्य अस्थाने षकारः तु भवति, किन्तु तुक्‌-आगमः स्थास्यति | अस्य निवारणार्थं तुक्‌-सहित-छकारः अपेक्षितः सर्वत्र | तदर्थञ्च 'वावाञ्छ्‌ + ति' इति स्थले तुक्‌-सहित-छकारस्य अभावे अस्य सूत्रस्य प्रसक्तिर्नास्ति |</big>
 
 
page_and_link_managers, Administrators
5,097

edits