page_and_link_managers, Administrators
5,152
edits
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती) |
No edit summary |
||
(33 intermediate revisions by 6 users not shown) | |||
Line 1:
{{DISPLAYTITLE: 09 - धातुपाठे हल्-सन्धिः २}}
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणानि
|-
|<big>'''2018 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/119_dhatupathe-hal-sandhih-1---abhyasah___dhatupathe-hal-sandhih-2---paricayah_2018-05-30.mp3 dhAtupAThe-hal-sandhiH-1---abhyAsaH_वरीवृत् → चरीकृष्_+_dhAtupAThe-hal-sandhiH-2---paricayaH_2018-05-30]</big>
|-
|<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/120_dhatupathe-hal-sandhih-1-----__dhatupathe-hal-sandhih-2---kakara-cakarantadhatavah_2018-06-06.mp3 dhAtupAThe-hal-sandhiH-1---रो रि-ढ्रलोपे पूर्वस्य दीर्घोऽणः-पूर्वत्रासिद्धम्_+_dhAtupAThe-hal-sandhiH-2---kakAra-cakArAntadhAtavaH_2018-06-06]</big>
|-
|<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/121_dhatupathe-hal-sandhih-2---sadipratyayePare--cavarga-tavarga-tavarga-pavarga-y-v-l-r-s-sh-sh_2018-06-13.mp3 dhAtupAThe-hal-sandhiH-2---sAdipratyaye pare--cavarga-Tavarga-tavarga-pavarga-y-v-l-r-s-sh-Sh_2018-06-13]</big>
|-
|<big>४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/122_dhatupathe-hal-sandhih-2---sadipratyayePare--vakaranta-cintanam__hakarantah__abhyasah_2018-06-20.mp3 dhAtupAThe-hal-sandhiH-2---sAdipratyaye pare--vakArAnta-cintanam_+_hakArAntAH_]</big><big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/122_dhatupathe-hal-sandhih-2---sadipratyayePare--vakaranta-cintanam__hakarantah__abhyasah_2018-06-20.mp3 +_abhyAsaH_2018-06-20]</big>
|-
|<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/123_dhatupathe-hal-sandhih-2---..-__sadipratyayePare_abhyasah_2018-06-27.mp3 dhAtupAThe-hal-sandhiH-2---च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे क्ङिति-?_+_sAdipratyaye pare_abhyAsaH_2018-06-27]</big>
|-
|<big>६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/124_dhatupathe-hal-sandhih-2---..-__tuk-sahita-chakarah_2018-07-04.mp3 dhAtupAThe-hal-sandhiH-2---च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे क्ङिति-?_+_tuk-sahita-chakAraH_2018-07-04]</big>
|-
|<big>७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/125_dhAtupAThe-hal-sandhiH-2---abhyAsaH__dhAtupAThe-hal-sandhiH-3---paricayaH_2018-07-11.mp3 dhAtupAThe-hal-sandhiH-2---abhyAsaH_+_dhAtupAThe-hal-sandhiH-3---paricayaH_2018-07-11]</big>
|-
|<big>'''2015 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/38_dhAtupAThe_hal-sandhiH---apadAnte-sakArAdi-pratyaye-pare_2015-05-13.mp3 dhAtupAThe_hal-sandhiH---apadAnte-sakArAdi-pratyaye-pare_2015-05-13]</big>
|-
|२) <big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/73_dhAtupAThe-hal-sandhiH-2_cintanam-abhyAsaH-ca_2016-06-19.mp3 dhAtupAThe-hal-sandhiH-2_cintanam-abhyAsaH-ca_2016-06-19]</big>
|}
<big>यथा उक्तं गते पाठे, यावन्तः प्रत्ययाः धातुभ्यः विहिताः सन्ति, ते सर्वे आरभ्यन्ते एभिः अच्-वर्णैः (नाम अ, आ, इ, ई, उ, ऊ, ए, ऐ इत्येभिः) अथवा एभिः हल्-वर्णैः— य्, र् / व्, म्, न् / त्, थ्, ध्, स् | यदा प्रत्ययः अज्भिः वर्णैः आरभ्यते अथवा य्, र् इत्येभिः हल्-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति) | धातुः हलन्तः अस्ति चेत् अथवा प्रक्रियायां हलन्तः भवति (यथा धा-धातुः, दधा + तः → दध् + तः → धत्तः), अपि च प्रत्ययः त्, थ्, ध्, स् इत्येभिः वर्णैः आरभ्यते, तस्यां दशायां हल्-सन्धिः प्रचुरः लभ्यते | व्, म्, न् इत्येभिः वर्णैः आरभ्यते चेत्, विशिष्टस्थलेषु लभ्यते | सन्धिः नाम यत्र द्वयोः वर्णयोः मेलनेन वर्णविकारः भवति | हल्-सन्धिः नाम यत्र द्वयोः हल्-वर्णयोः मेलनेन वर्णविकारः भवति, इति तु जानीमः |</big>
<big>सम्प्रति चत्वारः पाठाः क्रियमाणास्सन्ति येषु हलन्तेभ्यो धातुभ्यः कथं तकारादिप्रत्ययाः, थकारादिप्रत्ययाः, धकारादिप्रत्ययाः, सकारादिप्रत्ययाश्च संयुज्यन्ते इति परिशील्यमानम् | चतुर्षु पाठेषु, अयं पाठो द्वितीयः |</big>
<big>A. विधयः चतुर्षु विभागेषु विभक्तः</big>
<big>१. हलन्तेभ्यो धातुभ्यो लङ्-लकारस्य त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोः योजनविधिः</big>
<big>२. हलन्तेभ्यो धातुभ्यस् सकारादिप्रत्ययानां योजनविधिः (लङ्-लकारस्य स्-प्रत्ययम् अतिरिच्य)</big>
<big>३. हलन्तेभ्यो धातुभ्यस् तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्-लकारस्य त्-प्रत्ययम् अतिरिच्य)</big>
<big>४. हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः</big>
<big>तर्हि चतुर्षु अयं पाठः द्वितीयः | अत्र हलन्तेभ्यो धातुभ्यस् सकारादिप्रत्ययानां योजनविधिः अवलोक्यमानः (लङ्-लकारस्य स्-प्रत्ययम् अतिरिच्य) इति | अत्र मार्गः षट्प्रकारकः—</big>
<big>B. हलन्तधातुभ्यः सादिप्रत्ययः चेत् अधः प्रदर्शिताः सम्भावनाः</big>
<big>एषु सर्वत्र स्मरणीयं यत्— (१) सकारः खर्-प्रत्याहारे अस्ति, अतः बहुत्र '''खरि च''' (८.४.५५) इत्यनेन चर्त्वसन्धेः प्रसङ्गः; (२) सकारः झल्-प्रत्याहारे अस्ति, अतः यत्र यत्र 'झलि' इति सूत्रेषु अनुवर्तते, तत्र तत्र सकारे परे तस्य प्रसङ्गः |</big>
<big>१. धातोरन्तिमो वर्णः क्, ख्, ग्, घ्; च्, छ्, ज्, झ्; श्, ष् एषु अन्यतमः चेत्, तस्य वर्णस्य स्थाने ककारो भवति | ('''खरि च''' इत्यनेन, '''चोः कुः''' इत्यनेन च | शकारषकारयोः कृते '''षढोः कः सि''') | अपि च नह्-धातुम् अतिरिच्य हकारस्यापि ककारः भवति |</big>
<big>२. धातोरन्तिमो वर्णः ट्, ठ्, ड्, ढ् एषु अन्यतमश्चेत्, तर्हि तस्य वर्णस्य स्थाने टकारो भवति ('''खरि च''' इत्यनेन), तदा सकारस्य ष्टुत्वम् |</big>
<big>३. धातोरन्तिमो वर्णः त्, थ्, द्, ध् एषु अन्यतमश्चेत्, तर्हि तस्य वर्णस्य स्थाने तकारो भवति | ('''खरि च''' इत्यनेन |)</big>
<big>४. धातोरन्तिमो वर्णः प्, फ्, ब्, भ् एषु अन्यतमश्चेत्, तर्हि तस्य वर्णस्य स्थाने पकारो भवति | ('''खरि च''' इत्यनेन |)</big>
<big>५. धातोरन्तिमो वर्णः न्, म् अनयोः अन्यतमश्चेत्, तर्हि तस्य वर्णस्य स्थाने अनुस्वारो भवति | ('''नश्चापदान्तस्य झलि''' इत्यनेन |)</big>
<big>६. धातोरन्तिमो वर्णः यकारः चेत् तस्य लोपः '''लोपो व्योर्वलि''' (६.१.६६) इति सूत्रेण | वकारान्तस्य हल्-सन्धि-अवसरो नास्ति |</big>
<big>७. धातोरन्तिमो वर्णः लकारो वा रेफो वा चेत्, तस्य विकारः नास्ति |</big>
<big>८. धातोरन्तिमो वर्णः सकारश्चेत्, सार्वधातुकप्रत्यये परे केवलं वर्णमेलनम्; आर्धधातुकप्रत्यये परे धात्वङ्गसकारस्य तकारादेशो भवति | ('''सः स्यार्धधातुके''' इत्यनेन |)</big>
<big>९. धातोरन्तिमो वर्णः हकारश्चेत्, नह्-धातुम् अतिरिच्य हकारस्य ककारः | ('''हो ढः''' + '''षढोः कः सि''' अथवा '''दादेर्धातोर्घः''' + '''खरि च''' |)</big>
<big>C. <u>कवर्गः, चवर्गः, षकारः, शकारः</u></big>
<big>धातोः अन्तिमो वर्णः क्, ख्, ग्, घ्; च्, छ्, ज्, झ्; श्, ष् एषु अन्यतमः चेत्, तर्हि सादिप्रत्यये परे तस्य वर्णस्य स्थाने ककारो भवति | अपि च सादिप्रत्ययस्य सकारस्य स्थाने षकारादेशो भवति '''आदेशप्रत्यययोः''' (८.३.५९) इति सूत्रेण | तदा ककारषकारयोः मेलनेन क्ष् इति भवति |</big>
<big>शक् + स्यति → शक् + ष्यति → शक्ष्यति</big>
<big>लेलेख् + सि → लेलेक् + षि → लेलेक्षि</big>
<big>तात्वङ्ग् + सि → तात्वङ्क् + षि → तात्वङ्क्षि</big>
<big>जाघघ् + सि → जाघक् + षि → जाघक्षि</big>
<big>लालङ्घ् + सि → लालङ्क् + षि → लालङ्क्षि</big>
<big>वच् + सि → वक् + षि → वक्षि</big>
<big>प्रच्छ् + स्यति → प्रक् + ष्यति → प्रक्ष्यति</big>
<big>योज् + स्यति → योक् + ष्यति → योक्ष्यति</big>
<big>याझर्झ् + सि → याझर्क् + षि → याझर्क्षि</big>
<big>क्रोश् + स्यति → क्रोक् + ष्यति → क्रोक्ष्यति</big>
<big>कर्ष् + स्यति → कर्क् + ष्यति → कर्क्ष्यति</big>
<big>१. <u>क्, ख्, ग्, घ् → क्</u></big>
<big>प्रत्ययस्य प्रथमवर्णः त्, थ्, ध्, स् चेत् हल्-सन्धिः भवतीति उक्तम् | तेषु वर्णेषु त्, थ्, स् च खर्-प्रत्याहारे सन्ति, अतः तेषु वर्णेषु परेषु '''खरि च''' इत्यनेन चर्त्वसन्धिः (तत्तत् वर्गस्य प्रथमादेशो) भवति | अत्र सादिप्रत्ययः परः अस्ति, अतः चर्त्वसन्धिः भवतु |</big>
<big>तस्मात् पूर्वं किन्तु '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन कवर्गीयवर्णात् परस्य प्रत्ययावयवस्य सकारस्य षत्वादेशः | ('''खरि च''' (८.४.५५) तदपेक्षया परत्रिपादिसूत्रम् अतः असिद्धम् |)</big>
<big>यथा—</big>
<big>त्यग् + स्यति → '''आदेशप्रत्ययोः''' → त्यग् + ष्यति</big>
<big>घोग् + सि → '''आदेशप्रत्ययोः''' → घोग् + षि</big>
<big>'''आदेशप्रत्यययोः''' (८.३.५९) = इण्-प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्, ठ्, ड्, ढ्, ण्, ष् इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्, अतः षकारः एव आदिष्टः भवति | नुम्, विसर्गः, शर्-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | अस्य कार्यस्य नाम षत्वविधिः | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम् एकपदमिदं सूत्रम् | '''सहे साडः सः''' (८.३.५६) इत्यस्मात् '''सः''' इत्यस्य अनुवृत्तिः | '''नुंविसर्जनीयशर्व्यवायेऽपि''' (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | '''इण्कोः''' (८.३.५७), '''अपदान्तस्य''' '''मूर्धन्यः''' (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां,''' '''नुंविसर्जनीयशर्व्यवायेऽपि'''* |</big>
<big>सम्प्रति '''खरि च''' (८.४.५५) इत्यनेन चर्त्वादेशः—</big>
<big>त्यग् + ष्यति → त्यक् + ष्यति → त्यक्ष्यति</big>
<big>घोग् + षि → घोक् + षि → घोक्षि</big>
<big>'''खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''झलां जश् झशि''' (८.४.५३) इत्यस्मात् '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात् '''चर्च''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''झलां चर् खरि च''' '''संहितायाम् '''|</big>
<big>अन्यानि उदाहरणानि—</big>
<big>शशक् + सि → शशक् + षि → शशक्षि</big>
<big>लेलेख् + सि → लेलेख् + षि → लेलेक् + षि → लेलेक्षि</big>
<big>तात्वङ्ग् + सि → तात्वङ्ग् + षि → तात्वङ्क् + षि → तात्वङ्क्षि</big>
<big>जाघग् + सि → जाघग् + षि → जाघक् + षि → जाघक्षि</big>
<big>लालङ्घ् + सि → लालङ्घ् + षि → लालङ्क् + षि → लालङ्क्षि</big>
<big>*प्रश्नः उदेति यत् नुम्, विसर्गः, शर् व्यवाये चेदपि षत्वमित्यस्य दृष्टान्तः कः ?</big>
<big>व्यवाये नुम् इत्यस्य दृष्टान्ताः एते— सर्पींषि, यजूंषि, हवींषि | सर्पिस् (घृतं), यजुस् (पूजा), हविस् (हव्यम्) इति प्रातिपदिकानि | अत्र बोध्यं कथं निष्पन्नं सर्पिस् इति प्रातिपदिकम् | सृप गतौ, लटि सर्पति | सृप्-धातुः + इसि इति उणादिप्रत्ययः | सृप + इसि → अनुबन्धलोपे → सृप् + इस् → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः → सर्पिस् इति प्रातिपदिकम् | नपुंसके प्रथमाविभक्तौ बहुवचने सर्पिस् + इ → नुम्-आगमः → सर्पिंस् + इ → → नुम्-व्यवायेऽपि षत्वम् → सर्पींषि | अतः अयं सकारः प्रत्ययस्य एव | एवमेव यजूंषि, हवींषि |</big>
<big>व्यवाये विसर्गस्य दृष्टान्ताः एते— सर्पिःषु, यजुःषु, हविःषु | नपुंसके सप्तमीविभक्तौ बहुवचने सर्पिस् + सुप् → सर्पिस् इत्यस्य सकारस्य विसर्गादेशः, विसर्गस्य व्यवायेऽपि षत्वम् → सर्पिःषु | एवमेव यजुःषु, हविःषु |</big>
<big>व्यवाये शर्-प्रत्याहारस्य दृष्टान्ताः एते— सर्पिष्षु, यजुष्षु, हविष्षु | नपुंसके सप्तमीविभक्तौ बहुवचने सर्पिस् + सुप् → '''वा शरि''' (८.३.३६) इत्यनेन विकल्पेन विसर्गादेशः; पक्षे सकार एव → सकारपक्षे सकारस्य व्यवायेऽपि षत्वम् → सर्पिस् + षु → '''ष्टुना ष्टुः''' (८.४.४१) → सर्पिष्षु | एवमेव यजुष्षु, हविष्षु |</big>
<big>२. <u>च्, छ्, ज्, झ् → क्</u></big>
<big>'''चोः कुः''' (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''चोः कुः झलि पदस्य अन्ते च''' |</big>
<big>गते पाठे अस्य सूत्रस्य प्रयोगः अस्माभिः दृष्टः पदान्ते, लङ्-लकारप्रसङ्गे | परन्तु झलि अपि भवति इत्युक्तम् | सकारः झलि अस्ति, अतः अत्रापि इदं कार्यं प्रसक्तम् | [त्, थ्, ध्, स् एते सर्वे हल्-सन्धिनिमित्तकवर्णाः झलि सन्ति |]</big>
<big>'''चोः कुः''' इत्यनेन सकारे परे कुत्वं विहितम्—</big>
<big>च् → क्</big>
<big>छ् → ख्</big>
<big>ज् → ग्</big>
<big>झ् → घ्</big>
<big><u>चकारस्य प्रकारद्वयम्</u>—</big>
<big>अ) सामान्यम् = '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्</big>
<big>वच् + स्यति → '''चोः कुः''' (८.२.३०) → वक् + स्यति → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम् → वक् + ष्यति → वक्ष्यति</big>
<big>आ) व्रश्च्-धातुः</big>
<big>अत्र '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम् |</big>
<big>वाव्रश्च् + सि → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन संयोगे पूर्वसकारलोपः → वाव्रच् + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम् → वाव्रष् + सि → '''षढोः कः सि''' (८.२.४१) इत्यनेन सकारे परे षकारस्य ककारादेशः → वाव्रक् + सि → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम् → वाव्रक्षि</big>
<big>प्रश्नः उदेति कथं '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम् | सामान्यतया वदामः यत् 'वस्तुतः अत्र मूले सकारः आसीत्; श्चुत्वसन्धिना एव शकारः जातः' | अस्तु, तत्तु सत्यं; किन्तु अधुना शकारः अस्ति किल न तु सकारः | इति चेत् कथं वा '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः स्यात् ? '''अकृतव्यूहाः पाणिनीयाः''' (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम् इत्यस्मात् '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन श्चुत्वसन्धेः निमित्तचकारस्य जायमानात् नाशात् '''स्तोः श्चुना श्चुः''' (८.४.४०) इति सूत्रं न प्रवर्तनीयमेव | अतः सकारः तिष्ठति | वाव्रस्च् + सि → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) → वाव्रच् + सि |</big>
<big>'''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च''' |</big>
<big>'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र ''''जच्छशां'''<nowiki/>' इति भागे '''छे च''' (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि पदस्य अन्ते च''' |</big>
<big>'''षढोः कः सि''' (८.२.४१) = षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे | '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य अपवादः | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— '''षढोः कः सि''' |</big>
<big><u>छकारस्य प्रकारद्वयम्</u>—</big>
<big>अ) सामान्यम् = '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन शत्वं, तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्</big>
<big>पाप्रच्छ् + सि → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) → पाप्रश् + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष् + सि → '''षढोः कः सि''' (८.२.४१) → पाप्रक् + सि → पाप्रक् + षि → पाप्रक्षि</big>
<big>'''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) = तुक्-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ् च व् च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श् च ऊठ् च तयोः समाहारद्वन्द्वः शूड् | '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात् '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''च्छ्वोः अङ्गस्य शूड्''' '''क्विझलोः''' '''अनुनासिके च''' |</big>
<big>आ) रेफपूर्वक-छकारान्तधातुः = '''राल्लोपः''' (६.४.२१) इत्यनेन छकारलोपः</big>
<big>मोमुर्छ् + सि → '''राल्लोपः''' (६.४.२१) इत्यनेन झलादि-प्रत्यये छकारलोपः → मोमुर् + सि → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधा-गुणः → मोमोर् + सि → षत्वम् → मोमोर्षि</big>
<big>'''राल्लोपः''' (६.४.२१) = रेफात् परस्य छकारस्य वकारस्य च लोपो भवति क्वि, झलादि-प्रत्ययः, अनुनासिकः च परे अस्ति चेत् | रात् पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यस्मात् '''च्छ्वोः''' इत्यस्य अनुवृत्तिः; अत्र धेयं यत् अनुवृत्तौ 'तक्-सहितः छकारः' सत्यपि व्याख्याने तुगागमो नापेक्षितः अतः न स्वीकृतः | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात् '''अनुनासिकस्य''', '''क्विझलोः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य रात् च्छ्वोः''' '''लोपः अनुनासिके क्विझलोः''' |</big>
<big><u>जकारस्य प्रकारद्वयम्</u>—</big>
<big>अ) सामान्यम् = '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्</big>
<big>त्यज् + स्यति → '''चोः कुः''' (८.२.३०) इत्यनेन सकारे (झलि) परे कुत्वम् → त्यग् + स्यति → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम् → त्यग् + ष्यति → '''खरि च''' (८.४.५५) इत्यनेन चर्त्वं → त्यक् + ष्यति → त्यक्ष्यति</big>
<big>योज् + स्यति → योग् + स्यति → योग् + ष्यति → योक् + ष्यति → योक्ष्यति</big>
<big>आ) भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज् इत्येषां षत्वम्</big>
<big>एतेषां षत्वं भवति '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण यतोहि एते धातवः असिन् सूत्रे साक्षात् उक्ताः |</big>
<big>बाभ्रस्ज् + सि → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन झलि परे संयोगस्य प्रथमसदस्यस्थ-सकारस्य लोपः → बाभ्रज् + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन जकारस्य षत्वम् → बाभ्रष् + सि → '''षढोः कः सि''' (८.२.४१) इत्यनेन सकारे परे षकारस्य ककारादेशः → बाभ्रक् + सि → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम् → बाभ्रक्षि</big>
<big>सरीस्रज् + सि →</big>
<big>मरीमार्ज् + सि →</big>
<big>यायज् + सि →</big>
<big>राराज् + सि →</big>
<big>बाभ्राज् + सि →</big>
<big><u>झकारान्तस्य एकः प्रकारः</u>— '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्</big>
<big>जाझर्झ् + सि → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम् → जाझर्घ् + सि → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम् → जाझर्घ् + षि → '''खरि च''' (८.४.५५) इत्यनेन खरि परे झलः स्थाने चरादेशः → जाझर्क् + षि → जाझर्क्षि</big>
<big>३. <u>ष् → क्</u></big>
<big>'''षढोः कः सि''' (८.२.४१) = षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे | '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य अपवादः | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— '''षढोः कः सि''' |</big>
<big>यथा— कर्ष् + स्यति → '''षढोः कः सि''' (८.२.४१) इत्यनेन षकारस्य ककारादेशः → कर्क् + स्यति → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम् → कर्क् + ष्यति → कर्क्ष्यति</big>
<big>४. <u>श् → ष् → क्</u></big>
<big>प्रत्ययस्य आदौ सकारः झलि, अतः धात्वन्तस्य शकारस्य स्थाने षकारादेशो भवति |</big>
<big>'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अनुवृत्ति-सहितसूत्रम्— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि पदस्य अन्ते च''' |</big>
<big>यथा—</big>
<big>क्रोश् + स्यति → क्रोष् + स्यति</big>
<big>वश् + सि → वष् + सि</big>
<big>अधुना ष् → क्</big>
<big>क्रोष् + स्यति → '''षढोः कः सि''' (८.२.४१) इत्यनेन षकारस्य ककारादेशः → क्रोक् + स्यति → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम् → क्रोक् + ष्यति → क्रोक्ष्यति</big>
<big>वष् + सि → '''षढोः कः सि''' (८.२.४१) इत्यनेन षकारस्य ककारादेशः → वक् + सि → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम् → वक् + षि → वक्षि</big>
<big>D. <u>टवर्गः</u></big>
<big>१. <u>टकारः, ठकारः, डकारः</u></big>
<big>टकारस्य, ठकारस्य, डकारस्य च प्रभावेन अग्रे स्थितस्य सकारस्य '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वादेशः | तदा स च षकारः खरि अस्ति इति कृत्वा टकार-ठकार-डकाराणां चरादेशः '''खरि च''' (८.४.५५) इत्यनेन |</big>
<big>रारट् + सि → '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वादेशः → रारट् + षि → '''खरि च''' (८.४.५५) इत्यनेन खरि परे झलः स्थाने चरादेशः → रारट् + षि → रारट्षि</big>
<big>लोलोठ् + सि → '''ष्टुना ष्टुः''' (८.४.४१) → '''खरि च''' (८.४.५५) → लोलोट्षि</big>
<big>चाकड् + सि → '''ष्टुना ष्टुः''' (८.४.४१) → '''खरि च''' (८.४.५५) → चाकट्षि</big>
<big>'''ष्टुना ष्टुः''' (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | अनुवृत्ति-सहितसूत्रं— '''स्तोः''' '''ष्टुना ष्टुः संहितायाम्''' |</big>
<big>२. <u>ढकारः</u></big>
<big>ढकारस्य '''षढोः कः सि''' (८.२.४१) इत्यनेन ककारादेशः, तदा '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम् |</big>
<big>वावढ् + सि → '''षढोः कः सि''' (८.२.४१) → वावक् + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → वावक्षि</big>
<big>३. <u>णकारः</u></big>
<big>रंरण् + सि → णकारस्य प्रभावेन '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन अग्रे स्थितस्य सकारस्य ष्टुत्वादेशः → रंरण्षि</big>
<big>E. <u>तवर्गः</u></big>
<big><u>तकारः, थकारः, दकारः, धकारः</u></big>
<big>धातोः अन्तिमो वर्णः त्, थ्, द्, ध् एषु अन्यतमश्चेत्, सकारे परे '''खरि च''' (८.४.५५) इत्यनेन खरि परे झलः स्थाने चरादेशः → एषां स्थाने तकारादेशः |</big>
<big>त्, थ्, द्, ध् → त् | '''खरि च''' (८.४.५५) इत्यनेन सकारे परे, तवर्गीयाणां प्रथमसदस्यादेशः | सकारस्य कोऽपि विकारो न भवति |</big>
<big>यथा—</big>
<big>चाचत् + सि → '''खरि च''' (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → चाचत् + सि → चाचत्सि</big>
<big>वाव्यथ् + सि → '''खरि च''' (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → वाव्यत् + सि → वाव्यत्सि</big>
<big>अद् + स्यति → '''खरि च''' (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → अत् + स्यति → अत्स्यति</big>
<big>क्रोध् + स्यति → '''खरि च''' (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → क्रोत् + स्यति → क्रोत्स्यति</big>
<big>विशेषः—</big>
<big>अस्मिन् समूहे बशो भष् (३४ → ४४) इत्यस्य सम्भावना वर्तते |</big>
<big>'''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' (८.२.३७) = बशः भषादेशः</big>
<big>यथा—</big>
<big>बन्ध् + स्यति → '''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' (८.२.३७) इत्यनेन धातोरवयवो यो झषन्त एकाच्, तस्य बशः भषादेशः सकारे परे → भन्ध् + स्यति → '''खरि च''' (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → भन्त् + स्यति → भन्त्स्यति</big>
<big>बुध् + स्यते → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः → बोध् + स्यते → '''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' (८.२.३७) इत्यनेन भषादेशः → भोध् + स्यते → '''खरि च''' (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → भोत् + स्यते → भोत्स्यते</big>
<big>परिचयः— धातोः आदौ बश् (ब, ग, ड, द) अपि च अन्ते झष् (झ, भ, घ, ढ, ध), तस्य धातोः नाम एकाच्-बशादि-झषन्तधातुः | यथा बन्ध्-धातुः, बुध्-धातुः च | यदि उपर्युक्त-हकारान्तधातुसम्बद्ध-सूत्रैः हकारस्य स्थाने झषादेशः सञ्जातः (दृष्टान्ते— दुह् → दुघ्) तर्हि सोऽपि तादृशो धातुः | एकाच्-बशादि-झषन्तधातोः आदौ स्थितस्य बशः स्थाने भषादेशो भवति (भ, घ, ढ, ध) सकारादि-प्रत्यये परे, ध्व-शब्दे परे, पदान्ते च | अतः वदामः यत् '३४ → ४४' इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः (३), अन्ते च वर्गस्य चतुर्थसदस्यः (४), तत्र आदौ स्थितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्यादेशो भवति (३ → ४) | आहत्य ३४ → ४४ इति विकारः | धेयं यत् अयं बश्-वर्णः धातोः अन्तिम-अंशस्य आदौ अपि भवितुमर्हति | अनेन धातुः अनेकाच् चेदपि, तस्य धातोः एकाच्-बशादि-झषन्तधात्वंशः अस्ति चेत्, अत्रापि ३४ → ४४ इति विकारो भवति |</big>
<big>'''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' (८.२.३७) = धातोरवयवो यो झषन्त एकाच्, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्तिसहितसूत्रे ''''एकाचः झषन्तस्य'''<nowiki/>' इत्यनयोरेव विशेषणविशेष्यभावः; धातोः तादृशांशः इति तात्पर्यम् | अनेन धातोः एकाच् वा तदधिकाः वा अर्हाः | एकोऽच् यस्मिन् स एकाच् बहुव्रीहिः, तस्य एकाचः | झष् अन्ते यस्य स झषन्तः बहुव्रीहिः, तस्य झषन्तस्य | स् च ध्व् च स्ध्वौ इतरेतरद्वन्द्वः, तयोः स्ध्वोः | एकाचः षष्ठ्यन्तं, बशः षष्ठ्यन्तं, भष् प्रथमान्तं, झषन्तस्य षष्ठ्यन्तं, स्ध्वोः सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''धातोः एकाचः झषन्तस्य बशः भष् स्ध्वोः पदस्य अन्ते च''' |</big>
<big><u>नकारः</u></big>
<big>सकारः झलि अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः |</big>
<big>हन् + सि → हंसि</big>
<big>मन् + स्यते → मंस्यते</big>
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''मोऽनुस्वारः''' (८.३.२३) इत्यस्मात् '''मः''', '''अनुस्वारः''' इत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |</big>
<big>F. <u>पवर्गः</u></big>
<big><u>पकारः, फकारः, बकारः, भकारः</u></big>
<big>धातोः अन्तिमो वर्णः प्, फ्, ब्, भ् एषु अन्यतमश्चेत्, सादिप्रत्यये परे तस्य वर्णस्य स्थाने पकारो भवति |</big>
<big>प्, फ्, ब्, भ् → प् | '''खरि च''' (८.४.५५) इत्यनेन सकारे परे, पवर्गीयवर्णानामपि प्रथमसदस्यादेशो भवति | सकारस्य कोऽपि विकारो न भवति |</big>
<big>यथा—</big>
<big>आप् + स्यति → '''खरि च''' (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → आप् + स्यति → आप्स्यति</big>
<big>रारफ् + सि → '''खरि च''' (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → रारप् + सि → रारप्सि</big>
<big>चाकब् + सि → '''खरि च''' (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → चाकप् + सि → चाकप्सि</big>
<big>लालभ् + सि → '''खरि च''' (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → लालप् + सि → लालप्सि</big>
<big>भष्-भावः</big>
<big>दादम्भ् + सि → '''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' (८.२.३७) इत्यनेन धातोरवयवो यो झषन्त एकाच्, तस्य बशः भषादेशः सकारे परे → दाधम्भ् + सि → '''खरि च''' (८.४.५५) इत्यनेन चर्त्वादेशः → दाधम्प् + सि → दाधम्प्सि</big>
<big>अत्र '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन नकारस्य अनुस्वारः, '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन अनुस्वारस्य मकारः इति यथासामान्यं भवति |</big>
<big><u>मकारः</u></big>
<big>सकारः झलि अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन अपदान्तस्य मकारस्य स्थाने अनुस्वारादेशः |</big>
<big>रम् + स्यते → '''नश्चापदान्तस्य झलि''' (८.३.२४) → रंस्यते</big>
<big>नम् + स्यति → '''नश्चापदान्तस्य झलि''' (८.३.२४) → नंस्यति</big>
<big>संगम् + स्यते → '''नश्चापदान्तस्य झलि''' (८.३.२४) → संगंस्यते</big>
<big>G. <u>यकारः, वकारः</u></big>
<big><u>यकारस्य</u> लोपः भवति सकारे परे | सकारः वल्-प्रत्याहारे विद्यमानत्वात् |</big>
<big>जहाय् + सि → जहासि</big>
<big>'''लोपो व्योर्वलि''' (६.१.६६) = वकारयकारयोः लोपो भवति वल्-प्रत्याहारे परे | व् च य् च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— '''व्योः लोपः वलि''' |</big>
<big><u>वकारस्य</u> अपि '''लोपो व्योर्वलि''' (६.१.६६) इत्यनेन लोपो भवति | किन्तु वस्तुतस्तु समग्रसंस्कृतभाषायां द्वयोः धात्वोः एव उदाहरणं भवति, तच्च यङ्लुकि एव | अन्यत्र सर्वत्र सार्वधातुकप्रक्रियायां विकरणप्रत्ययः मध्ये आयाति; आर्धधातुकप्रक्रियायाम् इडागमः मध्ये आयाति | अतः वकारसम्बद्ध-हल्-सन्धेः अवसरः नास्ति |</big>
<big>यङ्लुकि आधिक्येन ये वकारान्तधातवः भवन्ति, तेषां सकारे परे '''राल्लोपः''' (६.४.२१) इत्यनेन वकारलोपो भवति | अपि च येषां वकारान्तधातूनां '''राल्लोपः''' (६.४.२१) इत्यनेन वकारलोपः न भवति स्म, नाम येषां धातूनां वकारात् पूर्वं रेफः नास्ति, तेषां धातूनां यङ्लुक्-धातुः एव न भवति महाभाषस्य ज्ञापनात् | यथा दिव्-धातुः; महाभाषस्य ज्ञापकत्वात् तस्य यङ्लुगन्तधातुः न भवति | ष्ठिवु (ष्ठिव्)-धातुः अपि तथा |</big>
<big>येषां वकारान्तधातूनाम् अन्तिमवकारात् प्राक् रेफः अस्ति, यथा धुर्व्, तुर्व्, थुर्व्, दुर्व्, मूर्व्, पूर्व्, खर्व्, गर्व्, चर्व्, पर्व्, भर्व्, मर्व्, शर्व्, षर्व्, एतादृशेभ्यः वकारान्तधातुभ्यः यङः लुक् भवति | किन्तु एषाम् अन्तिमवकारस्य लोपो भवति '''राल्लोपः''' (६.४.२१) इति सूत्रेण |</big>
<big>तोतुर्व् + सि → '''राल्लोपः''' (६.४.२१) इत्यनेन झलादि-प्रत्यये परे वकारलोपः → तोतुर् + सि → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधा-गुणः → तोतोर् + सि → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम् → तोतोर्षि</big>
<big>'''राल्लोपः''' (६.४.२१) = रेफात् परस्य छकारस्य वकारस्य च लोपो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | रात् पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यस्मात् '''च्छ्वोः''' इत्यस्य अनुवृत्तिः; अत्र धेयं यत् अनुवृत्तौ 'तक्-सहितः छकारः' सत्यपि व्याख्याने तुगागमो नापेक्षितः अतः न स्वीकृतः | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात् '''अनुनासिकस्य''', '''क्विझलोः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य रात् च्छ्वोः''' '''लोपः अनुनासिके क्विझलोः''' |</big>
<big>महाभाष्ये दत्तम् अस्ति यत् '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यनेन ये ऊठ्-भाविनः वकारान्तधातवः सन्ति, तेषां यङ्लुक् न भवति | ऊठ्-भावी धातुः इत्युक्ते तादृशधातुः यस्य '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इति सूत्रेण ऊठ्-आदेशः सम्भवति |</big>
<big>'''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) = तुक्-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ् च व् च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श् च ऊठ् च तयोः समाहारद्वन्द्वः शूड् | '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात् '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''च्छ्वोः अङ्गस्य शूड्''' '''क्विझलोः''' '''अनुनासिके च''' |</big>
<big>तर्हि द्वयोः धात्वोः एव यङ्लुकि हल्-सन्धेः अवसरो भवति, तौ च कौ ? स्रिव्, मव् इति द्वौ धातू ऊठ्-भाविनौ, किन्तु '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रेण न तु '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इति सूत्रेण | अस्मिन् सूत्रे एतौ द्वौ वकारान्तधातू साक्षात् उल्लेखितौ, अतः एतौ द्वावेव ययोः यङ्लुक् रूपं भवति | (अस्मिन् सूत्रे अव्-धातुः अपि पठितः, किन्तु स च धातुः अजादिः इति कारणतः यङ्-प्रत्ययः न विधीयते; तदर्थं तस्य यङ्लुक् अपि न भवति |)</big>
<big>'''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) = ज्वर्, त्वर्, स्रिव्, अव्, मव् इत्येषां धातूनाम् उपधा च वकारः चेत्यनयोः मिलित्वा स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | ज्वरश्च त्वरश्च स्रिविश्च अविश्च मव् च तेषामितरेतरद्वन्द्वः ज्वरत्वरस्रिव्यविमवः, तेषां ज्वरत्वरस्रिव्यविमवाम् | ज्वरत्वरस्रिव्यविमवाम् षष्ठ्यन्तम्, उपधायाः षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यस्मात् '''वः''', '''ऊठ्''', '''अनुनासिके''' इत्येषाम् अनुवृत्तिः | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात् '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ज्वरत्वरस्रिव्यविमवाम् अङ्गस्य उपधायाः वः च ऊठ्''' '''क्विझलोः अनुनासिके च''' |</big>
<big><u>द्वयोः वकारान्तधात्वोः हल्-सन्धौ वकारलोपः</u></big>
<big>मव्-धातोः यङ्लुकि मामव् इति धातुरूपम् | लटि मामव् रूपाणि इमानि—</big>
<big>मामव् + ति → '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) → मामोति</big>
<big>मामव् + तः → '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) → मामूतः</big>
<big>मामव् + अति→ मामवति</big>
<big>मामव् + सि → '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) → मामोषि</big>
<big>मामव् + थः → '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) → मामूथः</big>
<big>मामव् + थ → '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) → मामूथ</big>
<big>मामव् + मि → '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) → मामोमि</big>
<big>मामव् + मः → '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) → मामूमः</big>
<big>किन्तु 'मामव् + वः' इति स्थले 'वः' प्रत्ययस्य आदौ वकारः न झल्-वर्णः न वा अनुनासिकः | किन्तु वल्-प्रत्याहारे तु अस्ति, अतः अत्र '''लोपो व्योर्वलि''' (६.१.६६) इत्यस्य अवसरो भवति |</big>
<big>मामव् + वः → माम + वः → मामावः</big>
<big>लङि च— अमामव् + व → अमामाव</big>
<big>'''अतो दीर्घो यञि''' (७.३.१०१) = अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | यञ् प्रत्याहारः = य व र ल ञ म ङ ण न झ भ | अतः षष्ठ्यन्तं, दीर्घः प्रथमान्तं, यञि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''तुरुस्तुशम्यमः सार्वधातुके''' (७.३.९५) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते ह्रस्व-अकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः; '''यस्मिन् विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम् २९) इत्यनेन '''यञि सार्वधातुके''' इत्युक्तौ यञादि-सार्वधातुके | अनुवृत्ति-सहितसूत्रम्— '''अतः अङ्गस्य दीर्घः यञि सार्वधातुके''' |</big>
<big>अतः वकारान्तधातोः हल्सन्धेः उदाहरणं लभ्यते किन्तु केवलं वकारादिप्रत्यये परे | सकारादिप्रत्यये परे ऊठ्भावो भवति; स च ऊठ्भावः अङ्गकार्यं न तु सन्धिकार्यम् |</big>
<big>एवमेव स्रिव् → सेस्रिव् इति यङ्लुगन्तधातुः | लटि रूपाणि कल्पनीयानि | पित्सु प्रत्ययेषु '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यस्य नित्यत्वात् सर्वप्रथमं भवति, न तु '''पुगन्तलघूपधस्य च''' (७.३.८६) |</big>
<big>H. <u>लकारः</u></big>
<big>लकारस्य विकारो नास्ति; '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम् |</big>
<big>गल् → जागल् + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → जागल्षि</big>
<big>तल् → तातल् + सि → तातल्षि</big>
<big>दल् → दादल् + सि → दादल्षि</big>
<big>I. <u>रेफः</u></big>
<big>रेफस्य विकारो नास्ति; '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम् |</big>
<big>(जागृ + सि →) जागर् + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → जागर्षि</big>
<big>J. <u>सकारः</u></big>
<big>धातोरन्तिमो वर्णः सकारश्चेत्, सार्वधातुकप्रत्यये परे केवलं वर्णमेलनम्; आर्धधातुकप्रत्यये परे धात्वङ्गसकारस्य तकारादेशो भवति, '''सः स्यार्धधातुके''' (७.४.४९) इति सूत्रेण |</big>
<big>धातुः सकारान्तः चेत्, तर्हि प्रत्ययः सार्वधातुको वा आर्धधातुको वा इति विचार्यताम् |</big>
<big>प्रत्ययः सार्वधातुकः चेत्, केवलं वर्णमेलनम्—</big>
<big>आस् + से → आस्से</big>
<big>प्रत्ययः आर्धधातुकः चेत्, धात्वङ्गसकारस्य तकारादेशो भवति—</big>
<big>वस् + स्यति → '''सः स्यार्धधातुके''' (७.४.४९) इत्यनेन सकारादि-आर्धधातुकप्रत्यये परे सकारस्य स्थाने तकारादेशः → वत् + स्यति → वत्स्यति</big>
<big>घस् + स्यति → '''सः स्यार्धधातुके''' (७.४.४९) → घत् + स्यति → घत्स्यति</big>
<big>'''सः स्यार्धधातुके''' (७.४.४९) = सकारस्य स्थाने तकारादेशो भवति सकारादि-आर्धधातुकप्रत्यये परे | सः षष्ठ्यन्तं, सि सप्तम्यन्तम्, आर्धधातुके सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''अच उपसर्गात्तः''' (७.४.४७) इत्यस्मात् '''तः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''सः अङ्गस्य तः सि आर्धधातुके''' |</big>
<big>K. <u>हकारः</u></big>
<big>हकारान्तधातुः + सकारादिप्रत्ययः| धातोरन्तिमो वर्णः हकारश्चेत्, नह्-धातुम् अतिरिच्य सर्वत्र हकारस्य ककारः | '''हो ढः''' (८.२.३१) + '''षढोः कः सि''' (८.२.४१) अथवा '''दादेर्धातोर्घः''' (८.२.३२) + '''खरि च''' (८.४.५५) |</big>
<big>१. सामान्यनियमः</big>
*<big>सकारादि-प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' (८.२.३१) इत्यनेन सूत्रेण |</big>
*<big>तदा ढकारस्य स्थाने ककारादेशो भवति '''षढोः कः सि''' (८.२.४१) इत्यनेन सूत्रेण |</big>
*<big>अन्ते प्रत्ययावयवस्य सकारस्य स्थाने षकारादेशो भवति, '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन सूत्रेण |</big>
<big>यथा— वह् + स्यति → '''हो ढः''' (८.२.३१) → वढ् + स्यति → '''षढोः कः सि''' (८.२.४१) → वक् + स्यति → '''आदेशप्रत्यययोः''' (८.३.५९) → वक् + ष्यति → वक्ष्यति</big>
<big>'''हो ढः''' (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हः ढः झलि पदस्य अन्ते च''' |</big>
<big>'''षढोः कः सि''' (८.२.४१) = षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे | '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य अपवादः | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— '''षढोः कः सि''' |</big>
<big>२. बकारादीनां गकारादीनां च धातूनां भष्भावः भवति; तत्रापि हकारस्य ककारः '''हो ढः''' (८.२.३१) + '''षढोः कः सि''' (८.२.४१) इति सूत्राभ्याम् | यथा बर्ह्, बृंह्, गृह्, गाह्, गुह् इति धातवः |</big>
* <big>सकारादि-प्रत्यये परे, बकारादि-, गकारादि-हकारान्तानां धातूनां हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' (८.२.३१) इत्यनेन सूत्रेण |</big>
* <big>अधुना एकाच्-बशादि-झषन्तधात्वंशः जातः (३४ इति) | अतः '''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' (८.२.३७) इत्यनेन '''('''३४ – ४४) आदौ तृतीयसदस्य स्थाने चतुर्थसदस्यादेशो भवति |</big>
* <big>तदा '''षढोः कः सि''' (८.२.४१) इत्यनेन ढ्-स्थाने ककारादेशः |</big>
* <big>कवर्गीयवर्णः पूर्वम् अस्ति अतः '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन स्-स्थाने षत्वम् |</big>
<big>यथा— बाबृंह् + सि → '''हो ढः''' (८.२.३१) → बाबृंढ् + सि → '''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' (८.२.३७) → बाभृंढ् + सि → '''षढोः कः सि''' (८.२.४१) → बाभृंक् + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → बाभृंक् + षि → बाभृंक्षि → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → बाभृङ्क्षि</big>
<big>गर्ह् + स्यते → '''हो ढः''' (८.२.३१) → गर्ढ् + स्यते → '''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' (८.२.३७) → घर्ढ् + स्यते → '''षढोः कः सि''' (८.२.४१) → घर्क् + स्यते → '''आदेशप्रत्यययोः''' (८.३.५९) → घर्क् + ष्यते → घर्क्ष्यते</big>
<big>एवमेव—</big>
<big>गाह् + स्यते → घाक् + ष्यते → घाक्ष्यते</big>
<big>गोह् + स्यते → घोक् + ष्यते → घोक्ष्यते</big>
<big>'''हो ढः''' (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हः ढः झलि पदस्य अन्ते च''' |</big>
<big>'''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' (८.२.३७) = धातोरवयवो यो झषन्त एकाच्, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्तिसहितसूत्रे ''''एकाचः झषन्तस्य'''<nowiki/>' इत्यनयोरेव विशेषणविशेष्यभावः; धातोः तादृशांशः इति तात्पर्यम् | अनेन धातोः एकाच् वा तदधिकाः वा अर्हाः | अनुवृत्ति-सहितसूत्रं— '''धातोः एकाचः झषन्तस्य बशः भष् स्ध्वोः पदस्य अन्ते च''' |</big>
<big>३. दकारादि-हकारान्तेषु हकारस्य ककारः अस्त्येव, किन्तु मार्गः '''दादेर्धातोर्घः''' + '''खरि च''' (८.४.५५) (यथा दह्, दिह्, दुह्, द्रुह्,) | अत्र भष्भावः अपि भवति |</big>
* <big>सकारादि-प्रत्यये परे, दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति '''दादेर्धातोर्घः''' इत्यनेन सूत्रेण |</big>
* <big>तदा आदौ स्थितस्य दकारस्य धकारादेशो भवति '''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' इत्यनेन |</big>
* <big>खर् परे अस्ति अतः '''खरि च''' (८.४.५५) इत्यनेन घकारस्य स्थाने ककारादेशो भवति |</big>
* <big>कवर्गीयवर्णः पूर्वम् अस्ति अतः '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन स्-स्थाने षत्वम् |</big> <font size="4"></font>
<big>यथा— दुह् + स्यते → '''पुगन्तलघूपधस्य च''' (७.३.८६) → दोह् + स्यते → '''दादेर्धातोर्घः''' (८.२.३२) → दोघ् + स्यते → '''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' (८.२.३७) → धोघ् + स्यते → '''आदेशप्रत्यययोः''' (८.३.५९) → धोघ् + ष्यते → '''खरि च''' (८.४.५५) → धोक् + ष्यते → धोक्ष्यते</big>
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''हो ढः''' (८.२.३१) इत्यस्मात् '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
<big>एवमेव—</big>
<big>दुह् + स्यति → गुणः → दोह् + स्यति → दोघ् + स्यति → धोघ् + ष्यति → धोक् + ष्यति → धोक्ष्यति</big>
<big>दिह् + स्यति → देह् + स्यति → → धेक् + ष्यति → धेक्ष्यति</big>
<big>द्रुह् + स्यति → द्रोह् + स्यति → → द्रोक् + ष्यति → ध्रोक्ष्यति</big>
<big>दह् + स्यति → → धक् + ष्यति → धक्ष्यति</big>
<big>'''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) = द्रुह्, मुह्, ष्णुह्, ष्णिह् एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्-अभावे '''हो ढः''' (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''हो ढः''' (८.२.३१) इत्यस्मात् '''हः''', '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात् '''घः''', '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''', '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् '''अन्ते''', '''च''' इत्येषाम् अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च''' |</big>
<big>४. नह्-धातुः | अत्र एकैव धातुः यत्र हकारस्य गतिः भिन्ना— अत्र हकारस्य तकारो भवति |</big>
<big>सकारादि-प्रत्यये परे, अपवादभूतस्य नह्-धातोः हकारस्य स्थाने धकारादेशो भवति '''नहो धः''' इत्यनेन सूत्रेण | तदा '''खरि च''' इत्यनेन चर्त्वं कृत्वा धस्थाने तकारादेशो भवति | सकारस्य कोऽपि विकारो न भवति |</big>
<big>नह् + स्यति → '''नहो धः''' (८.२.३४) → नध् + स्यति → '''खरि च''' (८.४.५५) → नत् + स्यति → नत्स्यति</big>
<big>'''नहो धः''' (८.२.३४) = नह्-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''हो ढः''' (८.२.३१) इत्यस्मात् '''हः''' इत्यस्य अनुवृत्तिः | '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''नहः धातोः हः धः''' '''झलि पदस्य अन्ते च''' |</big>
<big><u>अभ्यासः</u></big>
<big>अदादिगणस्य लट्-लकारस्य मध्यमपुरुषैकवचने, परस्मैपदे 'सि', आत्मनेपदे 'से' इति यथासङ्गं योजयित्वा सूत्रसहितक्रमं श्रावयित्वा रूपाणि पूरयतु —</big>
<big>- वस् + से →</big>
<big>- द्विष् + सि →</big>
<big>- हन् + सि →</big>
<big>- णिसि + से →</big>
<big>- विद् + सि →</big>
<big>- संविद् + से →</big>
<big>- वच् + सि →</big>
<big>- लिह् + सि →</big>
<big>- मृज् + सि →</big>
<big>- संस्त् + सि →</big>
<big>- पृच् + से →</big>
<big>- दुह् + सि →</big>
<big>- निंज् + से →</big>
<big>- अद् + सि →</big>
<big>- वश् + सि →</big>
<big>- चक्ष् + से →</big>
<big>- आस् + से →</big>
<big>- कसि + से →</big>
<big>- शास् + सि →</big>
<big>- दिह् + सि →</big>
<big>अन्यच्च लृटि कथं भवति ?</big>
<big>वच् + स्यति →</big>
<big>शास् + स्यति →</big>
<big>संस्त् + स्यति →</big>
<big>यङ्लुकि—</big>
<big>मघि → मामङ्घ् + सि →</big>
<big>प्रच्छ् → पाप्रच्छ् + सि →</big>
<big>दुह् → दोदुह् + सि →</big>
<big>व्रश्च् → वाव्रश्च् + सि →</big>
<big>स्यन्दू → स्यन्द् → सास्यन्द् + सि →</big>
<big>सृज् → सरीसृज् → सृजिदृशेर्झल्यमकिति (६.१.५८) इत्यनेन अम्-आगमः → सरीसृ-अ-ज् → इको यणचि इत्यनेन यण् → सरीस्रज् + सि →</big>
<big>मुर्छा → मुर्छ्-धातुः, यङ्लुकि मोमुर्छ्-धातुः + सि →</big>
<big>बुध् → बोबुध् + सि →</big>
<big>लाछि → लाछ् → लान्छ् → लालान्छ् + सि →</big>
<big>भ्रस्ज् → बाभ्रस्ज् + सि →</big>
<big>दध् → दादध् + सि →</big>
<big>भ्रम् → बम्भ्रम् + सि →</big>
<big>ध्रस् → दाध्रस् + सि →</big>
<big>सृप् → सरीसृप् + सि →</big>
<big>जसि → जन्स् → जाजन्स् + सि →</big>
<big>हुर्छा → हुर्छ् → होहुर्छ् + सि →</big>
<big>वृत् → वरीवृत् + सि →</big>
<big>तुर्वी → तोतुर्व् + सि →</big>
<big>वृध् → वरीवृध् + सि →</big>
<big>दुर्वी → दोदुर्व् + सि →</big>
<big>वृश् → वरीवृश् + सि →</big>
<big>मुर्वी → मोमुर्व् + सि →</big>
<big>कृश् → चरीकृश् + सि →</big>
<big>कृष् → चरीकृष् + सि →</big>
<big><u>परिशिष्टम्</u></big>
<big>कश्चन प्रश्नः उदेति— '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इति सूत्रेण तुक्-सहित-छकारस्य स्थाने शकारादेशः | एवम् अस्ति चेत्, 'पाप्रच्छ् + सि' इति स्थितौ किमर्थं न '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यनेन तुक्-सहित-छकारस्य शत्वम् ? दत्तम् आसीत्—</big>
<big>छकारान्तधातूनां कृते सामान्यम् = '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम् |</big>
<big>पाप्रच्छ् + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष् + सि → '''षढोः कः सि''' (८.२.४१) → पाप्रक् + सि → पाप्रक् + षि → पाप्रक्षि</big>
<big>किन्तु वस्तुतस्तु अत्र '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्य प्रसक्तिरस्ति किल | प्रसक्तिरस्ति चेत्, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रम् असिद्धम् | तर्हि अत्र का गतिः ?</big>
<big>यथा जानीमः, पाणिनिना न उच्यते कस्मिन् कस्मिन् सूत्रे कस्य कस्य अनुवृत्तिः | वैयाकरणाः विचिन्त्य अस्मान् सूचयन्ति | कुत्रचित् किन्तु विभिन्नपक्षाः भवन्ति | यथा अत्र | काशिकाकारः लिखति यत् '''च्छ्वोः शूडनुनासिके च''' (६.४.१९), '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यनयोः द्वयोः सूत्रयोः अपि '''क्ङिति''' इत्यस्य अनुवृत्तिः | नाम अनयोः सूत्रयोः कार्यं भवति क्ङिति झलादि-प्रत्यये परे | सिद्धान्तकौमुद्यां दीयते यत् '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः अस्ति, किन्तु '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे नास्ति | महाभाष्ये उक्तमस्ति यत् ''''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''<nowiki/>'<nowiki/>''''' (६.४.२०) इति सूत्रे नास्ति अनुवृत्तिः; '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति स्थले भाष्यकारः पक्षद्वयं प्रतिपादयति— एकस्मिन् पक्षे क्ङिति अस्ति, अपरस्मिन् पक्षे नास्ति |</big>
<big>अस्य सर्वस्य महत्त्वं किम् ? '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः भवति चेत्, मामोति इति रूपं न सेत्स्यति | तिप् इत्यस्य पित्त्वात् अयं ङिद्वत् न, तदर्थम् ऊठादेशो न (न '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यनेन न वा '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन) | मामव् + ति → '''लोपो व्योर्वलि''' (६.१.६६) → मामति इति अनिष्टं रूपम् | अतः माता जी वदति यत् अत्र काशिकाकारस्य मतं मतमेव नास्ति अपि तु साक्षात् दोषः | तदर्थं '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे काशिकाकारस्य पक्षं त्यजामः | अस्मिन् सूत्रे क्ङिति इत्यस्य अन</big><big>ुवृत्तिः न भवेत्, नास्येव |</big>
<big>तर्हि '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे का गतिः ? वस्तुतः न केवलं सिद्धान्तकौमुद्याम् अपि तु बहुषु ग्रन्थेषु दत्तम् अस्ति यत् क्ङिति इत्यस्य अनुवृत्तिः अत्र वर्तते | तथा अस्ति चेत् कः परिणामः ? तुक्-सहित-छकारस्य स्थाने शकारादेशः क्ङिति झलादि-प्रत्यये परे | एवं चेत् 'पाप्रच्छ् + सि' इति स्थले अस्य सूत्रस्य प्रसक्तिर्नास्ति | एतावता अस्माकं पाठेषु एतादृशस्य पक्षस्य आश्रयं स्वीकृत्य प्रतिपादनं भवति स्म | यथोक्तं महाभाष्ये पक्षद्वयस्य समर्थनम् |</big>
<big>महाभाष्यस्य प्रमाणेन पक्षद्वयेनाऽपि कार्यं सिध्यति— एकः अनुवृत्तिपक्षः, एकः निवृत्तिपक्षः | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः स्वीक्रियते चेत् कित्ङ्त्-प्रत्यये परे '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन छकारस्य स्थाने शकारादेशः | तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण शकारस्य षत्वम् | प्रत्ययः कित्ङ्त् नास्ति चेत्, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण छकारस्य षत्वम् | अपि च अस्मिन् पक्षे तुक्-सहित-छकारः मन्तव्यः भवति द्वयोः अपि सूत्रयोः |</big>
<big>यथा 'पाप्रच्छ् + सि' इति स्थले सि-प्रत्ययः कित्ङ्त् न अतः '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण छकारस्य षत्वम् | किन्तु अत्र नूतनविचारः अयं यत् 'निमित्तापाये नैमित्तिकस्यापि अपायः' इति न स्वीक्रियते | भाष्यकारैः उच्यते यत् इदं न परिभाषा न वा न्यायः, किमपि नास्ति | अस्य उपयोगो न कुत्रापि भवेत् | अनेन कारणेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे तुक्-सहित-छकारः न मन्यते चेत्, छकारस्य स्थाने षकारः तु भवति, किन्तु तुक्-आगमः अपि स्थास्यति | तदर्थम् अस्मिन् सूत्रे तुक्-सहित-छकारः मन्तव्यः | अतः ये '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः स्वीकुर्वन्ति, तैः '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारः मन्तव्यः, अपि च स च छकारः तुक्-सहितः मन्तव्यः | नो चेत् लटि पाप्रष्टि, पाप्रक्षि इति रूपद्वयं न सेत्स्यति | अस्मिन् पक्षे 'पाप्रच्छ् + तः' इति स्थले पाप्रष्टः भवति '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रेण |</big>
<big>तदा निवृत्ति-पक्षे '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्मिन् क्ङिति इत्यस्य अनुवृत्तिः नास्ति | अस्मिन् पक्षे '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारस्य आवश्यकता नास्ति | प्रछ + तृच् → कार्यद्वयं प्राप्तं— तुक्-आगमः, छकारस्य शकारः च → तुक्-आगमः अन्तरङ्गं निमित्तस्य अल्पत्वात्, शत्वस्यापेक्षया | अत्र तुक्-आगमः प्रथमं भवति, एतदर्थं '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे तुक्-सहित-छकारः वक्तव्यः | अत्र च एका परिभाषा वर्तते '''सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः''' ['''सन्नियोगशिष्टानामन्यतरापाय उभयोरप्यपायः''' ८७] | अनेन सन्निपातलक्षणं भवति | चकारः छकारः च मिलित्वा आगच्छतः, मिलित्वा गच्छतः च |</big>
<big>अस्मिन् निवृत्तिपक्षे 'पाप्रच्छ् + सि' → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रेण पाप्रश् + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष् + सि → पाप्रक्षि</big>
<big>अत्र छकारान्तधातूनां प्रसङ्गे इतोऽपि किञ्चित् | छकारात् प्राक् के के वर्णाः सम्भवन्ति ? छकारात् प्राक् ह्रस्व-अच्-वर्णः अस्ति चेत्, तुगागमो भवति | यथा इष्-धातुः | '''इषुगमियमां छः''' (७.३.७७) इत्यनेन इष्-धातोः छकारादेशः शिति परे | इष् + श → '''इषुगमियमां छः''', '''अलोन्त्यस्य''' → इछ् + अ → '''छे च''' (६.१.७३), '''आद्यन्तौ टकितौ''' (१.१.४६) इत्याभ्यां छकारे परे ह्रस्वस्वरस्य (इकारस्य अनन्तरं) तुक्-आगमः → इत्छ् + अ → '''स्तोः श्चुना श्चुः''' (८.४.४०) → इच्छ् + अ → इच्छ इति अङ्गम् |</big>
<big>छकारात् प्राक् यदि ह्रस्ववर्णो नास्ति, कश्चन हल्-वर्णः एव भवति | नाम छकारः तुक्-सहितः नास्ति चेत्, संयोगो भवति एव | (आछि, वाछि, लाछि, एते इदित्-धातवः अतः नुमागमः; नुमागमात् संयोगग्रस्तछकारः | उच्छि इति धातौ तुगागमः |) एवं च अन्ते संयोगः अस्ति, तस्यां च दशायां '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदान्ते छकार-लोपो भवति | वाञ्छ्-धातुः + क्विप्-प्रत्ययः → वाञ्छ् इति प्रातिपदिकम् | प्रथमपुरुषैकवचने वाञ्छ् + सु → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) इत्यनेन हलन्तात् सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः → '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदान्ते छकार-लोपः → वान् | एवमेव लङ्-लकारे अवावाञ्छ् + त् → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) → अवावाञ्छ् → '''संयोगान्तस्य लोपः''' (८.२.२३) → अवावान् |</big>
<big>अनेन दृश्यते यत् छकारात् पूर्वं ह्रस्व-स्वरः नास्ति चेत्, पदान्ते संयोगः भवति, तत्र च सदा '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन छकार-लोपः | अनेन कारणेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रं तत्र न प्राप्नोति एव; अस्य कार्यावसरो नास्ति | लङि अवावान्; सुबन्ते वान्, वाञ्छौ, वाञ्छः | पदसंज्ञायां संयोगान्तलोपः; अपदान्ते अजादिप्रत्यये परे केवलं संयोजनं— वाञ्छौ, वाञ्छः |</big>
<big>वावाञ्छ् + ति → अत्र यतोहि '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति तुक्-सहित-छकारः आवश्यकः, अस्य सूत्रस्य प्रसक्तिर्नास्ति → वावाञ्छ् + ति → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम् → वावाङ्ख् + ति → '''खरि च''' (८.४.५५) → वावाङ्क् + ति → वावाङ्क्ति | एवमेव वावाञ्छ् + सि | अवावाञ्छ् + ताम् |</big>
<big>'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे तुक्-रहित-छकारः यदि न मन्यामहे, तर्हि 'पाप्रच्छ् + सि' इति स्थले छकारस्य अस्थाने षकारः तु भवति, किन्तु तुक्-आगमः स्थास्यति | अस्य निवारणार्थं तुक्-सहित-छकारः अपेक्षितः सर्वत्र | तदर्थञ्च 'वावाञ्छ् + ति' इति स्थले तुक्-सहित-छकारस्य अभावे अस्य सूत्रस्य प्रसक्तिर्नास्ति |</big>
<big>आहत्य '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः भवति चेत्, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारो भवति, स च तुक्-सहितः | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे अपि छकारः अपि तुक्-सहितः एव | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः नास्ति चेत्, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारो न भवति एव | नो चेत्, यथा पाप्रच्छ् + तः इति स्थले तुक्-आगमः स्थास्यति, इष्टरूपं न सेत्स्यति |</big>
<big>इति हलन्तेभ्यो धातुभ्यः सकारादि-प्रत्ययस्य योजनविधिः |</big>
<big>Swarup – Sept 2013 (Updated June 2018)</big>
[https://static.miraheze.org/samskritavyakaranamwiki/1/11/%E0%A5%AF_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D_-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%A8.pdf <big>९ - धातुपाठे हल् -सन्धिः २.pdf</big>]
|