page_and_link_managers, Administrators
5,097
edits
No edit summary |
No edit summary |
||
(4 intermediate revisions by the same user not shown) | |||
Line 207:
<big>प्रश्नः उदेति कथं '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम् | सामान्यतया वदामः यत् 'वस्तुतः अत्र मूले सकारः आसीत्; श्चुत्वसन्धिना एव शकारः जातः' | अस्तु, तत्तु सत्यं; किन्तु अधुना शकारः अस्ति किल न तु सकारः | इति चेत् कथं वा '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः स्यात् ? '''अकृतव्यूहाः पाणिनीयाः''' (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम् इत्यस्मात् '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन श्चुत्वसन्धेः निमित्तचकारस्य जायमानात् नाशात् '''स्तोः श्चुना श्चुः''' (८.४.४०) इति सूत्रं न प्रवर्तनीयमेव | अतः
Line 527:
<big>'''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) = ज्वर्, त्वर्, स्रिव्, अव्, मव् इत्येषां धातूनाम् उपधा च वकारः चेत्यनयोः मिलित्वा स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | ज्वरश्च त्वरश्च स्रिविश्च अविश्च मव् च तेषामितरेतरद्वन्द्वः ज्वरत्वरस्रिव्यविमवः, तेषां ज्वरत्वरस्रिव्यविमवाम् | ज्वरत्वरस्रिव्यविमवाम् षष्ठ्यन्तम्, उपधायाः षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यस्मात् '''वः''', '''ऊठ्''', '''अनुनासिके''' इत्येषाम् अनुवृत्तिः | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात् '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ज्वरत्वरस्रिव्यविमवाम् अङ्गस्य उपधायाः वः च ऊठ्''' '''क्विझलोः अनुनासिके च''' |</big>
Line 706:
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः
Line 909:
<big>छकारात् प्राक् यदि ह्रस्ववर्णो नास्ति, कश्चन हल्-वर्णः एव भवति | नाम छकारः तुक्-सहितः नास्ति चेत्, संयोगो भवति एव | (आछि, वाछि, लाछि, एते इदित्-धातवः अतः नुमागमः; नुमागमात् संयोगग्रस्तछकारः | उच्छि इति धातौ तुगागमः |) एवं च अन्ते संयोगः अस्ति, तस्यां च दशायां '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदान्ते छकार-लोपो भवति | वाञ्छ्-धातुः + क्विप्-प्रत्ययः → वाञ्छ् इति प्रातिपदिकम् | प्रथमपुरुषैकवचने वाञ्छ् + सु → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) इत्यनेन हलन्तात् सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः → '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदान्ते छकार-लोपः → वान् | एवमेव लङ्-लकारे अवावाञ्छ् +
Line 921:
<big>'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे तुक्-रहित-छकारः यदि न मन्यामहे, तर्हि 'पाप्रच्छ् + सि' इति स्थले छकारस्य अस्थाने षकारः तु भवति, किन्तु तुक्-आगमः स्थास्यति | अस्य निवारणार्थं तुक्-सहित-छकारः अपेक्षितः सर्वत्र | तदर्थञ्च 'वावाञ्छ् + ति' इति स्थले तुक्-सहित-छकारस्य अभावे अस्य सूत्रस्य प्रसक्तिर्नास्ति |</big>
|