6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 909:
 
 
<big>छकारात्‌ प्राक्‌ यदि ह्रस्ववर्णो नास्ति, कश्चन हल्‌-वर्णः एव भवति | नाम छकारः तुक्‌-सहितः नास्ति चेत्‌, संयोगो भवति एव | (आछि, वाछि, लाछि, एते इदित्‌-धातवः अतः नुमागमः; नुमागमात्‌ संयोगग्रस्तछकारः | उच्छि इति धातौ तुगागमः |) एवं च अन्ते संयोगः अस्ति, तस्यां च दशायां '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदान्ते छकार-लोपो भवति | वाञ्छ्‌-धातुः + क्विप्‌-प्रत्ययः → वाञ्छ्‌ इति प्रातिपदिकम्‌ | प्रथमपुरुषैकवचने वाञ्छ्‌ + सु → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन हलन्तात्‌ सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः → '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदान्ते छकार-लोपः → वान्‌ | एवमेव लङ्‌-लकारे अवावाञ्छ्‌ + तित् → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) → अवावाञ्छ्‌ → '''संयोगान्तस्य लोपः''' (८.२.२३) → अवावान्‌ |</big>
 
 
page_and_link_managers, Administrators
5,097

edits