6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2 (view source)
Revision as of 19:32, 9 May 2021
, 3 years agono edit summary
Shubhada V (talk | contribs) (Paragraph spacing and Next 2/3rd of the text from the google sites copy-pasted.) |
Shubhada V (talk | contribs) No edit summary |
||
Line 102:
<big>१. क्, ख्, ग्, घ् → क्</big>
<big>प्रत्ययस्य प्रथमवर्णः त्, थ्, ध्, स् चेत् हल्-सन्धिः भवतीति उक्तम् | तेषु वर्णेषु त्, थ्, स् च खर्-प्रत्याहारे सन्ति, अतः तेषु वर्णेषु परेषु '''खरि च''' इत्यनेन चर्त्वसन्धिः (तत्तत् वर्गस्य प्रथमादेशो) भवति | अत्र सादिप्रत्ययः परः अस्ति, अतः चर्त्वसन्धिः भवतु |</big>
<big>तस्मात् पूर्वं किन्तु '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन कवर्गीयवर्णात् परस्य प्रत्ययावयवस्य सकारस्य षत्वादेशः | ('''खरि च''' (८.४.५५) तदपेक्षया परत्रिपादिसूत्रम् अतः असिद्धम् |)</big>
<big>यथा—</big>
Line 126 ⟶ 129:
<big>'''खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''झलां जश् झशि''' (८.४.५३) इत्यस्मात् '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात् '''चर्च''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''झलां चर् खरि च''' '''संहितायाम् '''|</big>
<big>अन्यानि उदाहरणानि—</big>
Line 209 ⟶ 213:
<big>'''राल्लोपः''' (६.४.२१) = रेफात् परस्य छकारस्य वकारस्य च लोपो भवति क्वि, झलादि-प्रत्ययः, अनुनासिकः च परे अस्ति चेत् | रात् पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यस्मात् '''च्छ्वोः''' इत्यस्य अनुवृत्तिः; अत्र धेयं यत् अनुवृत्तौ 'तक्-सहितः छकारः' सत्यपि व्याख्याने तुगागमो नापेक्षितः अतः न स्वीकृतः | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात् '''अनुनासिकस्य''', '''क्विझलोः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य रात् च्छ्वोः''' '''लोपः अनुनासिके क्विझलोः''' |</big>
<big>जकारस्य प्रकारद्वयम्—</big>
Line 224 ⟶ 230:
<big>एतेषां षत्वं भवति '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण यतोहि एते धातवः असिन् सूत्रे साक्षात् उक्ताः |</big>
<big>बाभ्रस्ज् + सि → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन झलि परे संयोगस्य प्रथमसदस्यस्थ-सकारस्य लोपः → बाभ्रज् + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन जकारस्य षत्वम् → बाभ्रष् + सि → '''षढोः कः सि''' (८.२.४१) इत्यनेन सकारे परे षकारस्य ककारादेशः → बाभ्रक् + सि → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम् → बाभ्रक्षि</big>
Line 237 ⟶ 244:
<big>बाभ्राज् + सि →</big>
Line 439 ⟶ 447:
<big>दल् → दादल् + सि → दादल्षि</big>
I. रेफः
रेफस्य विकारो नास्ति; आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम् |
(जागृ + सि →) जागर् + सि → आदेशप्रत्यययोः (८.३.५९) → जागर्षि
J. सकारः
धातोरन्तिमो वर्णः सकारश्चेत्, सार्वधातुकप्रत्यये परे केवलं वर्णमेलनम्; आर्धधातुकप्रत्यये परे धात्वङ्गसकारस्य तकारादेशो भवति, सः स्यार्धधातुके (७.४.४९) इति सूत्रेण |
धातुः सकारान्तः चेत्, तर्हि प्रत्ययः सार्वधातुको वा आर्धधातुको वा इति विचार्यताम् |
प्रत्ययः सार्वधातुकः चेत्, केवलं वर्णमेलनम्—
आस् + से → आस्से
प्रत्ययः आर्धधातुकः चेत्, धात्वङ्गसकारस्य तकारादेशो भवति—
वस् + स्यति → सः स्यार्धधातुके (७.४.४९) इत्यनेन सकारादि-आर्धधातुकप्रत्यये परे सकारस्य स्थाने तकारादेशः → वत् + स्यति → वत्स्यति
घस् + स्यति → सः स्यार्धधातुके (७.४.४९) → घत् + स्यति → घत्स्यति
सः स्यार्धधातुके (७.४.४९) = सकारस्य स्थाने तकारादेशो भवति सकारादि-आर्धधातुकप्रत्यये परे | सः षष्ठ्यन्तं, सि सप्तम्यन्तम्, आर्धधातुके सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | अच उपसर्गात्तः (७.४.४७) इत्यस्मात् तः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— सः अङ्गस्य तः सि आर्धधातुके |
I. रेफः
रेफस्य विकारो नास्ति; '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम् |
(जागृ + सि →) जागर् + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → जागर्षि
J. सकारः
धातोरन्तिमो वर्णः सकारश्चेत्, सार्वधातुकप्रत्यये परे केवलं वर्णमेलनम्; आर्धधातुकप्रत्यये परे धात्वङ्गसकारस्य तकारादेशो भवति, '''सः स्यार्धधातुके''' (७.४.४९) इति सूत्रेण |
धातुः सकारान्तः चेत्, तर्हि प्रत्ययः सार्वधातुको वा आर्धधातुको वा इति विचार्यताम् |
प्रत्ययः सार्वधातुकः चेत्, केवलं वर्णमेलनम्—
आस् + से → आस्से
प्रत्ययः आर्धधातुकः चेत्, धात्वङ्गसकारस्य तकारादेशो भवति—
वस् + स्यति → '''सः स्यार्धधातुके''' (७.४.४९) इत्यनेन सकारादि-आर्धधातुकप्रत्यये परे सकारस्य स्थाने तकारादेशः → वत् + स्यति → वत्स्यति
घस् + स्यति → '''सः स्यार्धधातुके''' (७.४.४९) → घत् + स्यति → घत्स्यति
'''सः स्यार्धधातुके''' (७.४.४९) = सकारस्य स्थाने तकारादेशो भवति सकारादि-आर्धधातुकप्रत्यये परे | सः षष्ठ्यन्तं, सि सप्तम्यन्तम्, आर्धधातुके सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''अच उपसर्गात्तः''' (७.४.४७) इत्यस्मात् '''तः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ''''''सः''' अङ्गस्य तः सि आर्धधातुके''' |
|