6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2 (view source)
Revision as of 20:24, 9 May 2021
, 3 years agoCopy-paste the last 1/3rd text from the original google site.
Shubhada V (talk | contribs) No edit summary |
Shubhada V (talk | contribs) (Copy-paste the last 1/3rd text from the original google site.) |
||
Line 374:
<big><u>नकारः</u></big>
<big>सकारः झलि अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः |</big>
Line 388 ⟶ 386:
<big>F. <u>पवर्गः</u></big>
<big>पकारः, फकारः, बकारः, भकारः</big>
Line 396 ⟶ 392:
<big>धातोः अन्तिमो वर्णः प्, फ्, ब्, भ् एषु अन्यतमश्चेत्, सादिप्रत्यये परे तस्य वर्णस्य स्थाने पकारो भवति |</big>
<big>प्, फ्, ब्, भ् → प् | '''खरि च''' (८.४.५५) इत्यनेन सकारे परे, पवर्गीयवर्णानामपि प्रथमसदस्यादेशो भवति | सकारस्य कोऽपि विकारो न भवति |</big>
Line 433 ⟶ 427:
<big>G. <u>यकारः, वकारः</u></big>
<big>यकारस्य लोपः भवति सकारे परे | सकारः वल्-प्रत्याहारे विद्यमानत्वात् |</big>
<big>जहाय् + सि → जहासि</big>
Line 444 ⟶ 436:
<big>'''लोपो व्योर्वलि''' (६.१.६६) = वकारयकारयोः लोपो भवति वल्-प्रत्याहारे परे | व् च य् च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— '''व्योः लोपः वलि''' |</big>
<big>वकारस्य अपि '''लोपो व्योर्वलि''' (६.१.६६) इत्यनेन लोपो भवति | किन्तु वस्तुतस्तु समग्रसंस्कृतभाषायां द्वयोः धात्वोः एव उदाहरणं भवति, तच्च यङ्लुकि एव | अन्यत्र सर्वत्र सार्वधातुकप्रक्रियायां विकरणप्रत्ययः मध्ये आयाति; आर्धधातुकप्रक्रियायाम् इडागमः मध्ये आयाति | अतः वकारसम्बद्ध-हल्-सन्धेः अवसरः नास्ति |</big>
Line 451 ⟶ 441:
<big>यङ्लुकि आधिक्येन ये वकारान्तधातवः भवन्ति, तेषां सकारे परे '''राल्लोपः''' (६.४.२१) इत्यनेन वकारलोपो भवति | अपि च येषां वकारान्तधातूनां '''राल्लोपः''' (६.४.२१) इत्यनेन वकारलोपः न भवति स्म, नाम येषां धातूनां वकारात् पूर्वं रेफः नास्ति, तेषां धातूनां यङ्लुक्-धातुः एव न भवति महाभाषस्य ज्ञापनात् | यथा दिव्-धातुः; महाभाषस्य ज्ञापकत्वात् तस्य यङ्लुगन्तधातुः न भवति | ष्ठिवु (ष्ठिव्)-धातुः अपि तथा |</big>
<big>येषां वकारान्तधातूनाम् अन्तिमवकारात् प्राक् रेफः अस्ति, यथा धुर्व्, तुर्व्, थुर्व्, दुर्व्, मूर्व्, पूर्व्, खर्व्, गर्व्, चर्व्, पर्व्, भर्व्, मर्व्, शर्व्, षर्व्, एतादृशेभ्यः वकारान्तधातुभ्यः यङः लुक् भवति | किन्तु एषाम् अन्तिमवकारस्य लोपो भवति '''राल्लोपः''' (६.४.२१) इति सूत्रेण |</big>
Line 463 ⟶ 451:
<big>महाभाष्ये दत्तम् अस्ति यत् '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यनेन ये ऊठ्-भाविनः वकारान्तधातवः सन्ति, तेषां यङ्लुक् न भवति | ऊठ्-भावी धातुः इत्युक्ते तादृशधातुः यस्य '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इति सूत्रेण ऊठ्-आदेशः सम्भवति |</big>
<big>'''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) = तुक्-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ् च व् च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श् च ऊठ् च तयोः समाहारद्वन्द्वः शूड् | '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात् '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''च्छ्वोः अङ्गस्य शूड्''' '''क्विझलोः''' '''अनुनासिके च''' |</big>
Line 470 ⟶ 456:
<big>तर्हि द्वयोः धात्वोः एव यङ्लुकि हल्-सन्धेः अवसरो भवति, तौ च कौ ? स्रिव्, मव् इति द्वौ धातू ऊठ्-भाविनौ, किन्तु '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रेण न तु '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इति सूत्रेण | अस्मिन् सूत्रे एतौ द्वौ वकारान्तधातू साक्षात् उल्लेखितौ, अतः एतौ द्वावेव ययोः यङ्लुक् रूपं भवति | (अस्मिन् सूत्रे अव्-धातुः अपि पठितः, किन्तु स च धातुः अजादिः इति कारणतः यङ्-प्रत्ययः न विधीयते; तदर्थं तस्य यङ्लुक् अपि न भवति |)</big>
<big>'''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) = ज्वर्, त्वर्, स्रिव्, अव्, मव् इत्येषां धातूनाम् उपधा च वकारः चेत्यनयोः मिलित्वा स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | ज्वरश्च त्वरश्च स्रिविश्च अविश्च मव् च तेषामितरेतरद्वन्द्वः ज्वरत्वरस्रिव्यविमवः, तेषां ज्वरत्वरस्रिव्यविमवाम् | ज्वरत्वरस्रिव्यविमवाम् षष्ठ्यन्तम्, उपधायाः षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यस्मात् '''वः''', '''ऊठ्''', '''अनुनासिके''' इत्येषाम् अनुवृत्तिः | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात् '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ज्वरत्वरस्रिव्यविमवाम् अङ्गस्य उपधायाः वः च ऊठ्''' '''क्विझलोः अनुनासिके च''' |</big>
Line 501 ⟶ 485:
<big>मामव् + वः → माम + वः → मामावः</big>
<big>लङि च— अमामव् + व → अमामाव</big>
Line 508 ⟶ 490:
<big>'''अतो दीर्घो यञि''' (७.३.१०१) = अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | यञ् प्रत्याहारः = य व र ल ञ म ङ ण न झ भ | अतः षष्ठ्यन्तं, दीर्घः प्रथमान्तं, यञि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''तुरुस्तुशम्यमः सार्वधातुके''' (७.३.९५) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते ह्रस्व-अकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः; '''यस्मिन् विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम् २९) इत्यनेन '''यञि सार्वधातुके''' इत्युक्तौ यञादि-सार्वधातुके | अनुवृत्ति-सहितसूत्रम्— '''अतः अङ्गस्य दीर्घः यञि सार्वधातुके''' |</big>
<big>अतः वकारान्तधातोः हल्सन्धेः उदाहरणं लभ्यते किन्तु केवलं वकारादिप्रत्यये परे | सकारादिप्रत्यये परे ऊठ्भावो भवति; स च ऊठ्भावः अङ्गकार्यं न तु सन्धिकार्यम् |</big>
Line 515 ⟶ 495:
<big>एवमेव स्रिव् → सेस्रिव् इति यङ्लुगन्तधातुः | लटि रूपाणि कल्पनीयानि | पित्सु प्रत्ययेषु '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यस्य नित्यत्वात् सर्वप्रथमं भवति, न तु '''पुगन्तलघूपधस्य च''' (७.३.८६) |</big>
<big>H. <u>लकारः</u></big>
Line 522 ⟶ 500:
<big>लकारस्य विकारो नास्ति; '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम् |</big>
<big>गल् → जागल् + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → जागल्षि</big>
Line 561 ⟶ 537:
<big>घस् + स्यति → '''सः स्यार्धधातुके''' (७.४.४९) → घत् + स्यति → घत्स्यति</big>
<big>'''सः स्यार्धधातुके''' (७.४.४९) = सकारस्य स्थाने तकारादेशो भवति सकारादि-आर्धधातुकप्रत्यये परे | सः षष्ठ्यन्तं, सि सप्तम्यन्तम्, आर्धधातुके सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''अच उपसर्गात्तः''' (७.४.४७) इत्यस्मात् '''तः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ''''''सः''' अङ्गस्य तः सि आर्धधातुके''' |</big>
<big>K. हकारः</big>
<big>हकारान्तधातुः + सकारादिप्रत्ययः| धातोरन्तिमो वर्णः हकारश्चेत्, नह्-धातुम् अतिरिच्य सर्वत्र हकारस्य ककारः | '''हो ढः''' (८.२.३१) + '''षढोः कः सि''' (८.२.४१) अथवा '''दादेर्धातोर्घः''' (८.२.३२) + '''खरि च''' (८.४.५५) |</big>
<big>१. सामान्यनियमः</big>
* <big>सकारादि-प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' (८.२.३१) इत्यनेन सूत्रेण |</big>
* <big>तदा ढकारस्य स्थाने ककारादेशो भवति '''षढोः कः सि''' (८.२.४१) इत्यनेन सूत्रेण |</big>
* <big>अन्ते प्रत्ययावयवस्य सकारस्य स्थाने षकारादेशो भवति, '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन सूत्रेण |</big>
<big>यथा— वह् + स्यति → '''हो ढः''' (८.२.३१) → वढ् + स्यति → '''षढोः कः सि''' (८.२.४१) → वक् + स्यति → '''आदेशप्रत्यययोः''' (८.३.५९) → वक् + ष्यति → वक्ष्यति</big>
<big>'''हो ढः''' (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हः ढः झलि पदस्य अन्ते च''' |</big>
<big>'''षढोः कः सि''' (८.२.४१) = षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे | '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य अपवादः | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— '''षढोः कः सि''' |</big>
<big>२. बकारादीनां गकारादीनां च धातूनां भष्भावः भवति; तत्रापि हकारस्य ककारः '''हो ढः''' (८.२.३१) + '''षढोः कः सि''' (८.२.४१) इति सूत्राभ्याम् | यथा बर्ह्, बृंह्, गृह्, गाह्, गुह् इति धातवः |</big>
* <big>सकारादि-प्रत्यये परे, बकारादि-, गकारादि-हकारान्तानां धातूनां हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' (८.२.३१) इत्यनेन सूत्रेण |</big>
* <big>अधुना एकाच्-बशादि-झषन्तधात्वंशः जातः (३४ इति) | अतः '''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' (८.२.३७) इत्यनेन '''('''३४ – ४४) आदौ तृतीयसदस्य स्थाने चतुर्थसदस्यादेशो भवति |</big>
* <big>तदा '''षढोः कः सि''' (८.२.४१) इत्यनेन ढ्-स्थाने ककारादेशः |</big>
* <big>कवर्गीयवर्णः पूर्वम् अस्ति अतः '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन स्-स्थाने षत्वम् |</big>
<big>यथा— बाबृंह् + सि → '''हो ढः''' (८.२.३१) → बाबृंढ् + सि → '''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' (८.२.३७) → बाभृंढ् + सि → '''षढोः कः सि''' (८.२.४१) → बाभृंक् + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → बाभृंक् + षि → बाभृंक्षि → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → बाभृङ्क्षि</big>
<big>गर्ह् + स्यते → '''हो ढः''' (८.२.३१) → गर्ढ् + स्यते → '''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' (८.२.३७) → घर्ढ् + स्यते → '''षढोः कः सि''' (८.२.४१) → घर्क् + स्यते → '''आदेशप्रत्यययोः''' (८.३.५९) → घर्क् + ष्यते → घर्क्ष्यते</big>
<big>एवमेव—</big>
<big>गाह् + स्यते → घाक् + ष्यते → घाक्ष्यते</big>
<big>गोह् + स्यते → घोक् + ष्यते → घोक्ष्यते</big>
<big>'''हो ढः''' (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हः ढः झलि पदस्य अन्ते च''' |</big>
<big>'''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' (८.२.३७) = धातोरवयवो यो झषन्त एकाच्, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्तिसहितसूत्रे ''''एकाचः झषन्तस्य'''<nowiki/>' इत्यनयोरेव विशेषणविशेष्यभावः; धातोः तादृशांशः इति तात्पर्यम् | अनेन धातोः एकाच् वा तदधिकाः वा अर्हाः | अनुवृत्ति-सहितसूत्रं— '''धातोः एकाचः झषन्तस्य बशः भष् स्ध्वोः पदस्य अन्ते च''' |</big>
<big>३. दकारादि-हकारान्तेषु हकारस्य ककारः अस्त्येव, किन्तु मार्गः '''दादेर्धातोर्घः''' + '''खरि च''' (८.४.५५) (यथा दह्, दिह्, दुह्, द्रुह्,) | अत्र भष्भावः अपि भवति |</big>
* <big>सकारादि-प्रत्यये परे, दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति '''दादेर्धातोर्घः''' इत्यनेन सूत्रेण |</big>
* <big>तदा आदौ स्थितस्य दकारस्य धकारादेशो भवति '''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' इत्यनेन |</big>
* <big>खर् परे अस्ति अतः '''खरि च''' (८.४.५५) इत्यनेन घकारस्य स्थाने ककारादेशो भवति |</big>
* <big>कवर्गीयवर्णः पूर्वम् अस्ति अतः '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन स्-स्थाने षत्वम् |</big> <font size="4"></font>
<big>यथा— दुह् + स्यते → '''पुगन्तलघूपधस्य च''' (७.३.८६) → दोह् + स्यते → '''दादेर्धातोर्घः''' (८.२.३२) → दोघ् + स्यते → '''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' (८.२.३७) → धोघ् + स्यते → '''आदेशप्रत्यययोः''' (८.३.५९) → धोघ् + ष्यते → '''खरि च''' (८.४.५५) → धोक् + ष्यते → धोक्ष्यते</big>
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''हो ढः''' (८.२.३१) इत्यस्मात् '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
<big>एवमेव—</big>
<big>दुह् + स्यति → गुणः → दोह् + स्यति → दोघ् + स्यति → धोघ् + ष्यति → धोक् + ष्यति → धोक्ष्यति</big>
<big>दिह् + स्यति → देह् + स्यति → → धेक् + ष्यति → धेक्ष्यति</big>
<big>द्रुह् + स्यति → द्रोह् + स्यति → → द्रोक् + ष्यति → ध्रोक्ष्यति</big>
<big>दह् + स्यति → → धक् + ष्यति → धक्ष्यति</big>
<big>'''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) = द्रुह्, मुह्, ष्णुह्, ष्णिह् एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्-अभावे '''हो ढः''' (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''हो ढः''' (८.२.३१) इत्यस्मात् '''हः''', '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात् '''घः''', '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''', '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् '''अन्ते''', '''च''' इत्येषाम् अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च''' |</big>
<big>४. नह्-धातुः | अत्र एकैव धातुः यत्र हकारस्य गतिः भिन्ना— अत्र हकारस्य तकारो भवति |</big>
<big>सकारादि-प्रत्यये परे, अपवादभूतस्य नह्-धातोः हकारस्य स्थाने धकारादेशो भवति '''नहो धः''' इत्यनेन सूत्रेण | तदा '''खरि च''' इत्यनेन चर्त्वं कृत्वा धस्थाने तकारादेशो भवति | सकारस्य कोऽपि विकारो न भवति |</big>
<big>नह् + स्यति → '''नहो धः''' (८.२.३४) → नध् + स्यति → '''खरि च''' (८.४.५५) → नत् + स्यति → नत्स्यति</big>
<big>'''नहो धः''' (८.२.३४) = नह्-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''हो ढः''' (८.२.३१) इत्यस्मात् '''हः''' इत्यस्य अनुवृत्तिः | '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''नहः धातोः हः धः''' '''झलि पदस्य अन्ते च''' |</big>
<big>अभ्यासः</big>
<big>अदादिगणस्य लट्-लकारस्य मध्यमपुरुषैकवचने, परस्मैपदे 'सि', आत्मनेपदे 'से' इति यथासङ्गं योजयित्वा सूत्रसहितक्रमं श्रावयित्वा रूपाणि पूरयतु —</big>
<big>- वस् + से →</big>
<big>- द्विष् + सि →</big>
<big>- हन् + सि →</big>
<big>- णिसि + से →</big>
<big>- विद् + सि →</big>
<big>- संविद् + से →</big>
<big>- वच् + सि →</big>
<big>- लिह् + सि →</big>
<big>- मृज् + सि →</big>
<big>- संस्त् + सि →</big>
<big>- पृच् + से →</big>
<big>- दुह् + सि →</big>
<big>- निंज् + से →</big>
<big>- अद् + सि →</big>
<big>- वश् + सि →</big>
<big>- चक्ष् + से →</big>
<big>- आस् + से →</big>
<big>- कसि + से →</big>
<big>- शास् + सि →</big>
<big>- दिह् + सि →</big>
<big>अन्यच्च लृटि कथं भवति ?</big>
<big>वच् + स्यति →</big>
<big>शास् + स्यति →</big>
<big>संस्त् + स्यति →</big>
<big>यङ्लुकि—</big>
<big>मघि → मामङ्घ् + सि →</big>
<big>प्रच्छ् → पाप्रच्छ् + सि →</big>
<big>दुह् → दोदुह् + सि →</big>
<big>व्रश्च् → वाव्रश्च् + सि →</big>
<big>स्यन्दू → स्यन्द् → सास्यन्द् + सि →</big>
<big>सृज् → सरीसृज् → सृजिदृशेर्झल्यमकिति (६.१.५८) इत्यनेन अम्-आगमः → सरीसृ-अ-ज् → इको यणचि इत्यनेन यण् → सरीस्रज् + सि →</big>
<big>मुर्छा → मुर्छ्-धातुः, यङ्लुकि मोमुर्छ्-धातुः + सि →</big>
<big>बुध् → बोबुध् + सि →</big>
<big>लाछि → लाछ् → लान्छ् → लालान्छ् + सि →</big>
<big>भ्रस्ज् → बाभ्रस्ज् + सि →</big>
<big>दध् → दादध् + सि →</big>
<big>भ्रम् → बम्भ्रम् + सि →</big>
<big>ध्रस् → दाध्रस् + सि →</big>
<big>सृप् → सरीसृप् + सि →</big>
<big>जसि → जन्स् → जाजन्स् + सि →</big>
<big>हुर्छा → हुर्छ् → होहुर्छ् + सि →</big>
<big>वृत् → वरीवृत् + सि →</big>
<big>तुर्वी → तोतुर्व् + सि →</big>
<big>वृध् → वरीवृध् + सि →</big>
<big>दुर्वी → दोदुर्व् + सि →</big>
<big>वृश् → वरीवृश् + सि →</big>
<big>मुर्वी → मोमुर्व् + सि →</big>
<big>कृश् → चरीकृश् + सि →</big>
<big>कृष् → चरीकृष् + सि →</big>
<big>परिशिष्टम्</big>
<big>कश्चन प्रश्नः उदेति— '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इति सूत्रेण तुक्-सहित-छकारस्य स्थाने शकारादेशः | एवम् अस्ति चेत्, 'पाप्रच्छ् + सि' इति स्थितौ किमर्थं न '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यनेन तुक्-सहित-छकारस्य शत्वम् ? दत्तम् आसीत्—</big>
<big>छकारान्तधातूनां कृते सामान्यम् = '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम् |</big>
<big>पाप्रच्छ् + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष् + सि → '''षढोः कः सि''' (८.२.४१) → पाप्रक् + सि → पाप्रक् + षि → पाप्रक्षि</big>
<big>किन्तु वस्तुतस्तु अत्र '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्य प्रसक्तिरस्ति किल | प्रसक्तिरस्ति चेत्, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रम् असिद्धम् | तर्हि अत्र का गतिः ?</big>
<big>यथा जानीमः, पाणिनिना न उच्यते कस्मिन् कस्मिन् सूत्रे कस्य कस्य अनुवृत्तिः | वैयाकरणाः विचिन्त्य अस्मान् सूचयन्ति | कुत्रचित् किन्तु विभिन्नपक्षाः भवन्ति | यथा अत्र | काशिकाकारः लिखति यत् '''च्छ्वोः शूडनुनासिके च''' (६.४.१९), '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यनयोः द्वयोः सूत्रयोः अपि '''क्ङिति''' इत्यस्य अनुवृत्तिः | नाम अनयोः सूत्रयोः कार्यं भवति क्ङिति झलादि-प्रत्यये परे | सिद्धान्तकौमुद्यां दीयते यत् '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः अस्ति, किन्तु '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे नास्ति | महाभाष्ये उक्तमस्ति यत् ''''''ज्वरत्वरस्रिव्यविमवामुपधायाश्च'''''' (६.४.२०) इति सूत्रे नास्ति अनुवृत्तिः; '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति स्थले भाष्यकारः पक्षद्वयं प्रतिपादयति— एकस्मिन् पक्षे क्ङिति अस्ति, अपरस्मिन् पक्षे नास्ति |</big>
<big>अस्य सर्वस्य महत्त्वं किम् ? '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः भवति चेत्, मामोति इति रूपं न सेत्स्यति | तिप् इत्यस्य पित्त्वात् अयं ङिद्वत् न, तदर्थम् ऊठादेशो न (न '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यनेन न वा '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन) | मामव् + ति → '''लोपो व्योर्वलि''' (६.१.६६) → मामति इति अनिष्टं रूपम् | अतः माता जी वदति यत् अत्र काशिकाकारस्य मतं मतमेव नास्ति अपि तु साक्षात् दोषः | तदर्थं '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे काशिकाकारस्य पक्षं त्यजामः | अस्मिन् सूत्रे क्ङिति इत्यस्य अनुवृत्तिः न भवेत्, नास्येव |</big>
<big>तर्हि '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे का गतिः ? वस्तुतः न केवलं सिद्धान्तकौमुद्याम् अपि तु बहुषु ग्रन्थेषु दत्तम् अस्ति यत् क्ङिति इत्यस्य अनुवृत्तिः अत्र वर्तते | तथा अस्ति चेत् कः परिणामः ? तुक्-सहित-छकारस्य स्थाने शकारादेशः क्ङिति झलादि-प्रत्यये परे | एवं चेत् 'पाप्रच्छ् + सि' इति स्थले अस्य सूत्रस्य प्रसक्तिर्नास्ति | एतावता अस्माकं पाठेषु एतादृशस्य पक्षस्य आश्रयं स्वीकृत्य प्रतिपादनं भवति स्म | यथोक्तं महाभाष्ये पक्षद्वयस्य समर्थनम् |</big>
<big>महाभाष्यस्य प्रमाणेन पक्षद्वयेनाऽपि कार्यं सिध्यति— एकः अनुवृत्तिपक्षः, एकः निवृत्तिपक्षः | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः स्वीक्रियते चेत् कित्ङ्त्-प्रत्यये परे '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन छकारस्य स्थाने शकारादेशः | तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण शकारस्य षत्वम् | प्रत्ययः कित्ङ्त् नास्ति चेत्, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण छकारस्य षत्वम् | अपि च अस्मिन् पक्षे तुक्-सहित-छकारः मन्तव्यः भवति द्वयोः अपि सूत्रयोः |</big>
<big>यथा 'पाप्रच्छ् + सि' इति स्थले सि-प्रत्ययः कित्ङ्त् न अतः '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण छकारस्य षत्वम् | किन्तु अत्र नूतनविचारः अयं यत् 'निमित्तापाये नैमित्तिकस्यापि अपायः' इति न स्वीक्रियते | भाष्यकारैः उच्यते यत् इदं न परिभाषा न वा न्यायः, किमपि नास्ति | अस्य उपयोगो न कुत्रापि भवेत् | अनेन कारणेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे तुक्-सहित-छकारः न मन्यते चेत्, छकारस्य स्थाने षकारः तु भवति, किन्तु तुक्-आगमः अपि स्थास्यति | तदर्थम् अस्मिन् सूत्रे तुक्-सहित-छकारः मन्तव्यः | अतः ये '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः स्वीकुर्वन्ति, तैः '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारः मन्तव्यः, अपि च स च छकारः तुक्-सहितः मन्तव्यः | नो चेत् लटि पाप्रष्टि, पाप्रक्षि इति रूपद्वयं न सेत्स्यति | अस्मिन् पक्षे 'पाप्रच्छ् + तः' इति स्थले पाप्रष्टः भवति '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रेण |</big>
<big>तदा निवृत्ति-पक्षे '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्मिन् क्ङिति इत्यस्य अनुवृत्तिः नास्ति | अस्मिन् पक्षे '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारस्य आवश्यकता नास्ति | प्रछ + तृच् → कार्यद्वयं प्राप्तं— तुक्-आगमः, छकारस्य शकारः च → तुक्-आगमः अन्तरङ्गं निमित्तस्य अल्पत्वात्, शत्वस्यापेक्षया | अत्र तुक्-आगमः प्रथमं भवति, एतदर्थं '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे तुक्-सहित-छकारः वक्तव्यः | अत्र च एका परिभाषा वर्तते '''सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः''' ['''सन्नियोगशिष्टानामन्यतरापाय उभयोरप्यपायः''' ८७] | अनेन सन्निपातलक्षणं भवति | चकारः छकारः च मिलित्वा आगच्छतः, मिलित्वा गच्छतः च |</big>
<big>अस्मिन् निवृत्तिपक्षे 'पाप्रच्छ् + सि' → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रेण पाप्रश् + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष् + सि → पाप्रक्षि</big>
<big>अत्र छकारान्तधातूनां प्रसङ्गे इतोऽपि किञ्चित् | छकारात् प्राक् के के वर्णाः सम्भवन्ति ? छकारात् प्राक् ह्रस्व-अच्-वर्णः अस्ति चेत्, तुगागमो भवति | यथा इष्-धातुः | '''इषुगमियमां छः''' (७.३.७७) इत्यनेन इष्-धातोः छकारादेशः शिति परे | इष् + श → '''इषुगमियमां छः''', '''अलोन्त्यस्य''' → इछ् + अ → '''छे च''' (६.१.७३), '''आद्यन्तौ टकितौ''' (१.१.४६) इत्याभ्यां छकारे परे ह्रस्वस्वरस्य (इकारस्य अनन्तरं) तुक्-आगमः → इत्छ् + अ → '''स्तोः श्चुना श्चुः''' (८.४.४०) → इच्छ् + अ → इच्छ इति अङ्गम् |</big>
<big>छकारात् प्राक् यदि ह्रस्ववर्णो नास्ति, कश्चन हल्-वर्णः एव भवति | नाम छकारः तुक्-सहितः नास्ति चेत्, संयोगो भवति एव | (आछि, वाछि, लाछि, एते इदित्-धातवः अतः नुमागमः; नुमागमात् संयोगग्रस्तछकारः | उच्छि इति धातौ तुगागमः |) एवं च अन्ते संयोगः अस्ति, तस्यां च दशायां '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदान्ते छकार-लोपो भवति | वाञ्छ्-धातुः + क्विप्-प्रत्ययः → वाञ्छ् इति प्रातिपदिकम् | प्रथमपुरुषैकवचने वाञ्छ् + सु → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) इत्यनेन हलन्तात् सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः → '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदान्ते छकार-लोपः → वान् | एवमेव लङ्-लकारे अवावाञ्छ् + ति → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) → अवावाञ्छ् → '''संयोगान्तस्य लोपः''' (८.२.२३) → अवावान् |</big>
<big>अनेन दृश्यते यत् छकारात् पूर्वं ह्रस्व-स्वरः नास्ति चेत्, पदान्ते संयोगः भवति, तत्र च सदा '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन छकार-लोपः | अनेन कारणेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रं तत्र न प्राप्नोति एव; अस्य कार्यावसरो नास्ति | लङि अवावान्; सुबन्ते वान्, वाञ्छौ, वाञ्छः | पदसंज्ञायां संयोगान्तलोपः; अपदान्ते अजादिप्रत्यये परे केवलं संयोजनं— वाञ्छौ, वाञ्छः |</big>
<big>वावाञ्छ् + ति → अत्र यतोहि '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति तुक्-सहित-छकारः आवश्यकः, अस्य सूत्रस्य प्रसक्तिर्नास्ति → वावाञ्छ् + ति → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम् → वावाङ्ख् + ति → '''खरि च''' (८.४.५५) → वावाङ्क् + ति → वावाङ्क्ति | एवमेव वावाञ्छ् + सि | अवावाञ्छ् + ताम् |</big>
<big>'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे तुक्-रहित-छकारः यदि मन्यामहे, तर्हि 'पाप्रच्छ् + सि' इति स्थले छकारस्य अस्थाने षकारः तु भवति, किन्तु तुक्-आगमः स्थास्यति | अस्य निवारणार्थं तुक्-सहित-छकारः अपेक्षितः सर्वत्र | तदर्थञ्च 'वावाञ्छ् + ति' इति स्थले तुक्-सहित-छकारस्य अभावे अस्य सूत्रस्य प्रसक्तिर्नास्ति |</big>
<big>आहत्य '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः भवति चेत्, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारो भवति, स च तुक्-सहितः | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे अपि छकारः अपि तुक्-सहितः एव | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः नास्ति चेत्, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारो न भवति एव | नो चेत्, यथा पाप्रच्छ् + तः इति स्थले तुक्-आगमः स्थास्यति, इष्टरूपं न सेत्स्यति |</big>
<big>इति हलन्तेभ्यो धातुभ्यः सकारादि-प्रत्ययस्य योजनविधिः |</big>
<big>Swarup – Sept 2013 (Updated June 2018)</big>
<big>---------------------------------</big>
<big>धेयम्-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].</big>
|