6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 392:
 
<big>धातोः अन्तिमो वर्णः प्‌, फ्‌, ब्‌, भ्‌ एषु अन्यतमश्चेत्‌‌, सादिप्रत्यये परे तस्य वर्णस्य स्थाने पकारो भवति |</big>
 
 
<big>प्‌, फ्‌, ब्‌, भ्‌ → प्‌ | '''खरि च''' (८.४.५५) इत्यनेन सकारे परे, पवर्गीयवर्णानामपि प्रथमसदस्यादेशो भवति | सकारस्य कोऽपि विकारो न भवति |</big>
 
 
 
Line 416 ⟶ 418:
 
<big><u>मकारः</u></big>
 
 
<big>सकारः झलि अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन अपदान्तस्य मकारस्य स्थाने अनुस्वारादेशः |</big>
 
 
 
Line 441 ⟶ 445:
 
<big>यङ्लुकि आधिक्येन ये वकारान्तधातवः भवन्ति, तेषां सकारे परे '''राल्लोपः''' (६.४.२१) इत्यनेन वकारलोपो भवति | अपि च येषां वकारान्तधातूनां '''राल्लोपः''' (६.४.२१) इत्यनेन वकारलोपः न भवति स्म, नाम येषां धातूनां वकारात्‌ पूर्वं रेफः नास्ति, तेषां धातूनां यङ्लुक्‌-धातुः एव न भवति महाभाषस्य ज्ञापनात्‌ | यथा दिव्‌-धातुः; महाभाषस्य ज्ञापकत्वात्‌ तस्य यङ्लुगन्तधातुः न भवति | ष्ठिवु (ष्ठिव्‌)-धातुः अपि तथा |</big>
 
 
 
<big>येषां वकारान्तधातूनाम्‌ अन्तिमवकारात्‌ प्राक्‌ रेफः अस्ति, यथा धुर्व्‌, तुर्व्‌, थुर्व्‌, दुर्व्‌, मूर्व्‌, पूर्व्‌, खर्व्‌, गर्व्‌, चर्व्‌, पर्व्‌, भर्व्‌, मर्व्‌, शर्व्‌, षर्व्‌, एतादृशेभ्यः वकारान्तधातुभ्यः यङः लुक्‌ भवति | किन्तु एषाम्‌ अन्तिमवकारस्य लोपो भवति '''राल्लोपः''' (६.४.२१) इति सूत्रेण |</big>
 
 
 
<big>तोतुर्व्‌ + सि → '''राल्लोपः''' (६.४.२१) इत्यनेन झलादि-प्रत्यये परे वकारलोपः → तोतुर्‍ + सि → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधा-गुणः → तोतोर्‍ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ → तोतोर्षि</big>
Line 451 ⟶ 459:
 
<big>महाभाष्ये दत्तम्‌ अस्ति यत्‌ '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यनेन ये ऊठ्‌-भाविनः वकारान्तधातवः सन्ति, तेषां यङ्लुक्‌ न भवति | ऊठ्‌-भावी धातुः इत्युक्ते तादृशधातुः यस्य '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इति सूत्रेण ऊठ्‌-आदेशः सम्भवति |</big>
 
 
 
<big>'''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) = तुक्‌-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्‌-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ्‌ च व्‌ च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श्‌ च ऊठ्‌ च तयोः समाहारद्वन्द्वः शूड्‌ | '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड्‌ प्रथमान्तम्‌, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''च्छ्वोः अङ्गस्य शूड्‌''' '''क्विझलोः''' '''अनुनासिके च''' |</big>
 
 
 
<big>तर्हि द्वयोः धात्वोः एव यङ्लुकि हल्‌-सन्धेः अवसरो भवति, तौ च कौ ? स्रिव्‌, मव्‌ इति द्वौ धातू ऊठ्‌-भाविनौ, किन्तु '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रेण न तु '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इति सूत्रेण | अस्मिन्‌ सूत्रे एतौ द्वौ वकारान्तधातू साक्षात्‌ उल्लेखितौ, अतः एतौ द्वावेव ययोः यङ्लुक्‌ रूपं भवति | (अस्मिन्‌ सूत्रे अव्‌-धातुः अपि पठितः, किन्तु स च धातुः अजादिः इति कारणतः यङ्‌-प्रत्ययः न विधीयते; तदर्थं तस्य यङ्लुक्‌ अपि न भवति |)</big>
 
 
 
<big>'''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) = ज्वर्‍, त्वर्‍, स्रिव्‌, अव्‌, मव्‌ इत्येषां धातूनाम्‌ उपधा च वकारः चेत्यनयोः मिलित्वा स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | ज्वरश्च त्वरश्च स्रिविश्च अविश्च मव्‌ च तेषामितरेतरद्वन्द्वः ज्वरत्वरस्रिव्यविमवः, तेषां ज्वरत्वरस्रिव्यविमवाम्‌ | ज्वरत्वरस्रिव्यविमवाम्‌ षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यस्मात्‌ '''वः''', '''ऊठ्‌''', '''अनुनासिके''' इत्येषाम्‌ अनुवृत्तिः | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ज्वरत्वरस्रिव्यविमवाम्‌ अङ्गस्य उपधायाः वः च ऊठ्‌''' '''क्विझलोः अनुनासिके च''' |</big>
 
 
 
Line 490 ⟶ 504:
 
<big>'''अतो दीर्घो यञि''' (७.३.१०१) = अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | यञ्‌ प्रत्याहारः = य व र ल ञ म ङ ण न झ भ | अतः षष्ठ्यन्तं, दीर्घः प्रथमान्तं, यञि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''तुरुस्तुशम्यमः सार्वधातुके''' (७.३.९५) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते ह्रस्व-अकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''यञि सार्वधातुके''' इत्युक्तौ यञादि-सार्वधातुके | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अङ्गस्य दीर्घः यञि सार्वधातुके''' |</big>
 
 
 
<big>अतः वकारान्तधातोः हल्सन्धेः उदाहरणं लभ्यते किन्तु केवलं वकारादिप्रत्यये परे | सकारादिप्रत्यये परे ऊठ्भावो भवति; स च ऊठ्भावः अङ्गकार्यं न तु सन्धिकार्यम्‌ |</big>
 
 
 
<big>एवमेव स्रिव्‌ → सेस्रिव्‌ इति यङ्लुगन्तधातुः | लटि रूपाणि कल्पनीयानि | पित्सु प्रत्ययेषु '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यस्य नित्यत्वात्‌ सर्वप्रथमं भवति, न तु '''पुगन्तलघूपधस्य च''' (७.३.८६) |</big>
 
 
 
<big>H. <u>लकारः</u></big>
 
 
 
Line 544 ⟶ 564:
 
<big>K. <u>हकारः</u></big>
 
 
<big>हकारान्तधातुः + सकारादिप्रत्ययः| धातोरन्तिमो वर्णः हकारश्चेत्‌, नह्‌-धातुम्‌ अतिरिच्य सर्वत्र हकारस्य ककारः | '''हो ढः''' (८.२.३१) + '''षढोः कः सि''' (८.२.४१) अथवा '''दादेर्धातोर्घः''' (८.२.३२) + '''खरि च''' (८.४.५५) |</big>
 
 
 
<big>१. सामान्यनियमः</big>
Line 552 ⟶ 575:
*<big>तदा ढकारस्य स्थाने ककारादेशो भवति '''षढोः कः सि''' (८.२.४१) इत्यनेन सूत्रेण |</big>
*<big>अन्ते प्रत्ययावयवस्य सकारस्य स्थाने षकारादेशो भवति, '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन सूत्रेण |</big>
 
 
 
<big>यथा— वह्‌ + स्यति → '''हो ढः''' (८.२.३१) → वढ्‌ + स्यति → '''षढोः कः सि''' (८.२.४१) → वक्‌ + स्यति → '''आदेशप्रत्यययोः''' (८.३.५९) → वक्‌ + ष्यति → वक्ष्यति</big>
 
 
 
<big>'''हो ढः''' (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हः ढः झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>'''षढोः कः सि''' (८.२.४१) = षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे | '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य अपवादः | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''षढोः कः सि''' |</big>
 
 
 
Line 570 ⟶ 599:
 
<big>यथा— बाबृंह्‌ + सि → '''हो ढः''' (८.२.३१) → बाबृंढ्‌ + सि → '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) → बाभृंढ्‌ + सि → '''षढोः कः सि''' (८.२.४१) → बाभृंक्‌ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → बाभृंक्‌ + षि → बाभृंक्षि → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → बाभृङ्क्षि</big>
 
 
 
<big>गर्ह्‌ + स्यते → '''हो ढः''' (८.२.३१) → गर्ढ्‌ + स्यते → '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) → घर्ढ्‌ + स्यते → '''षढोः कः सि''' (८.२.४१) → घर्क्‌ + स्यते → '''आदेशप्रत्यययोः''' (८.३.५९) → घर्क्‌ + ष्यते → घर्क्ष्यते</big>
 
 
 
Line 579 ⟶ 611:
 
<big>गोह्‌ + स्यते → घोक्‌ + ष्यते → घोक्ष्यते</big>
 
 
 
<big>'''हो ढः''' (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हः ढः झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>'''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) = धातोरवयवो यो झषन्त एकाच्‌, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्तिसहितसूत्रे ''''एकाचः झषन्तस्य'''<nowiki/>' इत्यनयोरेव विशेषणविशेष्यभावः; धातोः तादृशांशः इति तात्पर्यम्‌ | अनेन धातोः एकाच्‌ वा तदधिकाः वा अर्हाः | अनुवृत्ति-सहितसूत्रं— '''धातोः एकाचः झषन्तस्य बशः भष्‌ स्ध्वोः पदस्य अन्ते च''' |</big>
 
 
 
<big>३. दकारादि-हकारान्तेषु हकारस्य ककारः अस्त्येव, किन्तु मार्गः '''दादेर्धातोर्घः''' + '''खरि च''' (८.४.५५) (यथा दह्‌, दिह्‌, दुह्‌, द्रुह्‌,) | अत्र भष्भावः अपि भवति |</big>
Line 595 ⟶ 632:
 
<big>यथा— दुह्‌‍ + स्यते → '''पुगन्तलघूपधस्य च''' (७.३.८६) → दोह्‌‍ + स्यते → '''दादेर्धातोर्घः''' (८.२.३२) → दोघ्‌ + स्यते → '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) → धोघ्‌ + स्यते → '''आदेशप्रत्यययोः''' (८.३.५९) → धोघ्‌ + ष्यते → '''खरि च''' (८.४.५५) → धोक्‌ + ष्यते → धोक्ष्यते</big>
 
 
 
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
 
 
 
Line 611 ⟶ 651:
 
<big>'''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) = द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्‌-अभावे '''हो ढः''' (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''', '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''घः''', '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''', '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्येषाम्‌ अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>४. नह्‌-धातुः | अत्र एकैव धातुः यत्र हकारस्य गतिः भिन्ना— अत्र हकारस्य तकारो भवति |</big>
Line 623 ⟶ 661:
 
<big>'''नहो धः''' (८.२.३४) = नह्‌-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''नहः धातोः हः धः''' '''झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>अभ्यासः</big>
 
 
 
Line 668 ⟶ 709:
 
<big>- दिह्‌ + सि →</big>
 
 
 
<big>अन्यच्च लृटि कथं भवति ?</big>
 
 
 
Line 739 ⟶ 783:
 
<big>पाप्रच्छ्‌ + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष्‌ + सि → '''षढोः कः सि''' (८.२.४१) → पाप्रक्‌ + सि → पाप्रक्‌ + षि → पाप्रक्षि</big>
 
 
<big>किन्तु वस्तुतस्तु अत्र '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्य प्रसक्तिरस्ति किल | प्रसक्तिरस्ति चेत्‌, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रम्‌ असिद्धम्‌ | तर्हि अत्र का गतिः ?</big>
 
 
<big>यथा जानीमः, पाणिनिना न उच्यते कस्मिन्‌ कस्मिन्‌ सूत्रे कस्य कस्य अनुवृत्तिः | वैयाकरणाः विचिन्त्य अस्मान्‌ सूचयन्ति | कुत्रचित्‌ किन्तु विभिन्नपक्षाः भवन्ति | यथा अत्र | काशिकाकारः लिखति यत्‌ '''च्छ्वोः शूडनुनासिके च''' (६.४.१९), '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यनयोः द्वयोः सूत्रयोः अपि '''क्ङिति''' इत्यस्य अनुवृत्तिः | नाम अनयोः सूत्रयोः कार्यं भवति क्ङिति झलादि-प्रत्यये परे | सिद्धान्तकौमुद्यां दीयते यत्‌ '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः अस्ति, किन्तु '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे नास्ति | महाभाष्ये उक्तमस्ति यत्‌ '<nowiki/>'''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''ज्वरत्वरस्रिव्यविमवामुपधायाश्च<nowiki/>'<nowiki/>''''' (६.४.२०) इति सूत्रे नास्ति अनुवृत्तिः; '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति स्थले भाष्यकारः पक्षद्वयं प्रतिपादयति— एकस्मिन्‌ पक्षे क्ङिति अस्ति, अपरस्मिन्‌ पक्षे नास्ति |</big>
 
 
 
 
<big>अस्य सर्वस्य महत्त्वं किम्‌ ? '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः भवति चेत्‌, मामोति इति रूपं न सेत्स्यति | तिप्‌ इत्यस्य पित्त्वात्‌ अयं ङिद्वत्‌ न, तदर्थम्‌ ऊठादेशो न (न '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इत्यनेन न वा '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन) | मामव्‌ + ति → '''लोपो व्योर्वलि''' (६.१.६६) → मामति इति अनिष्टं रूपम्‌ | अतः माता जी वदति यत्‌ अत्र काशिकाकारस्य मतं मतमेव नास्ति अपि तु साक्षात्‌ दोषः | तदर्थं '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) इति सूत्रे काशिकाकारस्य पक्षं त्यजामः | अस्मिन्‌ सूत्रे क्ङिति इत्यस्य अन</big><big>ुवृत्तिः न भवेत्‌, नास्येव |</big>
 
 
 
Line 754 ⟶ 799:
<big>तर्हि '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे का गतिः ? वस्तुतः न केवलं सिद्धान्तकौमुद्याम्‌ अपि तु बहुषु ग्रन्थेषु दत्तम्‌ अस्ति यत्‌ क्ङिति इत्यस्य अनुवृत्तिः अत्र वर्तते | तथा अस्ति चेत्‌ कः परिणामः ? तुक्‌-सहित-छकारस्य स्थाने शकारादेशः क्ङिति झलादि-प्रत्यये परे | एवं चेत्‌ 'पाप्रच्छ्‌ + सि' इति स्थले अस्य सूत्रस्य प्रसक्तिर्नास्ति | एतावता अस्माकं पाठेषु एतादृशस्य पक्षस्य आश्रयं स्वीकृत्य प्रतिपादनं भवति स्म | यथोक्तं महाभाष्ये पक्षद्वयस्य समर्थनम्‌ |</big>
 
<big>महाभाष्यस्य प्रमाणेन पक्षद्वयेनाऽपि कार्यं सिध्यति— एकः अनुवृत्तिपक्षः, एकः निवृत्तिपक्षः | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः स्वीक्रियते चेत्‌ कित्‌ङ्त्‌-प्रत्यये परे '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन छकारस्य स्थाने शकारादेशः | तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण शकारस्य षत्वम्‌ | प्रत्ययः कित्‌ङ्त्‌ नास्ति चेत्‌, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण छकारस्य षत्वम्‌ | अपि च अस्मिन्‌ पक्षे तुक्‌-सहित-छकारः मन्तव्यः भवति द्वयोः अपि सूत्रयोः |</big>
 
 
<big>महाभाष्यस्य प्रमाणेन पक्षद्वयेनाऽपि कार्यं सिध्यति— एकः अनुवृत्तिपक्षः, एकः निवृत्तिपक्षः | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः स्वीक्रियते चेत्‌ कित्‌ङ्त्‌-प्रत्यये परे '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन छकारस्य स्थाने शकारादेशः | तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण शकारस्य षत्वम्‌ | प्रत्ययः कित्‌ङ्त्‌ नास्ति चेत्‌, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण छकारस्य षत्वम्‌ | अपि च अस्मिन्‌ पक्षे तुक्‌-सहित-छकारः मन्तव्यः भवति द्वयोः अपि सूत्रयोः |</big>
<big>यथा‌ 'पाप्रच्छ्‌ + सि' इति स्थले सि-प्रत्ययः कित्‌ङ्त्‌ न अतः '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण छकारस्य षत्वम्‌ | किन्तु अत्र नूतनविचारः अयं यत्‌ 'निमित्तापाये नैमित्तिकस्यापि अपायः' इति न स्वीक्रियते | भाष्यकारैः उच्यते यत्‌ इदं न परिभाषा न वा न्यायः, किमपि नास्ति | अस्य उपयोगो न कुत्रापि भवेत्‌ | अनेन कारणेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे तुक्‌-सहित-छकारः न मन्यते चेत्‌, छकारस्य स्थाने षकारः तु भवति, किन्तु तुक्‌-आगमः अपि स्थास्यति | तदर्थम्‌ अस्मिन्‌ सूत्रे तुक्‌-सहित-छकारः मन्तव्यः | अतः ये '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः स्वीकुर्वन्ति, तैः '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारः मन्तव्यः, अपि च स च छकारः तुक्‌-सहितः मन्तव्यः | नो चेत्‌ लटि पाप्रष्टि, पाप्रक्षि इति रूपद्वयं न सेत्स्यति | अस्मिन्‌ पक्षे 'पाप्रच्छ्‌ + तः' इति स्थले पाप्रष्टः भवति '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रेण |</big>
 
 
 
<big>यथा‌ 'पाप्रच्छ्‌ + सि' इति स्थले सि-प्रत्ययः कित्‌ङ्त्‌ न अतः '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण छकारस्य षत्वम्‌ | किन्तु अत्र नूतनविचारः अयं यत्‌ 'निमित्तापाये नैमित्तिकस्यापि अपायः' इति न स्वीक्रियते | भाष्यकारैः उच्यते यत्‌ इदं न परिभाषा न वा न्यायः, किमपि नास्ति | अस्य उपयोगो न कुत्रापि भवेत्‌ | अनेन कारणेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे तुक्‌-सहित-छकारः न मन्यते चेत्‌, छकारस्य स्थाने षकारः तु भवति, किन्तु तुक्‌-आगमः अपि स्थास्यति | तदर्थम्‌ अस्मिन्‌ सूत्रे तुक्‌-सहित-छकारः मन्तव्यः | अतः ये '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः स्वीकुर्वन्ति, तैः '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारः मन्तव्यः, अपि च स च छकारः तुक्‌-सहितः मन्तव्यः | नो चेत्‌ लटि पाप्रष्टि, पाप्रक्षि इति रूपद्वयं न सेत्स्यति | अस्मिन्‌ पक्षे 'पाप्रच्छ्‌ + तः' इति स्थले पाप्रष्टः भवति '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रेण |</big>
<big>तदा निवृत्ति-पक्षे '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्मिन्‌ क्ङिति इत्यस्य अनुवृत्तिः नास्ति | अस्मिन्‌ पक्षे '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारस्य आवश्यकता नास्ति | प्रछ + तृच्‌ → कार्यद्वयं प्राप्तं— तुक्‌-आगमः, छकारस्य शकारः च → तुक्‌-आगमः अन्तरङ्गं निमित्तस्य अल्पत्वात्‌, शत्वस्यापेक्षया | अत्र तुक्‌-आगमः प्रथमं भवति, एतदर्थं '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे तुक्‌-सहित-छकारः वक्तव्यः | अत्र च एका परिभाषा वर्तते '''सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः''' ['''सन्नियोगशिष्टानामन्यतरापाय उभयोरप्यपायः''' ८७] | अनेन सन्निपातलक्षणं भवति | चकारः छकारः च मिलित्वा आगच्छतः, मिलित्वा गच्छतः च |</big>
 
 
<big>तदा निवृत्ति-पक्षे '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्मिन्‌ क्ङिति इत्यस्य अनुवृत्तिः नास्ति | अस्मिन्‌ पक्षे '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारस्य आवश्यकता नास्ति | प्रछ + तृच्‌ → कार्यद्वयं प्राप्तं— तुक्‌-आगमः, छकारस्य शकारः च → तुक्‌-आगमः अन्तरङ्गं निमित्तस्य अल्पत्वात्‌, शत्वस्यापेक्षया | अत्र तुक्‌-आगमः प्रथमं भवति, एतदर्थं '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे तुक्‌-सहित-छकारः वक्तव्यः | अत्र च एका परिभाषा वर्तते '''सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः''' ['''सन्नियोगशिष्टानामन्यतरापाय उभयोरप्यपायः''' ८७] | अनेन सन्निपातलक्षणं भवति | चकारः छकारः च मिलित्वा आगच्छतः, मिलित्वा गच्छतः च |</big>
 
<big>अस्मिन्‌ निवृत्तिपक्षे 'पाप्रच्छ्‌ + सि' → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रेण पाप्रश्‌ + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष्‌ + सि → पाप्रक्षि</big>
 
 
<big>अत्र छकारान्तधातूनां प्रसङ्गे इतोऽपि किञ्चित्‌ | छकारात्‌ प्राक्‌ के के वर्णाः सम्भवन्ति ? छकारात्‌ प्राक्‌ ह्रस्व-अच्‌-वर्णः अस्ति चेत्‌, तुगागमो भवति | यथा इष्‌-धातुः | '''इषुगमियमां छः''' (७.३.७७) इत्यनेन इष्‌-धातोः छकारादेशः शिति परे | इष्‌ + श → '''इषुगमियमां छः''', '''अलोन्त्यस्य''' → इछ्‌ + अ → '''छे च''' (६.१.७३), '''आद्यन्तौ टकितौ''' (१.१.४६) इत्याभ्यां छकारे परे ह्रस्वस्वरस्य (इकारस्य अनन्तरं) तुक्‌-आगमः → इत्‌छ्‌ + अ → '''स्तोः श्चुना श्चुः''' (८.४.४०) → इच्छ्‌ + अ → इच्छ इति अङ्गम्‌ |</big>
 
 
 
<big>छकारात्‌ प्राक्‌ यदि ह्रस्ववर्णो नास्ति, कश्चन हल्‌-वर्णः एव भवति | नाम छकारः तुक्‌-सहितः नास्ति चेत्‌, संयोगो भवति एव | (आछि, वाछि, लाछि, एते इदित्‌-धातवः अतः नुमागमः; नुमागमात्‌ संयोगग्रस्तछकारः | उच्छि इति धातौ तुगागमः |) एवं च अन्ते संयोगः अस्ति, तस्यां च दशायां '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदान्ते छकार-लोपो भवति | वाञ्छ्‌-धातुः + क्विप्‌-प्रत्ययः → वाञ्छ्‌ इति प्रातिपदिकम्‌ | प्रथमपुरुषैकवचने वाञ्छ्‌ + सु → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन हलन्तात्‌ सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः → '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदान्ते छकार-लोपः → वान्‌ | एवमेव लङ्‌-लकारे अवावाञ्छ्‌ + ति → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) → अवावाञ्छ्‌ → '''संयोगान्तस्य लोपः''' (८.२.२३) → अवावान्‌ |</big>
 
 
 
<big>अनेन दृश्यते यत्‌ छकारात्‌ पूर्वं ह्रस्व-स्वरः नास्ति चेत्‌, पदान्ते संयोगः भवति, तत्र च सदा '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन छकार-लोपः | अनेन कारणेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रं तत्र न प्राप्नोति एव; अस्य कार्यावसरो नास्ति | लङि अवावान्‌; सुबन्ते वान्‌, वाञ्छौ, वाञ्छः | पदसंज्ञायां संयोगान्तलोपः; अपदान्ते अजादिप्रत्यये परे केवलं संयोजनं— वाञ्छौ, वाञ्छः |</big>
 
 
 
<big>वावाञ्छ्‌ + ति → अत्र यतोहि '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति तुक्‌-सहित-छकारः आवश्यकः, अस्य सूत्रस्य प्रसक्तिर्नास्ति → वावाञ्छ्‌ + ति → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → वावाङ्ख्‌ + ति → '''खरि च''' (८.४.५५) → वावाङ्क्‌ + ति → वावाङ्क्ति | एवमेव वावाञ्छ्‌ + सि | अवावाञ्छ्‌ + ताम्‌ |</big>
 
 
 
<big>'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे तुक्‌-रहित-छकारः यदि मन्यामहे, तर्हि 'पाप्रच्छ्‌ + सि' इति स्थले छकारस्य अस्थाने षकारः तु भवति, किन्तु तुक्‌-आगमः स्थास्यति | अस्य निवारणार्थं तुक्‌-सहित-छकारः अपेक्षितः सर्वत्र | तदर्थञ्च 'वावाञ्छ्‌ + ति' इति स्थले तुक्‌-सहित-छकारस्य अभावे अस्य सूत्रस्य प्रसक्तिर्नास्ति |</big>
 
 
 
teachers
73

edits