6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 651:
 
<big>'''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) = द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्‌-अभावे '''हो ढः''' (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''', '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''घः''', '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''', '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्येषाम्‌ अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>४. नह्‌-धातुः | अत्र एकैव धातुः यत्र हकारस्य गतिः भिन्ना— अत्र हकारस्य तकारो भवति |</big>
 
 
 
Line 806 ⟶ 809:
 
<big>यथा‌ 'पाप्रच्छ्‌ + सि' इति स्थले सि-प्रत्ययः कित्‌ङ्त्‌ न अतः '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण छकारस्य षत्वम्‌ | किन्तु अत्र नूतनविचारः अयं यत्‌ 'निमित्तापाये नैमित्तिकस्यापि अपायः' इति न स्वीक्रियते | भाष्यकारैः उच्यते यत्‌ इदं न परिभाषा न वा न्यायः, किमपि नास्ति | अस्य उपयोगो न कुत्रापि भवेत्‌ | अनेन कारणेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे तुक्‌-सहित-छकारः न मन्यते चेत्‌, छकारस्य स्थाने षकारः तु भवति, किन्तु तुक्‌-आगमः अपि स्थास्यति | तदर्थम्‌ अस्मिन्‌ सूत्रे तुक्‌-सहित-छकारः मन्तव्यः | अतः ये '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः स्वीकुर्वन्ति, तैः '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारः मन्तव्यः, अपि च स च छकारः तुक्‌-सहितः मन्तव्यः | नो चेत्‌ लटि पाप्रष्टि, पाप्रक्षि इति रूपद्वयं न सेत्स्यति | अस्मिन्‌ पक्षे 'पाप्रच्छ्‌ + तः' इति स्थले पाप्रष्टः भवति '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रेण |</big>
 
 
 
<big>तदा निवृत्ति-पक्षे '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्मिन्‌ क्ङिति इत्यस्य अनुवृत्तिः नास्ति | अस्मिन्‌ पक्षे '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारस्य आवश्यकता नास्ति | प्रछ + तृच्‌ → कार्यद्वयं प्राप्तं— तुक्‌-आगमः, छकारस्य शकारः च → तुक्‌-आगमः अन्तरङ्गं निमित्तस्य अल्पत्वात्‌, शत्वस्यापेक्षया | अत्र तुक्‌-आगमः प्रथमं भवति, एतदर्थं '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे तुक्‌-सहित-छकारः वक्तव्यः | अत्र च एका परिभाषा वर्तते '''सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः''' ['''सन्नियोगशिष्टानामन्यतरापाय उभयोरप्यपायः''' ८७] | अनेन सन्निपातलक्षणं भवति | चकारः छकारः च मिलित्वा आगच्छतः, मिलित्वा गच्छतः च |</big>
 
 
 
<big>अस्मिन्‌ निवृत्तिपक्षे 'पाप्रच्छ्‌ + सि' → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रेण पाप्रश्‌ + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष्‌ + सि → पाप्रक्षि</big>
Line 833 ⟶ 840:
 
<big>आहत्य '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः भवति चेत्‌, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारो भवति, स च तुक्‌-सहितः | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे अपि छकारः अपि तुक्-सहितः एव | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः नास्ति चेत्‌, '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रे छकारो न भवति एव | नो चेत्‌, यथा पाप्रच्छ्‌ + तः इति स्थले तुक्‌-आगमः स्थास्यति, इष्टरूपं न सेत्स्यति |</big>
 
 
 
<big>इति हलन्तेभ्यो धातुभ्यः सकारादि-प्रत्ययस्य योजनविधिः |</big>
 
 
 
teachers
73

edits