6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2 (view source)
Revision as of 20:35, 18 May 2021
, 3 years agono edit summary
Shubhada V (talk | contribs) No edit summary |
Shubhada V (talk | contribs) No edit summary |
||
Line 218:
<big>अ) सामान्यम् = '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन शत्वं, तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्</big>
<big>पाप्रच्छ् + सि → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) → पाप्रश् + सि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष् + सि → '''षढोः कः सि''' (८.२.४१) → पाप्रक् + सि → पाप्रक् + षि → पाप्रक्षि</big>
<big>'''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) = तुक्-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ् च व् च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श् च ऊठ् च तयोः समाहारद्वन्द्वः शूड् | '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात् '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''च्छ्वोः अङ्गस्य शूड्''' '''क्विझलोः''' '''अनुनासिके च''' |</big>
Line 234 ⟶ 238:
<big><u>जकारस्य
<big>अ) सामान्यम् = '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्</big>
<big>त्यज् + स्यति → '''चोः कुः''' (८.२.३०) इत्यनेन सकारे (झलि) परे कुत्वम् → त्यग् + स्यति → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम् → त्यग् + ष्यति → '''खरि च''' (८.४.५५) इत्यनेन चर्त्वं → त्यक् + ष्यति → त्यक्ष्यति</big>▼
▲<big>त्यज् + स्यति → '''चोः कुः''' (८.२.३०) इत्यनेन सकारे (झलि) परे कुत्वम् → त्यग् + स्यति → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वम् → त्यग् + ष्यति → '''खरि च''' (८.४.५५) इत्यनेन चर्त्वं → त्यक् + ष्यति → त्यक्ष्यति</big>
<big>योज् + स्यति → योग् + स्यति → योग् + ष्यति → योक् + ष्यति → योक्ष्यति</big>
<big>आ) भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज् इत्येषां षत्वम्</big>▼
▲<big>आ) भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज् इत्येषां षत्वम्</big>
<big>एतेषां षत्वं भवति '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण यतोहि एते धातवः असिन् सूत्रे साक्षात् उक्ताः |</big>
|