6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 30:
 
 
<big>यथा उक्तं गते पाठे, यावन्तः प्रत्ययाः धातुभ्यः विहिताः सन्ति, ते सर्वे आरभ्यन्ते एभिः अच्‌-वर्णैः (नाम अ, आ, इ, ई, उ, ऊ, ए, ऐ इत्येभिः) अथवा एभिः हल्‌-वर्णैः— य्‌, र्‍र् / व्‌, म्‌, न्‌ / त्‌, थ्‌, ध्‌, स् | यदा प्रत्ययः अज्भिः वर्णैः आरभ्यते अथवा य्‌, र्‍र् इत्येभिः हल्‌-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्‌-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति) | धातुः हलन्तः अस्ति चेत्‌ अथवा प्रक्रियायां हलन्तः भवति (यथा धा-धातुः, दधा + तः → दध्‌ + तः → धत्तः), अपि च प्रत्ययः त्‌, थ्‌, ध्‌, स् इत्येभिः वर्णैः आरभ्यते, तस्यां दशायां हल्‌-सन्धिः प्रचुरः लभ्यते | व्‌, म्‌, न् इत्येभिः वर्णैः आरभ्यते चेत्‌, विशिष्टस्थलेषु लभ्यते | सन्धिः नाम यत्र द्वयोः वर्णयोः मेलनेन वर्णविकारः भवति | हल्‌-सन्धिः नाम यत्र द्वयोः हल्‌-वर्णयोः मेलनेन वर्णविकारः भवति, इति तु जानीमः |</big>
 
 
Line 54:
 
 
<big>एषु सर्वत्र स्मरणीयं यत्‌— (१) सकारः खर्‍खर्-प्रत्याहारे अस्ति, अतः बहुत्र '''खरि च''' (८.४.५५) इत्यनेन चर्त्वसन्धेः प्रसङ्गः; (२) सकारः झल्‌-प्रत्याहारे अस्ति, अतः यत्र यत्र 'झलि' इति सूत्रेषु अनुवर्तते, तत्र तत्र सकारे परे तस्य प्रसङ्गः |</big>
 
 
Line 108:
 
 
<big>प्रत्ययस्य प्रथमवर्णः त्‌, थ्‌, ध्‌, स्‌ चेत्‌ हल्‌-सन्धिः भवतीति उक्तम्‌ | तेषु वर्णेषु त्‌, थ्‌, स्‌ च खर्‍खर्-प्रत्याहारे सन्ति, अतः तेषु वर्णेषु परेषु '''खरि च''' इत्यनेन चर्त्वसन्धिः (तत्तत्‌ वर्गस्य प्रथमादेशो) भवति | अत्र सादिप्रत्ययः परः अस्ति, अतः चर्त्वसन्धिः भवतु |</big>
 
 
Line 122:
 
 
<big>'''आदेशप्रत्यययोः''' (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्‍शर्-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | अस्य कार्यस्य नाम षत्वविधिः | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''सहे साडः सः''' (८.३.५६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''नुंविसर्जनीयशर्व्यवायेऽपि''' (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्‌''' इत्यस्य अधिकारः | '''इण्कोः''' (८.३.५७), '''अपदान्तस्य''' '''मूर्धन्यः''' (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—'''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां,''' '''नुंविसर्जनीयशर्व्यवायेऽपि'''* |</big>
 
 
Line 134:
 
 
<big>'''खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्च''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''झलां चर्‍‌चर् खरि च''' '''संहितायाम् ‌'''|</big>
 
 
Line 150:
 
 
<big>*प्रश्नः उदेति यत्‌ नुम्‌, विसर्गः, शर्‍शर् व्यवाये चेदपि षत्वमित्यस्य दृष्टान्तः कः ?</big>
 
 
Line 161:
 
 
<big>व्यवाये शर्‌शर्-प्रत्याहारस्य दृष्टान्ताः एते— सर्पिष्षु, यजुष्षु, हविष्षु | नपुंसके सप्तमीविभक्तौ बहुवचने सर्पिस्‌ + सुप्‌ → '''वा शरि''' (८.३.३६) इत्यनेन विकल्पेन विसर्गादेशः; पक्षे सकार एव → सकारपक्षे सकारस्य व्यवायेऽपि षत्वम्‌ → सर्पिस्‌ + षु → '''ष्टुना ष्टुः''' (८.४.४१) → सर्पिष्षु | एवमेव यजुष्षु, हविष्षु |</big>
 
 
Line 238:
 
 
<big>मोमुर्छ्‌ + सि → '''राल्लोपः''' (६.४.२१) इत्यनेन झलादि-प्रत्यये छकारलोपः → मोमुर्‍मोमुर् + सि → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधा-गुणः → मोमोर्‍मोमोर् + सि → षत्वम्‌ → मोमोर्षि</big>
 
 
Line 509:
 
 
<big>तोतुर्व्‌ + सि → '''राल्लोपः''' (६.४.२१) इत्यनेन झलादि-प्रत्यये परे वकारलोपः → तोतुर्‍तोतुर् + सि → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधा-गुणः → तोतोर्‍तोतोर् + सि → '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ → तोतोर्षि</big>
 
 
Line 598:
 
 
<big>(जागृ + सि →) जागर्‍जागर् + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → जागर्षि</big>
 
 
Line 697:
* <big>सकारादि-प्रत्यये परे, दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति '''दादेर्धातोर्घः''' इत्यनेन सूत्रेण |</big>
* <big>तदा आदौ स्थितस्य दकारस्य धकारादेशो भवति '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' इत्यनेन |</big>
* <big>खर्‍खर् परे अस्ति अतः '''खरि च''' (८.४.५५) इत्यनेन घकारस्य स्थाने ककारादेशो भवति |</big>
 
* <big>कवर्गीयवर्णः पूर्वम्‌ अस्ति अतः '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन स्-स्थाने षत्वम्‌ |</big> <font size="4"></font>
page_and_link_managers, Administrators
5,097

edits