6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
Line 386:
 
 
<big>अत्र इतोऽपि कश्चन प्रश्नः उदेति— रुधादिगणे अपित्सु तिङ्‌प्रत्ययेषु सर्वेषाम्‌ अङ्गानां '''श्नसोरल्लोपः''' (६.४.१११) इत्यनेन नकारोत्तरस्य अकारलोपो भवति, अतः अङ्गस्य उपधायां नकारो भवति | अपि च रुधादिगणे हिसि-धातुम्‌ अतिरिच्य सर्वे धातवः अनिदितः | अतः एषां सर्वेषाम्‌ अनिदितां धातूनाम्‌ अङ्गानाम्‌, अपित्सु प्रत्ययेषु '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन, किमर्थं नकारलोपो न स्यात्‌ ?</big>
 
 
<big>रुन्ध्‌ + तः, क्षुन्द्‌‌ + तः, रिन्च्‌‌ + तः, तृन्द्‌‌ + तः, कृन्द्‌ + तः, तृन्ह्‌ + तः— एषु सर्वेषु स्थलेषु '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन अपित्सु प्रत्ययेषु सर्वत्र नकारलोपः भवेत्‌ | किमर्थं न भवति ?</big>
 
 
<big>'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) = अनिदितां हलन्तानाम्‌ अङ्गानाम्‌ उपधायाः नकारस्य लोपो भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाउपधायाः न लोपः क्ङिति''' |</big>
 
 
Line 400:
 
 
<big>तर्हि रुधादिगणे एषां सर्वेषाम्‌ अनिदितां धातूनाम्‌ अङ्गानाम्‌, अपित्सु प्रत्ययेषु '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन, किमर्थं नकारलोपो न स्यात्‌ ?</big>
 
 
 
<big>उत्तरम्‌ एवं यत्‌ '''श्नसोरल्लोपः''' (६.४.१११) च '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्याभ्यां यत्‌ कार्यं भवति, तद्द्वयमपि आभीयकार्यम्‌ | अपि च द्वयोः आश्रयः समानः कित्‌-ङित्‌ प्रत्ययः | अतः '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इति सूत्रं प्रति '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्य कार्यम्‌ असिद्धम्‌ | '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) प्रति यतोहि अकारलोपो न जातः, नकारः उपधायां नास्ति; तस्मात्‌ '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इति सूत्रस्य प्रसक्तिर्नास्ति |</big>
 
 
Line 410:
 
 
<big>रुनध्‌ + तः → '''श्नसोरल्लोपः''' (६.४.१११) → रुन्ध्‌ + तः → '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इति सूत्रं प्रति '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्य कार्यम्‌ असिद्धम्‌ → रुनध्‌ + तः → '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इति सूत्रस्य प्रसक्तिर्नास्ति</big>
 
 
page_and_link_managers, Administrators
5,097

edits