|८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/176_rudhAdigaNaH---%E0%A4%B9%E0%A4%BF%E0%A4%B8%E0%A4%BF_%2B_tatra-hinas-iti-angasAdhane-bAdhya-bAdhakabhAva-cintanam_%2B_labi-yangluki-langi-alAlan_2019-10-15.mp3 rudhAdigaNaH---हिसि_+_tatra-hinas-iti-angasAdhane-bAdhya-bAdhakabhAva-cintanam_+_labi-yangluki-langi-alAlan_2019-10-15]
|-
|(अस्मिन् वर्गे लबि धातोः प्रसङ्गे [[https://worldsanskrit.net/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/08 - धातुपाठे हल्-सन्धिः-dhAtupAThe-hal-sandhiH-1 १|अस्य पाठस्य]]<nowiki> अध्ययनं जातम् |)</nowiki>
|-
|९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/177_rudhAdigaNaH---%E0%A4%B9%E0%A4%BF%E0%A4%B8%E0%A4%BF_%2B_%E0%A4%A4%E0%A5%83%E0%A4%B9_%2B_sArvadhAtUnAM-vAkyAbhyAsaH_2019-10-22.mp3 rudhAdigaNaH---हिसि_+_तृह_+_sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-22]
<big>अत्र इतोऽपि कश्चन प्रश्नः उदेति— रुधादिगणे अपित्सु तिङ्प्रत्ययेषु सर्वेषाम् अङ्गानां '''श्नसोरल्लोपः''' (६.४.१११) इत्यनेन नकारोत्तरस्य अकारलोपो भवति, अतः अङ्गस्य उपधायां नकारो भवति | अपि च रुधादिगणे हिसि-धातुम् अतिरिच्य सर्वे धातवः अनिदितः | अतः एषां सर्वेषाम् अनिदितां धातूनाम् अङ्गानाम्, अपित्सु प्रत्ययेषु '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन, किमर्थं नकारलोपो न स्यात् ?</big>
<big>रुन्ध् + तः, क्षुन्द् + तः, रिन्च् + तः, तृन्द् + तः, कृन्द् + तः, तृन्ह् + तः— एषु सर्वेषु स्थलेषु '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन अपित्सु प्रत्ययेषु सर्वत्र नकारलोपः भवेत् | किमर्थं न भवति ?</big>
<big>'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) = अनिदितां हलन्तानाम् अङ्गानाम् उपधायाः नकारस्य लोपो भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात् '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अनिदितां हलः अङ्गस्य उपधायाउपधायाः न लोपः क्ङिति''' |</big>
<big>तर्हि रुधादिगणे एषां सर्वेषाम् अनिदितां धातूनाम् अङ्गानाम्, अपित्सु प्रत्ययेषु '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन, किमर्थं नकारलोपो न स्यात् ?</big>
<big>उत्तरम् एवं यत् '''श्नसोरल्लोपः''' (६.४.१११) च '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्याभ्यां यत् कार्यं भवति, तद्द्वयमपि आभीयकार्यम् | अपि च द्वयोः आश्रयः समानः कित्-ङित् प्रत्ययः | अतः '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इति सूत्रं प्रति '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्य कार्यम् असिद्धम् | '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) प्रति यतोहि अकारलोपो न जातः, नकारः उपधायां नास्ति; तस्मात् '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इति सूत्रस्य प्रसक्तिर्नास्ति |</big>
<big>'''असिद्धवदत्राभात्''' (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यषष्ठाध्यायस्य अन्तपर्यन्तम् | '''असिद्धवदत्राभात्''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम् (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम् | असिद्धवत् अव्यपदयम्, अत्र अव्यपदयम्, आ अव्यपदयं, भात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | 'असिद्धवत्' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्' अतः 'असिद्धवत्' इत्युक्तम् | ‘समानाश्रितं कार्यम्' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन् + त्रल् → 'अत्र' | 'अस्मिन्' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम् इति आशयः | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत् अत्र आ भात्''' |</big>
<big>रुनध् + तः → '''श्नसोरल्लोपः''' (६.४.१११) → रुन्ध् + तः → '''असिद्धवदत्राभात्''' (६.४.२२) इत्यनेन '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इति सूत्रं प्रति '''श्नसोरल्लोपः''' (६.४.१११) इत्यस्य कार्यम् असिद्धम् → रुनध् + तः → '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इति सूत्रस्य प्रसक्तिर्नास्ति</big>
|