6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 351:
 
<big>पृची → पृच्‌ (परस्मैपदी, सम्पर्के = संयोजयति)</big>
 
 
<big>अनयोः द्वयोः धात्वोः प्रसङ्गे णत्वमपि परिशीलनीयं भवति | पिति प्रत्यये परे णत्वं भवति; अपिति प्रत्यये परे णत्वं न भवति | किमर्थमिति अग्रे उच्यते |</big>
 
 
<big>रिन्च्‌ + तः → अत्र '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णत्वं स्यात्‌, परन्तु अत्र सूत्रद्वयस्य प्रसक्तिरस्ति— '''नश्चापदान्तस्य झलि''' (८.३.२४), '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) च | त्रिपाद्यां समानकाले सूत्रद्वयस्य प्रसक्तिरस्ति चेत्‌, '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन परसूत्रम्‌ असिद्धं भवति | अनयोः सूत्रयोर्मध्ये '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) परसूत्रम्‌ अतः अत्र असिद्धं भवति— शास्त्रासिद्धम्‌ इति | '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन नकारस्य स्थाने अनुस्वारः | अनुस्वारे कृते, णत्वस्य प्रसक्तिर्नास्ति |</big>
 
 
<big>पृच्‌-धातोः प्रसङ्गे कार्यं तदेव; एक एव भेदः यत्‌ णत्वविधायकसूत्रं '''रषाभ्यां नो णः समानपदे''' (८.४.१) |</big>
 
 
<big>त्रयाणाम्‌ अपि धातूनां कृते अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<u><big>रूपाणि</big></u>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
653

edits