6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 467:
 
<big>a. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌</big>
 
 
 
<big>पित्सु = अङ्गकार्यं नास्ति | कृनत्‌ + ति → कृणत्ति | कृनत्‌ + आनि → कृणतानि |</big>
 
<big>अपित्सु = '''श्नसोरल्लोपः''' इत्यनेन श्नम्‌ इत्यस्य अकारस्य लोपः | कृनत् + तः → कृन्त्‌ + तः → कृन्त्तः</big>
 
 
 
<big>b. सन्धिकार्यम्‌</big>
 
 
 
<big>कृन्त्‌ + तः → '''नश्चापदान्तस्य झलि''' (८.३.२४) → कृंत्‌ + तः → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → कृन्त्‌ + तः → वर्णमेलने → कृन्त्तः</big>
 
 
 
<big>धेयं यत्‌ अस्य क्रमस्य आरम्भे अन्ते च णत्वं स्यात्‌ इति भाति | किन्तु '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन न भवति | आरम्भे शास्त्रासिद्धम्‌; अन्ते कार्यासिद्धम्‌ |</big>
 
 
 
<big>१. आरम्भे शास्त्रासिद्धम्‌— कृन्त्‌ + तः → अत्र '''रषाभ्यां नो णः समानपदे''' (८.४.१) इत्यनेन णत्वं स्यात्‌, परन्तु अत्र सूत्रद्वयस्य प्रसक्तिरस्ति— '''नश्चापदान्तस्य झलि''' (८.३.२४), '''रषाभ्यां नो णः समानपदे''' (८.४.१) च | त्रिपाद्यां समानकाले सूत्रद्वयस्य प्रसक्तिरस्ति चेत्‌, '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन परसूत्रम्‌ असिद्धं भवति | अनयोः सूत्रयोर्मध्ये '''रषाभ्यां नो णः समानपदे''' परसूत्रम्‌ अतः अत्र असिद्धं भवति | '''नश्चापदान्तस्य झलि''' इत्यनेन नकारस्य स्थाने अनुस्वारः | अनुस्वारे कृते, णत्वस्य प्रसक्तिर्नास्ति |</big>
653

edits