6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 489:
 
<big>१. आरम्भे शास्त्रासिद्धम्‌— कृन्त्‌ + तः → अत्र '''रषाभ्यां नो णः समानपदे''' (८.४.१) इत्यनेन णत्वं स्यात्‌, परन्तु अत्र सूत्रद्वयस्य प्रसक्तिरस्ति— '''नश्चापदान्तस्य झलि''' (८.३.२४), '''रषाभ्यां नो णः समानपदे''' (८.४.१) च | त्रिपाद्यां समानकाले सूत्रद्वयस्य प्रसक्तिरस्ति चेत्‌, '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन परसूत्रम्‌ असिद्धं भवति | अनयोः सूत्रयोर्मध्ये '''रषाभ्यां नो णः समानपदे''' परसूत्रम्‌ अतः अत्र असिद्धं भवति | '''नश्चापदान्तस्य झलि''' इत्यनेन नकारस्य स्थाने अनुस्वारः | अनुस्वारे कृते, णत्वस्य प्रसक्तिर्नास्ति |</big>
 
 
<big>२. अन्ते कार्यासिद्धम्‌— कृंत्‌ + तः → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → कृन्त्‌ + तः → कृन्त्तः | अधुना कृन्त्तः इति रूपं दृष्ट्वा '''रषाभ्यां नो णः समानपदे''' इति सूत्रस्य प्रसक्तिः स्यात्‌ इति भाति | परन्तु तस्मात्‌ प्राक्‌ '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन नकारः आदिष्टः | अधुना '''रषाभ्यां नो णः समानपदे''' (८.४.१), इति सूत्रं प्रति '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) परसूत्रम्‌ , अतः तस्य कार्येम्‌ असिद्धम्‌ | वस्तुतः कार्यं सञ्जातम्‌ एव, परन्तु '''रषाभ्यां''' इत्यस्य दृष्ट्या न जातमेव; '''रषाभ्यां''' इति सूत्रेण कृंत्तः इत्येव दृश्यते न तु कृन्त्तः | अतः णत्वस्य अवसरः न भवति |</big>
 
 
<big>कृन्त्‌ + हि → '''हुझल्भ्यो हेर्धिः''' → कृन्त्‌ + धि → '''नश्चापदान्तस्य झलि''' (८.३.२४) → कृंत्‌ + धि → '''झलां जश्‌ झशि''' (८.४.५३) → कृंद्‌ + धि → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → कृन्द्‌ + धि → कृन्द्धि → '''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन विकल्पेन झर्‌-लोपः → कृन्धि</big>
 
 
<big>'''झरो झरि सवर्णे''' (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''हलो यमां यमि लोपः''' (८.४.६४) इत्यस्मात्‌ '''हलः''', '''लोपः''' चेत्यनयोः अनुवृत्तिः | '''झयो होऽन्यतरस्याम्'''‌ (८.४.६२) इत्यस्मात्‌ '''अन्यतरस्याम्‌''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हलः झरः लोपः अन्यतरस्यां सवर्णे झरि''' '''संहितायाम्''' |</big>
 
 
<big>यत्र यत्र '''झरो झरि सवर्णे''' (८.४.६५) इत्यस्य प्रसङ्गः स्यात्‌, तत्र तत्र अवश्यं प्रयोक्तव्यम्‌ |</big>
653

edits